संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथार्कविवाह:

संस्कारप्रकरणम् - अथार्कविवाह:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथात्रानंतभट्टकृत:प्रयोग: ॥ वर:कृतनित्यक्रियोरविशनिवारयोर्हस्तनक्षत्रेऽन्यस्मि
न्वाशुभेऽन्हिग्रामात्प्राच्यामुदीच्यांवाअर्कगत्वादेशकालौसंकीर्त्य ॥ ममतृतीयमानुषीविवाह
स्यशुभतासिध्दर्थंअर्कविवाहंकरिष्ये ॥ तदंगतयागणेशपूजनंस्वस्तिवाचनंमातृकापूजनंनां
दीश्राध्दंचकरिष्ये ॥ इतिसंकल्प्यनांदीश्राध्दांतंसमाप्य आचार्यंवृणुयात् ॥ अमुकगोत्रोमुक
शर्माहंअमुकगोत्रममुकशर्माणंब्राह्मणमस्मिन्नर्कविवाहकर्मणिआचार्यत्वेनत्वांवृणेइतिवृत्वा
ततआचार्योवरोवा आकृष्णेनेतिमंत्रेणार्केछायासहितसूर्यमावाह्यषोडशोपचारै:संपूज्यगुडौदनं
नैवेध्यंसमर्प्यवस्त्रेणतंतुभिश्चावेष्टयपूजोत्तरंप्रार्थयेत् ॥
त्रिलोकवासिन्सप्ताश्वछाययासहितोरवे ॥ तृतीयोद्वाहजंदोषंनिवारयसुखंकुरु ॥ ततोवरो
जलमादायत्रि:प्रदक्षिणंपरिषिंचेदेभिर्मंत्रै: ॥ ममप्रीतिकराचेयंमयास्पृष्टापुरातनी ॥ अर्कजा
ब्रह्मणासृष्टाह्यस्मान्संप्रतिरक्षतु ॥ नमस्तेमंगलेदेविनम:सवितुरात्मजे ॥ त्राहिमांकृपया
देवीपत्नीत्वंमइहागता ॥ अर्कत्वंब्रह्मणासृष्ट:सर्वप्राणिहितायच ॥ वृक्षाणामादिभूतस्त्वंदे
वानांप्रीतिवर्धन: ॥ तृतीयोद्वाहजंपापंमृत्युंचाशुविनाशय ॥ इत्यर्कंप्रदक्षिणीकृत्यतत: कन्यांप्रयच्छेत्याचार्यंप्रार्थयेत् ॥ ततआचार्योवाग्दानंकुर्यात् ॥ तच्चेत्थं ॥ काश्यपावत्सार
नैध्रुवेतित्रिप्रवरान्वितकाश्यपगोत्रोत्पन्नांआदित्यस्यप्रपौत्रींसवितु:पौत्रींममामुकशर्मण:पुत्रीमर्कनाम्नींकन्यां अमुकप्रवरान्वितायामुकगोत्रोभ्दवाय अमुकप्रपौत्रायामुकपौत्रायामुकपुत्राया
मुकनाम्नेवरायदास्ये इतित्रिवर्वाग्दानंकृत्वावरस्यमधुपर्कपूजांकुर्यात् ॥
ततोवर:सुमुहूर्तेमंगलपाठपूर्वगमर्कंनिरीक्ष्यस्वस्तिनोमिमीतामितिसूक्तंपठेत् ॥ ततआचा
र्येणार्ककन्यादानंकारयेत् ॥ तत्रायंक्रम: ॥ वाग्दानवद्गोत्राध्युच्चार्यआत्मनश्छायासहित
सवितृप्रीयतेइमामर्ककन्यांतुभ्यमहंसंप्रददेनममेत्युक्त्वावरहस्तेसाक्षतंजलंक्षिप्त्वामंत्रंपठेत् ॥ आचार्य:कृतस्यैतदर्ककन्यादानकर्मण:संपूर्णतासिध्यर्थंइमांदक्षिणांतुभ्यमहंसंप्रददेइतिहिर
ण्यंदध्यात् ॥ तत:तत्रकन्याप्रतिनिधिराचार्य:कर्मणि ॥ वर:कंकणबंधनमक्षतारोपणंचार्की
एवकुर्यात् ॥ ततोवर:परित्वेत्यादिभिर्गायत्र्यात्रिवृत्त्यापंचकृत्वोर्कंवरंचसूत्रेणावेष्टयतत्सूत्रंद्वे
धाकृत्वाएकंगायत्र्यार्कस्यस्कंधेवरोबध्द्वाअपरंवरहस्ते आचार्योबध्नीयाब्दृहत्सामेतिमंत्रेण ॥ बृहत्सामक्षत्रभृध्दृध्दवृष्णियत्रिष्टुभौज:शुभितमुग्रवीरं ॥ इंद्रस्तोमेनपंचदशेनमध्यमिदं
वातेनसगरेणरक्ष ॥ ततोवराआचार्योवार्कस्याष्टदिक्षुमहीध्यौरित्यादिमंत्रावृत्त्याकलशान्सं
स्थाप्यकलशकंठान्सूत्रेणावेष्टयहरिद्रागंधयुक्तजलेनापूर्यप्रतिकुंभंइदंविष्णुरितिमंत्रेणविष्णु
प्रतिमा:संस्थाप्यषोडशोपचारै:संपूज्याऽर्कोत्तरत:स्थंडिलेयोजकसंज्ञमग्निंप्रतिष्ठाप्यान्वाधानं
कुर्यात् ॥ अस्मिन्नन्वाहितेग्नावित्याध्याधारदेवतेआज्येनेत्यंतमुक्त्वाअत्रप्रधानं बृहस्पति
मग्निमग्निंवायुंसूर्यंप्रजापतिंचाज्येनशेषेणस्विष्टकृतमित्याध्याघारांतेसंगोभिरित्यस्यांगिरा
बृहस्पतिस्त्रिष्टुप् ॥ अर्कविवाहप्रधानाज्यहोमेविनियोग: ॥
ॐ संगोभिरांगिरसोनक्षमाणोभगइवेदर्यमणंनिनाय ॥ जनेमित्रोनदंपतीअनक्तिबृहस्पतेवा
जयाशूँरिवाजौस्वाहा ॥ बृहस्पतयइदं० ॥ यस्मैत्वावामदेव:काम:सम्राडनुष्टुप् ॥ विनियोग:प्राग्वत् ॥
ॐ यस्मैत्वाकामकामायवयंसम्राड्‍यजामहे ॥ तमस्मभ्यंकामंदत्त्वाथेदंत्वंघृतंपिबस्वाहा ॥
अग्नयइदं० ॥ ततोव्यस्तसमस्तव्याहृतिभिराज्यंहुत्वाकर्मशेषंसमापयेत् ॥ तत:आचार्यंसं
पूज्यतस्मैगोयुगंयथाशक्तिभूयसींदक्षिणांचदत्त्वा ॥ ममप्रीतिकराचेयमितिमंत्रेणार्कंपुनस्त्रि:
प्रदक्षिणीकृत्यप्रार्थयेत् ॥ मयाकृतमिदंकर्मस्थावरेषुजरायुणा ॥ अर्कापत्यानिनोदेहितत्सर्वं
क्षंतुमर्हसि ॥ ततोमहाशांतिंपठित्वाकलशप्रतिमाध्याचार्यायदत्त्वापुण्याहवाचनंकुर्यात् ॥
अस्मिनकर्मणिदशब्राह्मणाभोज्या: ॥ ततश्चतुर्थदिनेसध्योवापुनरर्केपूर्ववत्सूर्यसंपूज्यविसृ
ज्यमानुषींपरिणयेत् ॥ इत्यर्कविवाह: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP