संस्कारप्रकरणम् - अथाश्लेषाजननशांति:
ऋग्वेदीयब्रह्मकर्मसमुच्चयः
श्रीगणेशायनम: ॥ यजमान:आचम्यप्राणानायम्यदेशकालाध्युच्चार्यगोमुखप्रसवंकृत्वाऽस्य
शिशोराश्लेषाजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंमनूक्तविधिनासग्रहमखमखामाश्लेषाशांतिंकरिष्येइतिसंकल्प्य ॥
गणेशपूजनादिऋत्विग्वरणातंकुर्यात् ॥ अग्न्युत्तारणसर्षपविकिरणाध्यंते मूलशांत्युक्तप्रका
रेण्कुंभपंचकेचतु:प्रस्त्रवणेपंचवक्रैककुंभेवारुद्रवरुणयोरावाहनादिपूजनंविधायरुद्रैकादशिनीजपरक्षोहणमितिसूक्तजपांते रुद्रकुंभोत्तरभागेगोमयेनोपलिप्तेधात्वादिभि:परित:शोभितेशुध्द
तंडुलैरक्तपीतसितकृष्णापिष्टकैर्वाअतुर्विंशतिदलान्वितंपंकजंविधाय तत्कर्णिकायांभूमिंम
हीध्यौरित्यभिमृश्य ओषधयइतिव्रीहीन्निक्षिप्याकलशेष्वितिस्थापितकलशमिमंमेगंगइति
तीर्थोदकेनापूर्व गंधद्वारामितिगंधपुष्पाभ्याम युवासुवासाइतिवस्त्रवेष्टनेनचसंपूज्य कांडा
त्कांडादितिदूर्वाभिश्च अश्वत्थेवइतिपंचपल्लवै: स्योनेतिसप्तमृभ्दि: आपोहिष्ठेतिपंचगव्ये
नसंयोज्य या:फलिनीरित्फलानिपंचरत्नानियवान्सवौंषधीश्चप्रक्षिप्यपूर्णादवींतिनिहितपूर्ण
पात्रेसाष्टदलवस्त्रेआश्लेषादेवताप्रतिमायां ॥
नमोअस्तुवामदेव:सर्पाअनुष्टुप् सर्पावाहनेवि० ॥ ॐ नमोअस्तुसर्पेभ्यइतिसर्पानावाह्य
ध्यायेत् ॥ सर्पोरक्तस्त्रिनेत्रश्चद्विभुज:पीतवस्त्रक: ॥ फलकासिधरस्तीक्ष्णोदिव्याभरणभू
षित: इति ॥ तद्दक्षिणोत्तरदेशयो:पुष्यमघेअधिप्रत्यधिदेवतेआवाह्य चतुर्विंशतिदलेषुपूर्वद
लमारभ्यप्रादक्षिण्येपूर्वाफल्गुनीमारभ्यपुनर्वसुपर्यंतानिनक्षत्राणिआवाहयेत् ॥
तत्रपुष्यावाहने ॥ ॐ बृहस्पति:प्रथमंजायमान: ॥ तिष्यंनक्षत्रमभिसंबभूव ॥ श्रेष्ठोदेवानां
पृतनासुजिष्णु: ॥ दिशोनुसर्वाअभयंनोअस्तु ॥ तिष्य:पुरस्तादुतमध्यतोन: ॥ बृहस्पतिर्न:
परिपातुपश्चात् ॥ बाधेतांद्वेषोअभयंकृणतां ॥ सुवीर्यस्यपतय:स्यामेतितैत्तिरीयशाखोक्तो
मंत्र: ॥ तथामघावाहने ॥ ॐ उपहूता:पितरोयेमघासु ॥ मनोजवस:सुकृत:सुकृत्या: ॥ तेनोनक्षत्रेहवमागमिष्ठा: ॥ स्वधाभिर्यज्ञंप्रयतंजुषंताम् ॥ येअग्निदग्धायेऽनग्निदग्धा: ॥
येमुंलोकंपितर:क्षियंति ॥ याश्चविद्मयाउचनप्रविद्म ॥ मघासुयज्ञसुकृतंजुषंतामिति ॥
तथापूर्वाफल्गुन्याध्यावाहनानितत्रतयिरेव ॥ ॐ गवांपति:फल्गुनीनामसित्वमित्यादिवा
क्याष्टकै:कर्तव्यानि ॥ यद्वानाममंत्रै:पूर्वाफल्गुनीभ्यांनम: ॥ पूर्वाफल्गुन्यावावाहयामि
उत्तराफलगुनीभ्यां० हस्ताय० चित्रायै० निष्ठायै० विशाखाभ्यां० अनूराधेभ्यो० ज्येष्ठायै०
मूलाय० पूर्वाषाढाम्यां० उत्तराषाढाभ्यां० श्रोणायै० श्रविष्ठाभ्यो० शतभिषजे० पूर्वाप्रोष्ठपदे
भ्यो० उत्तराप्रोष्ठपदेभ्यो० रेवत्यै० अश्वयुग्भ्यां० अपभरणीभ्यो० कृत्तिकाभ्यो० रोहिण्यै०
मृगशीर्षाय० आर्द्रायै० पुनर्वसुभ्यां० इत्येत्यै: ॥
ततआवाहितदेवताउक्ततत्तन्मंत्रै:षोडशोपचारै:संपूज्य आचार्योयजमानशाखोक्तेनविधिना
स्वशाखोक्तविधिनावाऽग्निंप्रतिष्ठाप्यग्रहपूजांवरुणपूजांचकृत्वाऽन्वादध्यात् ॥
तत्रग्रहपीठस्थदेवतानांमूलशांतिवन्निर्देशंकृत्वा ॥ सर्पान् प्रतिद्रव्यमष्टोत्तरशतसंख्याभिर्घृ
तसंमिश्रपायससमिदाज्यचर्वाहुतिभि: तिष्यंमघाश्चप्रतिद्रव्यमष्टाविंशतिभिस्तदाहुतिभि:
(सर्पाणामष्टाविंशतिश्चेदितरयोष्टावष्टौ) पूर्वाफल्गुन्यादिचतुर्विंशतिदेवता:प्रत्येकमष्टाष्ट
संख्याभि:पायसाहुतिभि: रक्षोहप्रभृतिदेवतानिर्देशोमूलशांतिवत् ॥
शेषेणत्यादिपायसकृसरचरुणांश्रपणं आज्यभागांतेयथान्वाधानंत्यागंयजमान: तत्तन्मंत्रैर्होमं
चसर्त्विगाचार्य:कुर्यात् ॥
आज्यहोमेषुप्रत्याहुतिउत्तरत:स्थापितजलकुंभेसंपाताख्यशेषंप्रक्षिपेत् ॥ सर्पेभ्योहोमस्तु ॐ
इदसर्पेभ्योहविरस्तुजुष्टं ॥ आश्रेपायेषामनुयंतिचेत: ॥ येअंतरिक्षंपृथिवींक्षियंति ॥ तेन:
सर्पासोहवमागमिष्ठा: ॥ येरोचनेसूर्यस्यापिसर्पा: ॥ येदिवंदेवीमनुसंचरंति ॥ येषामाश्रेषा
अनुयंतिकामं ॥ तेभ्य:सर्पभ्योमधुमज्जुहोमि । इतित्तैत्तिरीयोक्तवाक्याष्टकेनकार्य: ॥
इदंसर्पेभ्यभ्योजुहुयादितिमानवोक्ते: मदनरत्नोदाहृतसंहितायामस्यामेवशांतौहोमाधिकारे
इदंसर्पेभ्यइतिचवाक्यान्यष्टौतुसार्पभेइत्युक्तसंवादलाभाश्च ॥
अतएवेदंहविरितियोजनयेदमित्यस्यमानववाक्येवैयर्थ्यमापादयभ्द्योनमोमान्येभ्य: ॥
सर्पतिष्यमघाहोमोवदानसंपदापायसचर्वो:कार्य: ॥ प्रायश्चित्तहोमांतेविनायकादिभ्योबलिदा
नांतंकृत्वारुद्रायसर्पेभ्यस्तिष्यायमघाभ्य:क्षेत्रपालायचसदीपबलीन् दध्यात् ॥
ततआचार्योद्वादशगृहीतादिविधिनामूलशांतिवत्पूर्णाहुतिंहुत्वासंपातंकुंभेक्षिपेत् ॥ तत:प्रणी
तानिनयनादितद्वत्पर्युक्षणांतम् ॥ ततोरुद्रकुंभदक्षिणत:स्पृष्ट्वात्र्यंबकजपादिमूलशांतिवत् ॥ ततोरुद्रसर्पादिदेवतानांपंचोपचारैरुत्तरपूजांकृत्वाऽभिषेकानुज्ञांतद्वदेवादायसंपातोदकमित
रकुंभजलानिचादायाऽभिषिंचेत् ॥
सर्त्विगाचार्य:अक्षीभ्यामित्यादियज्जाग्रतइत्यंतंमूलशांतिवत् ॥ श्लोकेषुविशेष: ॥ यौसौव
ज्रधरोदेवोमहेंद्रोगजवाहन: ॥ सार्पजातशिशोर्दोषंमातापित्रोर्व्यपोहतु ॥ योसौशक्तिधरोदेवो
हुतभुड्त्रेषवाहन: ॥ सप्तजिह्वश्चदेवोग्नि:सार्पदोषंव्यपोहतु ॥ योसौदंडधरोदेवोधर्मोमहिष
वाहन: ॥ सार्पजातशिशोर्दोषंव्यपोहतुयमोमम ॥ योसौखड्गधरोदेवोनिऋतीराक्षसाधिप: ॥
प्रशामयतुसार्पोत्थंदोषंगंडांतसंभवम् ॥ योसौपाशधरोदेवोवरुणश्चजलेश्वर: ॥
नक्रवाह:प्रचेतान:सार्पोत्थाघंव्यपोहतु ॥ योसौदेवोजगत्प्राणोमारुतोमृगवाहन: ॥ मातापि
त्रो:शिशोश्चैवसार्पदोषंव्यपोहतु ॥ योसौनिधिपतिर्देव:खड्गभृद्वाजिवाहन: ॥ प्रशामयतुसा
र्पोत्थंदोषंबालस्यशांतिद: ॥ योसौपशुपतिर्देव:पिनाकीवृषवाहन: ॥ आश्लेषाऋक्षजातस्यमा
तापित्रोर्धनस्यच ॥ भ्रातुर्ज्ञातिकुलस्थानांदोषंसर्वंव्यपोहतु ॥ योसौवागीश्वरोनामअधिदेवोबृ
हस्पति: ॥ मातापित्रो:शिशोश्चैवगंडांतंसव्यपोहतु ॥ पितर:सर्वभूतानांरक्षंतुपितर:सदा ॥
सार्पनक्षत्रजातस्यवित्तंचज्ञातिबांधवान् ॥ सुरास्त्मामभिषिंचंतु० ॥ ॐ तच्छंयोरा० शतच्छिद्रांतर्धानेनमूलवदभिषेकांतेआचार्यरुद्रजापिभ्यांधेनुकृष्णानडुहावन्येभ्योदक्षिणायादानंमूलवत्कृत्वा ग्रहाणामुत्तरपूजांविधाय सर्पेभ्योऽक्षतफलपुष्पयुतमर्घ्यंदध्यात् ॥ अर्ध्यमंत्र: ॥ सर्पाधीशनमस्तुभ्यंनागानांचगणाधिप ॥ गृहाणार्घ्यंमयादत्तंसर्वारिष्टप्रशांतये ॥ इति ॥ ततोब्राह्मणभोजनंसंकल्पादिआशीर्ग्रहणांतंमूलवदिति ॥ इत्याश्लेषाजननशांति: ॥
N/A
References : N/A
Last Updated : August 06, 2023
TOP