संस्कारप्रकरणम् - अथवसोर्धारानुवाक:
ऋग्वेदीयब्रह्मकर्मसमुच्चयः
श्री: ॥ वसोर्धाराचेत्थं ॥ वन्हेरुपरिस्तंभद्वयविधृतामौदुंबरीमृज्वीमकोटरांबाहुप्रमाणामार्द्रां
स्त्रुचंपूर्वाग्रांनिधाय तदुपरिशृंखलावलंबितेननिर्मलघृतपूरितेन ताम्रेणमृन्मयेनवाकुंभेनाधोय
वमात्रछिद्रेणाज्यंमुंचतास्त्रुवप्रणालिकयाऽसुवर्णजिव्हातोधोनिपतंतीमग्नेरुपरिवसोर्धारांपातयेत् ॥
पतंत्यांचतस्यांचमकानुवाकानाग्नेयादीनिसूक्तानिश्रावयेत् ॥ तत्रकूयवाश्चमइतिमंत्रवायजु
श्चंद: ॥
अग्निमीळेनवानांमधुच्छंदाअग्निर्गायत्री ॥ विष्णोर्नुकमितिषण्णांदीर्घतमाविष्णुरनुष्टुप् ॥
आतेपितरितिपंचदशानांगृत्समदोरुद्रस्त्रिष्टुप् ॥ स्वादिष्ठयेतिदशानांमधुच्छंदा:पवमान:
सोमोगायत्री ॥ कायमानइतिमहावैश्वानरसाम्नोवैश्वानरोमहावैश्वानर:पथ्याबृहती ॥
मूर्धानमितिज्येष्ठसाम्नोभरद्वाजोवैश्वानरस्त्रिष्टुप् ॥ वसोर्धारायांविनियोग: ॥
सामगानासंभवेऋड्वात्रंपठेत् ॥ ॐ वसोर्धारांजुहोतिवसोर्मेधारासदितिवाएषाहूयतेघृतस्यवा
एनमेषाधारामुष्मिंल्लोकेपिन्वमानोपतिष्ठत् आज्येनजुहोतितेजोवाआज्यंतेजोवसोर्धारातेज
सैवास्मैतेजोवरुंधेऽथोकामावैवसोर्धाराकामानेवावरुंधेयंकामयेतप्राणानस्यान्नाध्यं ध्यंवि
च्छिंध्यामितिविग्राहंतस्यजुहुयात्प्राणानेवास्यान्नाध्यंविच्छिनत्तियंकामयेतप्राणानस्यान्नाद्यसंतनुयामिति संततांतस्यजुहुयात्प्राणानेवास्यान्नाध्य संतनोतिद्वादशद्वादशानिजुहो
ति द्वादशमासा:संवत्सर:संवत्सरेणैवास्माऽअन्नमवरुंधेऽन्नंचमेक्षुच्चमइत्याहैतद्वाऽअन्न
स्यरुप रुपेणैवान्नमवरुंधेग्निश्चमआपश्चम इत्याहैषावाअन्नस्ययोनि:सयोन्येवान्नमरुंधे
र्धेद्राणिजुहोति देवताएवावरंधे यत्सर्वेषामर्धमिंद्र:प्रतितस्मादिंद्रोदेवतानांभूयिष्ठभाक्तमइंद्र
मुत्तरमाहेंद्रियमेवास्मिन्नुपरिष्टादृधाति यज्ञायुधानिजुहोति यज्ञोवैयज्ञायुधानियज्ञमेवावरुं
धेथोऽएतद्वैयज्ञस्यरुपरुपेणैवयज्ञमवरुंधेऽवभृथशमेस्वगाकारश्चमइत्याहस्वगाकृत्याअग्नि
श्चमेघर्मश्चमइत्याहैतद्वैब्रह्मवर्चसस्यरुप रुपेणैवब्रह्मवर्चसमवरुंधऋक् चमेसामचम इत्याहैतद्वैछंदसा रुपरुपेणैवछंदास्यवरुंधेगर्भाश्चमेवत्साश्चमइत्याहैतद्वैपशूनारुपरुपेणैव
पशूनवरुंधेकल्पांजुहोत्यक्लृप्तस्यक्लृप्त्यैयुग्मदयुजेजुहोति मिथुनत्वायोत्तरावतीभावतोभि
क्रांत्याएकाचमेतिस्त्रश्चमइत्याहदेवछंदसंवाएकाचतिस्त्रश्चमनुष्यछंदसंचतस्त्रश्चाष्टौचदेव
छंदसंचैवमनुष्यछंदसंचावरुंधऽआत्रयस्त्रिशतोजुहोतित्रयस्त्रिशद्वैदेवतादेवताएवावरुंधऽआष्टाचत्वारि शतोजोहोत्यष्टाचत्वारि शदक्षराजगतीजागता:पशवोजगत्यैमास्मैपशूनवरुंधे
वाजशप्रसवश्चेतिद्वादशंजुहोतिद्वादशमासा:संवत्सरसंवत्सरएवप्रतितिष्ठति ॥
इतिवसोर्धारानुवाक: ॥१॥
N/A
References : N/A
Last Updated : July 28, 2023
TOP