संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथदर्शजननशांति:

संस्कारप्रकरणम् - अथदर्शजननशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताकृतनित्यक्रिय:पवित्रपाणि:सपत्नीक:स्वासनेउपविश्यदेशकालसंकीर्तनांते
अस्यबालस्यदर्शजननसूचितसर्वारिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थंदर्शजननशांतिकरिष्ये ॥ अखंडाऽमाजननेइत्थंसंकल्प: ॥ अमाया:खंडतिथित्वेउत्तरविध्दामाजननेकुहूजनन
शातिंकरिष्येइतिसंकल्पेविशेष: ॥ ततोगणेशपूजनपुण्याहवाचनाचार्यर्त्विग्वरणाचार्यादिपू
जनानिकुर्यात् ॥
ततआचार्योयदत्रसंस्थितमित्यादिस्वस्त्ययनंतार्क्ष्यमितिप्रार्थनांतंकुर्यात् ॥ तत:कुंडात्स्थं
डिलाद्वापूर्वेसर्वतोभद्रपर्याप्तंस्थलमतिक्रम्यमहीध्यौरित्यादिनाकुंभस्थापनादिजलसेचनां
तंकृत्वा तत्रआप्यायस्वेत्यादिमंत्रै:क्षीरदधिघृतानिप्रक्षिप्य गायत्र्यागंधद्वारामितिचगोमूत्र
गोमयेप्रक्षिप्य न्यग्रोधोदुंबराश्वत्थचूतनिंबमूलानांत्वचोरुवतिभीमइति तत्पल्लवानश्वत्थे
वइति पंचरत्नानिसहिरत्नानीतिनिक्षिप्य युवासुवासाइतिवस्त्रयुग्मेनावेष्टय ॥
सर्वेसमुद्रा:सरितस्तीर्थानिजलदानदा: ॥ आयांतुयजमानस्यदुरितक्षयकारका: ॥ इतिसमु
द्रादिदेवतासहितंवरुणमावाह्यसंपूज्य कलशोदकं आपोहिष्ठेतितृचेनकयानश्चित्रइत्यृचाय
त्किंचेदमितिसमुद्रज्येष्ठाइतिचऋग्भ्यामाभिमंत्र्य ॥ तत्पश्चिमेअग्ने:पूर्वभागेकृष्णनीलर
क्तादिवर्णतंडुलै:यथोचितंपूरितंशृंखलावल्लीभद्रादिगर्भंसर्वतोभद्रंसंवत्सरकृत्यांतर्गतानंतव्रतो
ध्यापनोक्तरीत्याकृत्वा तत्रब्रह्मादिप्रसिध्ददेवतापूजांते मध्येसुवर्णप्रतिमायांपितृनावाहयेत्
॥ येचेहेतिशंख:पितरस्त्रिष्टुप् पित्रावाहने० ॥ ॐ येचेहपितरो० ऋ० १ ॥
दक्षिणत: रजतप्रतिमायांसोमम् ॥ उत्तरत:ताम्रप्रतिमायांसूर्यंचावाहयेत् ॥ आप्यायस्वगोत
म:सोमोगायत्री सोमावाहने० ॥ ॐ आप्यातस्व० ऋक् ॥१॥
सवितापश्चातादितिधानाकोलुश:सवितात्रिष्टुप् सूर्यावाहने० ॥ ॐ सवितापश्चातात्त्० ऋक्
१ ॥
ततोदेवतात्रयंसंपूज्याऽग्निंप्रतिष्ठाप्यसर्वतोभद्रस्यैशान्यांग्रहप्रतिष्ठापनादिवरुणपूजांतंकृत्वा
ऽन्वादध्यात् ॥ चक्षुषीआज्येनेत्यंते आदित्यादिग्रहान् चिकीर्षितसंख्याकाभि:समिच्चर्वा
ज्याहुतिभि: पितृनष्टाविंशतिसंख्याकाभि:समिच्चर्वाज्याहुतिभि: सोमंसूर्यंचप्रत्येकंअष्टोत्त
रशतसंख्याकाभिस्तदाहुतिभि:शेषेणस्विष्टकृतमित्यादि ॥
तत:आज्येनसहचरो:पर्यग्नि:करणादिकालेकुर्यात् ॥ आज्यभागांतेआयुरारोग्यमितिमंत्राभ्यां
यजमानेनहोमसंकल्पपूर्वकंत्यागेकृतेसर्त्विगाचार्य:प्रधानहोमंकुर्यात् ॥ तदंतेस्विष्टकृत:पूर्वं
हिरण्यवर्णामितिआयुष्यंवर्चस्यमि (त्येकादशर्चस्यसनकादयोहिरण्यमनुष्टुप् पंचम्यष्टमी
नवमीचत्रिष्टुभ:सप्तमीशक्कर्यंत्याजगती) तिसूक्ताभ्यांसमुद्रज्येष्ठाइत्यृचाचसबालौपितरा
वभिषिच्यस्विष्टकृदादिकुर्यात् ॥
ततोबलिदानपूर्णाहुतीकृत्वाहोमेशेषंसमापयेत् ॥ ततोयजमान:हिरण्यरजतेसदक्षिणांकृष्णां
धेनुंच आचार्यायदत्त्वाऋत्विग्भ्यश्चयथाशक्तिदक्षिणांदत्त्वास्थापितदेवतोपस्थापनक्रमेणोत्त
रपूजाविसर्जनेकृत्वाप्रतिमांआचार्यायप्रतिपाध्य अग्निंसंपूज्य गच्छगच्छेतिविसृज्यशांती:
पाठयित्वाब्राह्मणान्भोजयित्वातेभ्योदक्षिणादानां तेस्वस्तिभवंतोब्रुवंत्वितिवाचयेत् ॥
तेजस्वस्तीतिवदेयु: ॥ इतिदर्शजननशांति: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP