संस्कारप्रकरणम् - अथजातकर्मप्रयोग:
ऋग्वेदीयब्रह्मकर्मसमुच्चयः
श्री: ॥ जातमात्रेपुत्रेपितातस्यमुखंनिरीक्ष्यनध्यादावुदड्मुख:स्नात्वाचभ्यसितचंदनमाल्या
दिभिरलंकृतोनालच्छेदनात्पूर्वंसूतिकादिव्यातिरिक्तैरस्पृष्टमकृतस्तनपानंप्रक्षालितमलंकु
मारंमातुरुत्संगेप्राड्मुखमवस्थाप्याचम्यदेशकालौस्मृत्वा ममास्यकुमारस्यगर्भांबुपानजनित
सकलदोषनिबर्हणायुर्मेधाभिवृध्दिबीजगर्भसमुभ्दवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थंजात
कर्मकरिष्ये ॥ तदंगंगंणपतिपूजनपूर्वकंस्वस्तिपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दंचकरि
ष्येइतिसंकल्प्यतानिकृत्वा ॥ ततोविषममानेनमधुसर्पिषीमिश्रीकृत्यशिलातलेनिक्षिप्यतत्र
सुवर्णंरजोविमोकंयावदवघृष्यरजतकांस्यादिभाजनेनिधाय ॥ ततोविषममानेनमधुसर्पिषी
मिश्रीकृत्यशिलातलेनिक्षिप्यतत्रसुवर्णंरजोविमोकंयावदवघृष्यरजतकांस्यादिभाजनेनिधाय ॥ प्रतेददामीतिहिरण्यगर्भ:सवितात्रिष्टुप् ॥ कुमारेणमधुसर्पि:प्राशनेवि० ॥ ॐ प्रतेददामि
मधुनोघृतस्यवेदंसवित्राप्रसूतंमघोनां ॥ आयुष्मान् गुप्तोदेवताभि: शतंजीवशरदोलोकेअ
स्मिन् ॥ इतिमंत्रेणतेनैवहिरण्येनकुमारंपाययित्वातध्दिरण्यंप्रक्षाल्यकुमारस्यदक्षिणकर्णे
निधायतन्मुखसमीपेस्वमुखमानीय ॥ मेधांतइतिमंत्रस्यहिरण्यगर्भ:सवितासरस्वत्यश्विना
वनुष्टुप् ॥ कुमारदक्षिणकर्णेजपेविनियोग: ॥ ॐ मेधांतेदेव:सवितामेधांदेवीसरस्वती ॥ मेधांतेअश्विनौदेवावाधत्तांपुष्करस्त्रजौ ॥ इत्यृचंजपित्वा ॥ पुनस्तध्दिरण्यंसव्येकर्णेनिधा
यैतामेवऋचंजपेत् ॥ तत: ॥ ॐ अश्माभवपरशुर्भवहिरण्यमस्तृतंभव ॥ वेदोवैपुत्रनामासि
सजीवशरद:शतं ॥ इतिमंत्रेणशिशोरंसौयुगपदभिमृशेत् ॥ इंद्रश्रेष्ठानिगृत्समदइंद्रस्त्रिष्टुप्
॥ शिशोरंसाभिमर्शनेविनियोग: ॥ ॐ इंद्रश्रेष्ठानिद्रविणानिधेहिचित्तिंदक्षस्यसुभगत्वमस्मे
॥ पोषंरयीणामरिष्टिंतनूनांस्वाद्मानंवाच:सुदिनत्वमह्नां ॥ अस्मेप्रयंधिविश्वामित्रइंद्रस्त्रि
ष्टुप् ॥ विनियोग:प्रागवत् ॥ ॐ अस्मेप्रयंधिमघवन्नृजीषिन्निंद्ररायोविश्ववारस्यभूरे: ॥
अस्मेशतंशरदोजीवसेधाअस्मेवीरान्छश्वतइंद्रशिप्रिन् ॥ इतिमंत्रत्रयांतेअभिमर्श: ॥
ततोरक्षायुषोरभिवृध्द्यर्थं ॥ ॐ अंगादंगात्संभवसिहृदयादधिजायसे ॥ आत्मावैपुत्रनामा
सिसजीवशरद:शतं ॥ ॐ इमांकुमारोजरांधयतुदीर्घमायु:प्रजीवसे ॥ अस्यैस्तनौप्रयुंजाना
आयुर्वर्चोयशोबलं ॥ इतिमंत्रेणमात्राकुमारंपाययित्वाब्राह्मणेभ्योदक्षिणांदत्वाआशिषोगृह्णी
यात् ॥ होमकरणपक्षेप्रबलनामानमग्निंप्रतिष्ठाप्यजातकर्महोमेदेवतापरिग्रहार्थमित्यादिच
क्षुषीआज्येनेत्यंतमुक्त्वा अग्निमिंद्रंप्रजापतिंविश्वान्देवान्ब्रह्माणमाज्येनशेषेणस्विष्टकृत
मित्यादिसध्योयक्ष्यइत्यंतमुक्त्वाज्यंहुत्वा मधुसर्पिंपायनादिशिशुनामस्मरणांतंकृत्वाहोमशे
षंसमाप्यस्तन्यंदध्यात् ॥ तमर्वतमितिपंचभिराशीर्वाद: ॥ इतिजातकर्म ॥
N/A
References : N/A
Last Updated : July 28, 2023
TOP