संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथविषनाडीजननशांति:

संस्कारप्रकरणम् - अथविषनाडीजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ कर्ताऽऽशौचांतेदेशेकालौसंकीर्त्यविषनाड्यामेतच्छिशुजननसूचितसर्वारि
ष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंवृध्दगर्गोक्तांसग्रहमखांशांतिंकरिष्यइतिसंकल्प्य गणेश
पूजनाध्याचार्यर्त्विग्वरणांतंकुर्यात् ॥
आचार्योयदत्रसंस्थितमितिस्थलशुध्दिंकृत्वायथाशक्तियथालक्षणंनिर्मितानांहैमीनांरुद्रादिप्रतिमानांचतसृणामग्न्युत्तारणंकृत्वा पूर्वभागेमहीध्यौरितिभुवंस्पृष्ट्वा तत्रओषधय:संवदंत
इतिचतु:प्रस्थपरिमितान्व्रीहीन् प्रक्षिप्य तै:स्थंडिलंपरिकल्प्य तत्रकलशस्थापनोदकपूरणे
समंत्रेकृत्वा याओषधीरितिसर्वौषधी:प्रक्षिप्य स्योनेतिसप्तमृद: अश्वत्थेवइतिपंचपल्लवान्
कांडात्कांडादितिदूर्वा: हिरण्यरुपइतिहिरण्यं या:फलिनीरितिफलं युवासुवासाइतिवस्त्रद्वये
नावेष्ट्य सहिरत्नानीतिपंचरत्नानिनिक्षिप्य गंधद्वारामितिगंधादिनाकलशंसंपूज्यपूर्णाद
वींतिपूर्णपात्रंनिधाय तत्रप्रतिमाचतुष्टयंनिधायतास्वावाहनदिषोडशोपचारैर्देवता:पूजयेत् ॥
कद्रुद्रायेत्यस्यकण्वोरुद्रोगायत्री ॥ यमायसोमंयमोयमोनुष्टुप् ॥
अग्निर्मूर्धाविरुपोऽग्निर्गायत्री ॥ परंमृत्योइत्यस्यसंकुसुमोमृत्युस्त्रिष्टुप् ॥ पूजांतेस्थंडिलेप
श्चिमभागस्थेऽग्निंप्रतिष्ठाप्यस्थापितोत्तरभागे ग्रहपूजनकलशस्थापनांतंकृत्वाऽन्वादध्यात् ॥ चक्षुषीआज्येनेत्यंते ग्रहपीठदेवतान्वाधानंप्रसिध्दरीत्याकृत्वा रुद्रंप्रतिद्रव्यमष्टोत्तरशतसं
ख्याभि:समिच्चरुघृताहुतिभि: ॥
यममग्निंमृत्युंचतावतीभिस्तदृव्याहुतिभि: एताएवदेवतास्तिलाहुतिभिश्चतत्संख्याभि: शेषे
णेत्यादिप्रणीताप्रणयनांतेआज्यनिर्वाप: आज्येनसहगृहसिध्दान्नस्यपर्यग्निकरणसंमार्गांते
चरोरग्रावधिश्रपणमभिघारणंचकृत्वोदगुद्वासनाध्याज्यभागांते ग्रहपीठेदेवतानांयथान्वाधा
नंत्यागेकृतेप्रत्येकमष्टोत्तरशतसंख्याहुतिपर्याप्तंसमिच्चरुघृतात्मकंद्रव्यत्रयंरुद्राय एवंमाय
अग्नयेमृत्यवे एवंतत्संख्याहुतिपर्याप्तंतिलद्रव्यंरुद्रादिभ्योनममेतित्यागेकृते ऋत्विक् सहि
तआचार्यस्तत्तन्मंत्रैर्जुहुयात् ॥
प्रायश्चित्तहोमांतेलोकपालेभ्योग्रहपीठेदेवताभ्यश्चबलिदानंरुद्रयमाग्निमृत्युश्चांतेक्षेत्रपालायच ॥ पूर्णाहुत्यंतेप्रणीताविमोक: ॥ कलशद्वयोदकेनाभिषेक: समुद्रज्येष्ठाइत्यादिभिर्मंत्रै: ॥ प्रीयतांभगवानीश:पिनाकीसर्वतोमुख: ॥ तवमूर्तिप्रदानेनसर्वाभीष्टप्रदोभव ॥ ईषत्पीनो
यम:कालोदंडहस्त:प्रसन्नधी: ॥ रक्तदृड्‍नीलकायश्चमहिषस्थ:शिवंकुरु ॥ पिंगभ्रूश्मश्रुके
शांत:साक्षसूत्रकमंडलु: ॥ सप्तार्चि:शक्तिधारीचममपापंव्यपोहतु ॥ दंष्ट्राकरालवदनोनीलां
जनसमाकृति: ॥
रक्ताशोऽसिगदापानिर्मृत्युर्मांपातुसर्वदा इत्यादिभिश्चतुर्भि:श्लोकैश्च ॥ ततएतैरेवश्लोकै:
समाहितएकैकांदेवतामाचार्यायदध्यात् ॥ ततस्तस्मैगोभूहिरण्यवस्त्राणितन्निष्क्रयंवादध्या
त् ॥ कृतस्यकर्मण:सांगतायैइमांदक्षिणांतुभ्यमहंसंप्रददेइति ॥ एवमृत्विभ्योपियथाशक्ति
दक्षिणादानं ततोग्रहपीठदेवतानांपूजनविसर्जने आचार्यहस्तेप्रतिपादनंब्राह्मणभोजनंच ॥
इतिविषनादीजननशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP