संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथनागबलि:

संस्कारप्रकरणम् - अथनागबलि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सतुसिनीवाल्यांपौर्णिमास्यांपंचम्याशेल्षायुक्तनवम्यांवाकार्य: ॥ कर्तापर्षदंप्रदक्षि
णीकृत्यनत्वातदग्रेगोवृषनिष्क्रयंनिष्कंतदर्धवानिधाय सभार्यस्यममेहजन्मानेजन्मांतरेवा
ज्ञादज्ञाद्वाजातसर्पवधदोषपरिहारार्थंप्रायश्चित्तमुपदिशंतुभवंत: ॥
सर्वेधर्मविवेक्तारइतिश्लोकान्पठित्वामामनुगृह्णंतुभवंतइतिप्रणमेत् ॥ तैश्चतुर्दशकृच्छ्रप्रा
यश्चित्तेनामुकप्रत्याम्नायद्वारापूर्वोत्तरांगसहितेनाचारितेनतवशुध्दिर्भविष्यतीत्युपदिष्टोदेश
कालौसंकीर्त्य पर्षदुपदिष्टंचतुर्दशकृच्छ्रप्रायश्चित्तंयथोक्तप्रत्याम्नायेनाचरिष्येइतिसंकल्पपू
र्वकंवपनादिविधिनातदाचरेत् ॥ वपनासंभवेद्विगुण:कृच्छ्रप्रत्याम्नाय: ॥ पूर्वोच्चरितएवं
गुणविशिष्टायांपुण्यतिथौममसर्पवधदोषपरिहारार्थंब्राह्मणायलोहदंडदानं (तन्मूल्यदानवां)
करिष्यइतिसंकल्प्यब्राह्मणंसंपूज्यस्वस्त्यस्तु० इमंलोहदंडंसर्पवधदोषहरंसदक्षिणंअमुकगो
त्रायामुकशर्मणेब्राह्मणायतुभ्यमहंसंप्रददे प्रतिगृह्यतां देवस्यत्वासवितु० प्रतिगृह्णामीति
विप्र: ॥ ततोगुर्वाज्ञांलब्ध्वाप्रियंगुव्रीहिगोधूमतिलोपिष्टेष्वेकतमपिष्टेनसर्पाकृतिंकृत्वाशूर्पे
निधायसर्पप्रार्थयेत् ॥ एहिपूर्वमृतसर्पअस्मिन्पिष्टेसमाविश ॥ संस्कारार्थमहंभक्त्याप्रार्थ
यामिसमाहित: ॥ तत: ॥ भुजंगेशायविद्महेसर्पजातायधीमहि ॥ तन्नोनाग:प्रचोदयाति
आवाहनादिषोडशोपचारपूजांकृत्वा पुष्पांजलिंदत्वाप्रणिपत्य भोसर्पइमंबलिंगृहाणमाभ्युदयं
कुरु इतिपायसादिनाबलिंसमर्प्यहस्तौपादौप्रक्षाल्याचामेत् ॥ तत:शुध्द:भूमौस्थित्वाप्राणा
नायम्यसंकल्पंकुर्यात् ॥ सभार्यस्यममेहजन्मनिजन्मांतरेवा ज्ञानादज्ञानाद्वा जातसर्प
वधोत्थदोषपरिहारार्थंसर्पसंस्कारकर्मकरिष्येइतिसंकल्प्य स्थंडिलेलौकिकाग्निंप्रतिष्ठाप्या
न्वादध्यात् ॥
अस्मिन्सर्पसंस्कारहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानंकरिष्ये अस्मिन्नन्वाहितेग्नावि
त्याध्याघारचक्षुष्यंतमुक्त्वात्रप्रधानं अग्निं वायुं सूर्यं एता:प्रधानदेवताआज्येन भूर्भव:स्व
रितिसर्पमुखे प्रजापतिमाज्येन आज्यशेषेणसर्पंसध्योयक्ष्ये इत्युक्त्वासमिधावग्नावाधाय
ततोग्नेरग्निदिशिभूमौजलेनप्रोक्ष्यचितिंकृत्वाअग्निंचितिंचपरिसमुह्य आग्न्येय्यग्रकैर्दर्भै:
परिस्तीर्यपरिषिच्य षट्‍पात्राण्यासाध्येध्मानाध्याघारचक्षुष्यंतंकुर्यात् ॥ तत:सर्पंगृहीत्वा
चित्यामारोप्य:श्रोत्रंचस्पृष्ट्वाअग्निसमीपमेत्य ॥ तत:प्रधानहोम: ॥ व्यस्तसमस्तव्याहृ
तीनांविश्वामित्रजमदग्निभरद्वाजप्रजापतयऋषय:अग्निवायुसूर्यप्रजापतयोदेवता: गायत्र्यु
ष्णिगनुष्टुब्बृहत्यश्छंदांसि सर्पसंस्थापनप्रधानाज्यहोमेवि० ॥
ॐ भू:स्वाहाअग्नयइदंनममेत्यादिव्यस्तव्याहृतित्रयेणाज्याहुतीरग्नौहुत्वा ॥ समस्तव्याहृ
त्याचतुर्थींसर्पमुखेजुहुयात् ॥ आज्यशेषंस्त्रुवेणैवसर्पदेहेनिषिंचेत् ॥ नात्रस्विष्टकृदादि ॥
स्त्रुवंतत्रैवनिधाययज्ञपात्राणिबर्हिषिनिदध्यात् ॥ ततश्चितिंप्रदक्षिणीकृत्यप्रणम्यक्षमाप्यह
स्तगृहीतैश्चमसजलै:समस्तव्याहृत्यासर्पंपाणिनाभ्युक्ष्य ॥ अग्नेरक्षणोवसिष्ठोग्निर्गायत्री
सर्पायाग्निप्रदानेविनि० ॥ ॐ अग्नेरक्षणोअंहस:प्रतिष्मदेवरीषत: ॥ तपिष्ठैरजरोदह ॥
ततउपस्थानं ॥ ॐ नमोअस्तुसर्पेभ्योयेकेचपृथिवीमनु ॥ येअंतरिक्षेयेदिवितेभ्य:सर्पेभ्यो
नम: ॥ येदोरोचनेदिवोयेवासूर्यस्यरश्मिषु ॥ येषामप्सुषद:कृतंतेभ्य:सर्पेभ्यो० ॥ याइषवो
यातुधानानांयेवावनस्पतीरनु ॥ येवावटेषुशेरतेतेभ्य:सर्पेभ्यो० ॥ अथपौराणमंत्रा: ॥
कर्कोटकनमस्तेस्तुशंखपालनमोस्तुते ॥ नागराजमहादेवदिव्यरुपायतेनम: ॥ अफणा:फ
णिनोयेचसविषानिर्विषाश्चये ॥ सर्वेवटेशया:सर्पा:पुण्यमूर्तेनमोस्तुते ॥ त्वयाभगवतेश्रीम
द्वासुदेवायनिर्मितं ॥ स्वभोगेनैवपर्यंकमायतंभोगिनांवर ॥ त्वयेयंजगतीस्वामिन्स्वफणा
मंडलोपरि ॥ धृतैकदेशेह्यणुवत्तस्मैतुभ्यंनमोनम: ॥ इतिदह्यमानंसर्पमुपस्थाय ॥ त्राहि
त्राहिमहाभोगिन्सर्पोपद्रवदु:खत: ॥ संततिंदेहिमेपुण्यांनिर्दुष्टांदीर्घदेहिनीम् ॥ प्रपन्नंपाहि
मांभक्त्याकृपालोदीनवत्सल ॥ ज्ञानतोऽज्ञानतोवापिकृत:सर्पवधोमया ॥ जन्मांतरेतथैत
स्मिन्मपूर्वैरथवाविभौ ॥ तत्पापंनाशयक्षिप्रमपराधंक्षमस्वमे ॥ इतिप्रार्थ्यस्त्रात्वागत्य व्याहृतिभि:क्षीराज्येनाग्निंसंप्रोक्ष्यहुतेसर्पेजलेनाग्निंसिंचेत् ॥ नात्रास्थिसंचयनं ॥ इदंसर्वं
सव्येनैवकार्यं ॥ तत:स्त्रात्वाचम्यगृहंगच्छेत् ॥ कर्तासभार्यस्त्रिरात्रमाशौचंब्रह्मचर्यंचकुर्या
त् ॥ बोधायनमतेत्वेकरात्रमाशौचं ॥ ततश्चतुर्थेहनिसचैलंस्त्रात्वाष्टौविप्रान्निमंत्र्य आचम्यप्राणानायम्यदेशकालौसंकीर्त्य नागबल्यंगविहितंब्राह्मणभोजनंकरिष्ये इतिसंक
ल्प्य ॥ सर्पस्वरुपिणेब्राह्मणायइदंतेपाध्यं एवंअनंतस्व० शेषस्व० कपिलस्व० नागस्व०
कालिकस्व० शंखपालस्व० भूधरस्वरुपिणे० इतिक्रमेणतेषांपादौप्रक्षाल्यतानाचमय्यस्वयं
चाचम्य विप्रान्प्राड्मुखानुदमुखान्वोपवेश्य ॥ सर्पस्वरुप० भूर्भव:स्वरिदमासनं आस्यतां ॥ एवमनंतादिभ्य: ॥ सर्पस्थानेक्षण:क्रियतां ॥ प्राप्नोतुभवान् ॥ एवमनंतस्थानेइत्यादि ॥ भो:सर्पस्वरुपअयंतेगंध: ॥ तत:पुष्पधूपदीपवस्त्रादिदध्यात् ॥ एवमन्येषामपिपूजनांते
चतुरस्त्रमंडलेषुपात्राणिनिधायपायसभक्ष्यादीन्परिविष्यसावित्र्याप्रोक्ष्यपरिषिच्य सर्पायेदम
न्नममृतरुपंपरिविष्टंपरिवेक्ष्यमाणंचातृप्ते:स्वाहासंपध्यतांनमम ॥ एवंसर्वेषां ॥ आचांतेषु
प्रागग्रदर्भेषु भो:सर्पअयंतेबलिर्नममेत्यादिनामंत्रै:पिंडरुपान्पायसबलीन्दत्वावस्त्रादिभिरभ्य
र्च्यविप्रेभ्यस्तांबूलंदक्षिणांचदत्वाविसर्जयेत् ॥ इदमपिसर्वंसव्येनैवकार्यं ॥ ततोमहीध्यौरि
त्यादिविधिनास्थापितकलशेसौवर्णंनागंषोडशोपचारैरभ्यर्च्यप्रार्थयेत् ॥ ब्रह्मलोकेचयेसर्पा:
शेषनागपुरोगमा: ॥ नमोस्तुतेभ्य:सुप्रीता:प्रसन्ना:संतुमेसदा ॥ विष्णुलोकेचयेसर्पावासुकि
प्रमुखाश्चये ॥ नमोस्तुतेभ्य:सुप्रीता:प्रसन्ना:संतुमेसदा ॥ रुद्रलोकेचयेसर्पास्तक्षकप्रमुखा
स्तथा ॥ नमोस्तुतेभ्य:० ॥ खांडवस्यतथादाहेस्वर्गंयेचसमाश्रिता: ॥ नमोस्तुतेभ्य:० ॥
सर्पसत्रेचयेसर्पाआस्तिकेनाभिरक्षिता: ॥ नमोस्तुतेभ्य:० ॥ मलयेचैवयेसर्पा:कर्कोटप्रमुखा
श्चये ॥ नमोस्तुतेभ्य:० ॥ धर्मलोकेचयेसर्पावैतरण्यांसमाश्रिता: ॥ नमोस्तुतेभ्य:० ॥
येसर्पा:पर्वतीयेषुदरीसंधिषुसंस्थिता: ॥ नमोस्तुतेभ्य:० ॥ ग्रामेवायदिवारण्येयेसर्पा:प्रचरंति
हि ॥ नमोस्तुतेभ्य:० ॥ पृथिव्यांचैवयेसर्पायेसर्पाबिलसंस्थिता: ॥ नमोस्तुतेभ्य:० ॥
रसातलेचयेसर्पाअनंताध्यामहाबला: ॥ नमोस्तुतेभ्य:० ॥ एवंस्तुत्वाचार्यंसंपूज्य कृतस्य
सर्पसंस्कारकर्मण:सांगतासिध्यर्थंइमंहेममयंनागंसकलशंसवस्त्रंसदक्षिणंतुभ्यमहंसंप्रददे ॥
अनेनस्वर्णनागदानेनअनंतादयोनागदेवता:प्रीयंतां ॥ ततस्तस्मैसवृषभांकृष्णांगांतन्निष्क्र
यंवादध्यात् ॥ ततोदंपतीवस्त्रालंकारादिभिर्यथाविभवमन्यान्ब्राह्मणांश्चसंपूज्ययस्यस्मृ
त्याचनामोक्तेत्युक्त्वा ॥ मयायत्कृतंसर्पसंस्काराख्यंकर्मतभ्दवतांब्राह्मणानांवचनात् ॥
श्रीपरमेश्वरप्रसादात्सर्वंपरिपूर्णमस्तु ॥ तथास्त्वितितेब्रूयु: । तत:कर्मण:सांगतायैयथाश
क्तिब्राह्मणान्संभोज्यभूयसींदत्वाकर्मसमापयेत् ॥ कृत्वासर्पस्यसंस्कारमनेनविधिनानर: ॥ विरोगोजायतेक्षिप्रंसंततिंलभतेशुभां ॥ ॥ इतिनागबलिं: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP