ब्रह्मोत्तर खण्डः - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
अथान्यदपि वक्ष्यामि माहात्म्यं त्रिपुरद्विषः ॥
श्रुतमात्रेण येनाशु च्छिद्यंते सर्वसंशयाः ॥१॥
अतः परतरं नास्ति किंचित्पापविशोधनम् ॥
सर्वानंदकरं श्रीमत्सर्वकामार्थसाधम् ॥२॥
दीर्घायुर्विजयारोग्यभुक्तिमुक्तिफलप्रदम् ॥
यदनन्येन भावेन महे शाराधनं परम् ॥३॥
आर्द्राणामपि शुष्काणामल्पानां महतामपि ॥
एतदेव विनिर्दिष्टं प्रायश्चितमथोत्तमम् ॥४॥
सर्वकालेऽप्यभेद्यानामघानां क्षयकारणम् ॥
महामुनिविनिर्दिष्टैः प्रायश्चित्तैरथोत्तमैः ॥५॥
इयमेव परं श्रेयः सर्वशास्त्रविनिश्चितम्॥
यद्भक्त्या परमेशस्य पूजनं परमो दयम् ॥६॥
जानताऽजानता वापि येन केनापि हेतुना ॥
यत्किंचिपि देवाय कृतं कर्म विमुक्तिदम् ॥७॥
माघे कृष्णचतुर्द्दश्यामुपवासोऽति दुर्लभः॥
तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम् ॥८॥
अतीव दुर्लभं मन्ये शिवलिंगस्य दर्शनम् ॥
सुदुर्लभतरं मन्ये पूजनं परमेशितुः ॥९॥
भवकोटिशतोत्पन्नषुण्यराशिविपाकतः॥
लभ्यते वा पुनस्तत्र बिल्वपत्रार्चनं विभोः ॥१०॥
वर्षाणामयुतं येन स्नातं गंगासरिज्जले ।
सकृद्बिल्वार्चनेनैव तत्फलं लभते नरः ॥११॥
यानियानि तु पुण्यानि लीनानीह युगेयुगे ॥
माघेऽसितचतुर्दश्यां तानि तिष्ठंति कृत्स्नशः ॥१२॥
एतामेव प्रशंसंति लोके ब्रह्मादयः सुराः ॥
मुनयश्च वशिष्ठाद्या माघेऽसितचतुर्दशीम् ॥१३॥
अत्रोपवासः केनापि कृतः क्रतुशताधिकैः ॥
रात्रौ जागरणं पुण्यं कल्पकोटितपोऽधिकम् ॥१४॥
एकेन बिल्वपत्रेण शिवलिंगार्चनं कृतम् ॥
त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमिच्छति ॥१५॥
अत्रानुवर्ण्यते गाथा पुण्या परमशोभना ॥
गोपनीयापि कारुण्याद्गौतमेन प्रकाशिता ॥१६॥
इक्ष्वाकुवंशजः श्रीमान्राजा परम धार्मिकः॥
आसीन्मित्रसहोनाम श्रेष्ठः सर्वधनुर्भृताम्॥ १७॥
स राजा सकलास्त्रज्ञः शास्त्रज्ञः श्रुतिपारगः ॥
वीरोऽत्यंतबलोत्साहो नित्योद्योगी दयानिधिः॥ १८॥
पुण्यानामिव संघातस्तेजसामिव पंजरः ॥
आश्चर्याणामिव क्षेत्रं यस्य मूर्तिर्विराजते ॥१९॥
हृदयं दययाक्रांतं श्रियाक्रांतं च तद्वपुः ॥
चरणौ यस्य सामंतचूडामणिमरीचिभिः ॥२०॥
एकदा मृगयाकेलिलोलुपः स महीपतिः ॥
विवेश गह्वरं घोरं बलेन महतावृतः ॥२१॥
तत्र विव्याध विशिखैः शार्दूलान्गवयान्मृगान् ॥
रुरून्वराहान्महिषान्मृगेंद्रानपि भूरिशः ॥२२॥
स रथी मृगयासक्तो गहनं दंशित श्चरन् ॥
कमपि ज्वलनाकारं निजघान निशाचरम् ॥२३॥
तस्यानुजः शुचाविष्टो दृष्ट्वा दूरे तिरोहितः ॥
भ्रातरं निहतं दृष्ट्वा चिंतयामास चेतसा ॥२४॥
नन्वेष राजा दुर्द्धर्षो देवानां रक्षसामपि ॥
छद्मनैव प्रजेतव्यो मम शत्रुर्न चान्यथा ॥२५॥
इति व्यवसितः पापो राक्षसो मनुजाकृतिः ॥
आससाद नृपश्रेष्ठमुत्पात इव मूर्तिमान् ॥२६॥
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ॥
चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ॥२७॥
अथ तस्मिन्वने राजा किंचित्कालं विहृत्य सः ॥
निवृत्तो मृगयां हित्वा स्वपुरीं पुनराययौ ॥२८॥
तस्य राजेंद्रमुख्यस्य मदयंतीतिनामतः ॥
दमयन्ती नलस्येव विदिता वल्लभा सती ॥२९॥
एतस्मिन्समये राजा निमंत्र्य मुनिपुंगवम् ॥
वशिष्ठं गृहमानिन्ये संप्राप्ते पितृवासरे ॥३०॥
रक्षसा सूदरूपेण संमिश्रितनरामिषम् ॥
शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥३१॥
धिग्धिङ्नरामिषं राजं स्त्वयैतच्छद्मकारिणा ॥
खलेनोपहृतं मेऽद्य अतो रक्षो भविष्यसि ॥३२॥
रक्षःकृतमविज्ञाय शप्त्वैवं स गुरुस्ततः ॥
पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥३३॥
राजापि कोपितः प्राह यदिदं मे न चेष्टितम् ॥
न ज्ञातं च वृथा शप्तो गुरुं चैव शपाम्यहम् ॥३४॥
इत्यपोंजलिनादाय गुरुं शप्तुं समुद्यतः ॥
पतित्वा पादयोस्तस्य मदयन्ती न्यवारयत् ॥३५॥
ततो निवृत्तः शापाच्च तस्या वचनगौरवात् ॥
तत्याज पादयोरंभः पादौ कल्मषतां गतौ ॥३६॥
कल्मषांघ्रिरिति ख्यातस्ततः प्रभृति पार्थिवः ॥
बभूव गुरुशापेन राक्षसो वनगोचरः ॥३७॥
स बिभ्रद्राक्षसं रूपं घोरं कालां तकोपमम् ॥
चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ॥३८॥
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ॥
अपश्यदंतकाकारो नवोढौ मुनिदंपती ॥३९॥
राक्षसो मानुषाहारः किशोरमुनिनंदनम् ॥
जग्धुं जग्राह शापार्तो व्याघ्रो मृगशिशुं यथा ॥४०॥
रक्षोगृहीतं भर्तारं दृष्ट्वा भीताथ तत्प्रिया ॥
उवाच करुणं बाला क्रंदंती भृशवेपिता ॥४१॥
भोभो मामा कृथाः पापं सूर्यवंशयशोधर ॥
मदयंतीपतिस्त्वं हि राजेंद्रो न तु राक्षसः ॥४२॥
न खाद मम भर्त्तारं प्राणात्प्रियतमं प्रभो ॥
आर्त्तानां शरणार्त्तानां त्वमेव हि यतो गतिः ॥४३॥
पापानामिव संघातैः किं मे दुष्टैर्जडासुभिः ॥
देहेन चातिभारेण विना भर्त्रा महात्मना ॥४४॥
मलीमसेन पापेन पांचभौतेन किं सुखम् ॥
बालोयं वेदविच्छांतस्तपस्वी बहुशास्त्रवित् ॥४५॥
अतोऽस्य प्राणदानेन जगद्रक्षा त्वया कृता।
कृपां कुरु महाराज बालायां ब्राह्मणस्त्रियाम् ॥४६॥
अनाथकृपणार्तेषु सघृणाः खलु साधवः ॥||
इत्थमभ्यर्थितः सोऽपि पुरुषादः स निर्घृणः ॥४७॥
चखाद शिर उत्कृत्य विप्रपुत्रं दुराशयः॥
अथ साध्वी कृशा दीना विलप्य भृशदुःखिता। ॥४८॥
आहृत्य भर्तुरस्थीनि चितां चक्रे तथोल्बणाम् ॥
भर्तारमनुगच्छंती संविशंती हुताशनम् ॥४९॥
राजानं राक्षसाकारं शापास्त्रेण जघान तम् ॥
रेरे पार्थिव पापात्मंस्त्वया मे भक्षितः पतिः ॥५०॥
अतः पतिव्रतायास्त्वं शापं भुंक्ष्व यथोल्बणम्॥
अद्यप्रभृति नारीषु यदा त्वमपि संगतः ।
तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥५१॥
सोऽपि राजा गुरोः शापमुपभुज्य कृतावधिम् ॥
पुनः स्वरूपमादाय स्वगृहं मुदितो ययौ ॥५२॥
ज्ञात्वा विप्रसतीशापं तत्पत्नी रतिलालसम् ॥
पतिं निवारयामास वैधव्यातिबिभ्यती ॥५३॥
अनपत्यः स निर्विण्णो राज्यभोगेषु पार्थिवः ॥
विसृज्य सकलं लक्ष्मीं ययौ भूयोऽपि काननम् ॥५४॥
सूर्यवंशप्रतिष्ठित्यै वशिष्ठो मुनिसत्तमः ॥
तस्यामुत्पादयामास मदयंत्यां सुतोत्तमम् ॥५५॥
विसृष्टराज्यो राजापि विचरन्सकलां महीम् ॥
आयांतीं पृष्ठतोऽपश्यत्पिशाचीं घोररूपिणीम् ॥५६॥
सा हि मूर्तिमती घोरा ब्रह्महत्या दुरत्यया ॥
यदासौ शापविभ्रष्टो मुनिपुत्रमभक्षयत् ॥५७॥
तेनात्मकर्मणा. यांतीं ब्रह्महत्यां स पृष्ठतः ॥
बुबुधे मुनिवर्याणामुपदेशेन भूपतिः॥ ५८॥
तस्या निर्वेशमन्विच्छन्राजा निर्विण्णमानसः ॥
नानाक्षेत्राणि तीर्थानि चचार बहुवत्सरम् ॥५९॥
यदा सर्वेषु तीर्थेषु स्नात्वापि च मुहुर्मुहुः ॥
न निवृत्ता ब्रह्महत्या मिथिलामाययौ तदा ॥
बाह्योद्यानगतस्तस्याश्चिंतया परयार्दितः। ॥६०॥
ददर्श मुनिमायांतं गौतमं विमलाशयम्॥
हुताशनमिवाशेषतपस्विजनसेवितम् ॥६१॥
विवस्वंतमिवात्यंतं घनदोषतमोनुदम् ॥
शशांकमिव निःशंकमवदातगुणोदयम् ॥६२॥
महेश्वरमिव श्रीमद्द्विजराजकलाधरम् ॥
शांतं शिष्यगणोपेतं तपसामेकभाजनम् ॥६३॥
उपसृत्य स राजेंद्रः प्रणनाम मुहुर्मुहुः ॥
गौतमोऽपि मुनिश्रेष्ठो राजानं रविवंशजम् ॥६१॥
अभिनंद्य मुनिः प्रीत्या संस्मितं समभाषत ॥६९॥ .
॥ गौतम उवाच ॥
कच्चित्ते कुशलं राजन्कच्चित्ते पदमव्ययम् ॥६६॥
कुशलिन्यः प्रजाः कच्चिदवरोधजनोपि वा ॥
किमर्थमिह संप्राप्तो विसृज्य सकलां श्रियम् ॥६७॥
किं च ध्यायसि भो राजन्दीर्घमुष्णं च निःश्वसन् ॥६८॥
ll राजोवाच ॥
सर्वे कुशलिनो ब्रह्मन्वयं त्वदनुकंपया।॥
राज्ञामुत्तमवंश्यानां ब्रह्मायत्ता हि संपदः ॥
किं नु मां बाधते त्वेषा पिशाची घोररूपिणी ॥६९॥
अलक्षिता मदपरैर्भर्त्सयंती पदेपदे ॥
यन्मया शापदग्धेन कृतमहो दुरत्ययम् ॥
न शांतिर्जायते तस्य प्रायश्चित्तसहस्रकैः ॥७०॥
इष्टाश्च विविधा यज्ञाः कोशसर्वस्वदक्षिणाः ॥
सरित्सरांसि स्नातानि यानि पूज्यानि भूतले ॥
निषेवितानि सर्वाणि क्षेत्राणि भ्रमता मया ॥७१॥
जप्तान्यखिलमंत्राणि ध्याताः सकलदेवताः ॥
महाव्रतानि चीर्णानि पर्णमूलफलाशिना ॥७२॥
तानि सर्वाणि कुर्वंति स्वस्थं मां न कदाचन ॥
अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्ष्यते ॥७३॥
यतस्त्वद्दर्शनादेव ममात्मानंदभागभूत् ॥
अन्विच्छँल्लभते क्वापि वर्षपूगैर्मनोरथम् ॥७४॥
इत्येवं जनवादोऽपि संप्राप्तो मयि सत्यताम् ॥
आजन्मसंचितानां तु पुण्यानामुदयोदये ॥७५॥
यद्भवान्भवभीतानां त्राता नयनगोचरः ॥
कस्माद्देशादिहायातो भवान्भवभयापहः ॥७६॥
दूरभ्रमणविश्रांतं शंके त्वामिह चागतम् ॥
दृष्ट्वाश्चर्यमिवात्यर्थं मुदितोसि मुखश्रिया ॥७७॥
आनंदयसि मे चेतः प्रेम्णा संभाषणादिव ॥
अद्य मे तव पादाब्जशरणस्य कृतैनसः ॥
शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ॥७८॥
इति तेन समादिष्टो गौतमः करुणानिधिः ॥
समादिदेश घोराणामघानां साधु निष्कृतिम् ॥७९॥
॥ गौतम उवाच ॥
साधु राजेंद्र धन्योऽसि महा घेभ्यो भयं त्यज ॥८०॥
शिवे त्रातरि भक्तानां क्व भयं शरणैषिणाम् ॥
शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ॥८१॥
महापातकसंहारि गोकर्णाख्यं मनोरमम्॥
यत्र स्थितिर्न पापानां महद्भ्यो महतामपि ॥८२॥
स्मृतो ह्यशेषपापघ्नो यत्र संनिहितः शिवः ॥
यथा कैलासशिखरे यथा मंदारमूर्द्धनि ॥८३॥
निवासो निश्चितः शंभोस्तथा गोकर्णमण्डले ॥
नाग्निना न शशांकेन न ताराग्रहनायकैः ॥८४॥
तमो निस्तीर्यते सम्य ग्यथा सवितृदर्शनात् ॥
तथैव नेतरैस्तीर्थैर्न च क्षेत्रैर्मनोरमैः ॥८५॥
सद्यः पापविशुद्धिः स्याद्यथा गोकर्णदर्शनात् ॥
अपि पापशतं कृत्वा ब्रह्म हत्यादि मानवः ॥८६॥
सकृत्प्रविश्य गोकर्णं न बिभेति ह्यघात्क्वचित् ॥
तत्र सर्वे महात्मानस्तपसा शांतिमागताः ॥८७॥
इन्द्रोपेंद्रविरिंच्याद्यैः सेव्यते सिद्धिकांक्षिभिः ॥
तत्रैकेन दिनेनापि यत्कृतं व्रतमुत्तमम् ॥८८॥
तदन्यत्राब्दलक्षेण कृतं भवति तत्समम् ॥
यत्रेंद्रब्रह्मविष्ण्वादिदेवानां हितकाम्यया ॥८९॥
महाबलाभिधानेन देवः संनिहितः स्वयम् ॥
घोरेण तपसा लब्धं रावणाख्येन रक्षसा ॥९०॥
तल्लिंगं स्थापयामास गोकर्णे गणनायकः ॥
इन्द्रो ब्रह्मा मुकुन्दश्च विश्वेदेवा मरुद्गणाः ॥९१॥
आदित्या वसवो दस्रौ शशांकश्च दिवाकरः ॥
एते विमानगतयो देवास्ते सह पार्षदैः ॥९२॥
पूर्वद्वारं निषेवन्ते देवदेवस्य शूलिनः ॥
योन्यो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः ॥९३॥
पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥
वरुणः सरितां नाथो गंगादिसरितां गणैः ॥९४॥
आसेवते महादेवं पश्चिमद्वारमाश्रितः ॥
तथा वायुः कुबेरश्च देवेशी भद्रकर्णिका ॥९५॥
मातृभिश्चंडिकाद्याभिरुत्तरद्वारमाश्रिता ॥
विश्वावसुश्चित्ररथश्चित्रसेनो महाबलः ॥९६॥
सह गन्धर्ववर्गैश्च पूजयंति महाबलम् ॥
रंभा घृताची मेना च पूर्वचित्तिस्तिलोत्तमा ॥९७॥
नृत्यंति पुरतः शम्भोरुर्वश्याद्याः सुरस्त्रियः ॥
वशिष्ठः कश्यपः कण्वो विश्वामित्रो महा तपाः ॥९८॥
जैमिनिश्च भरद्वाजो जाबालिः क्रतुरंगिराः ॥
एते वयं च राजेंद्र सर्वे ब्रह्मर्षयोऽमलाः ॥९९॥
देवं महाबलं भक्त्या समंतात्पर्यु पास्महे ॥
मरीचिना सहात्रिश्च दक्षाद्याश्च मुनीश्वराः ॥१००॥
सनकाद्या महात्मान उपविष्टा उपासते ॥
तथैव मुनयः साध्या अजिनांबर धारिणः ॥१॥
दंडिनो व्रतमुण्डाश्च स्नातका ब्रह्मचारिणः ॥
त्वगस्थिमात्रावयवास्तपसा दग्धकिल्बिषाः ॥२॥
सेवन्ते परया भक्त्या देवदेवं पिनाकिनम् ॥
तथा देवाः सगन्धर्वाः पितरः सिद्धचारणाः ॥३॥
विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ॥
नागाः पिशाचा वेताला दैतेयाश्च महाबलाः ॥४॥
नानाविभवसंपन्ना नानाभूषणवाहनाः ॥
विमानैः सूर्यसंकाशैरग्निवर्णैः शशिप्रभैः ॥५॥
विद्युत्पुंजनिभैरन्यैः समं तात्परिवारितम् ॥
प्रस्तुवंति प्रगायंति पठंति प्रणमंति च ॥६॥
प्रनृत्यंति प्रहृष्यंति गोकर्णे पृथिवीपते ॥
लभंतेऽभीप्सितान्कामान्रमंते च यथा सुखम् ॥७॥
गोकर्णसदृशं क्षेत्रं नास्ति ब्रह्मांडगोलके ॥
तत्र घोरं तपस्तप्तमगस्त्येन महात्मना ॥८॥
तथा सनत्कुमारेण प्रियव्रतसुतैरपि ॥
अग्निना देववर्येण कन्दर्पेण च पार्थिव ॥९॥
तथा देव्या भद्रकाल्या शिशुमारेण धीमता ॥
दुर्मुखेन फणींद्रेण मणिनागाह्वयेन च ॥११०॥
इलावर्तादिभिर्नागैर्गरुडेन बलीयसा ॥
रक्षसा रावणेनापि कुम्भकर्णाह्वयेन तु ॥११॥
विभीषणेन पुण्येन तपस्तप्तं महात्मना ॥
एते चान्ये च गीर्वाणाः सिद्धदानवमानवाः ॥१२॥
गोकर्णे देवदेवेशं शिवमाराध्य भक्तितः ॥
स्वनामांकानि लिंगानि स्थापयित्वा सहस्रशः ॥१३॥
लेभिरे परमां सिद्धिं तथा तीर्थानि चक्रिरे ॥
अत्र स्थानानि सर्वेषां देवानां संति पार्थिव ॥१४॥
विष्णोश्च देवदेवस्य ब्रह्मणः परमेष्ठिनः ॥
कार्त्तिकेयस्य वीरस्य गजवक्त्रस्य चानघ ॥१५॥
धर्मस्य क्षेत्रपालस्य दुर्गायाश्च महामते ॥
गोकर्णे शिवलिंगानि विद्यंते कोटिकोटिशः ॥१६॥
असंख्यातानि तीर्थानि तिष्ठंति च पदेपदे ॥
बहुनात्र किमुक्तेन गोकर्णस्थानि पार्थिव ॥१७॥
सर्वाण्यश्मानि लिंगानि तीर्थान्यंभांसि सर्वशः ॥
गोकर्णे शिवलिंगानां तीर्थानामपि भूरिशः ॥१८॥
गीयते महिमा राजन्पुराणेषु महर्षिभिः ॥
गोकर्णे कोटितीर्थं च तीर्थानां मुख्यतां गतम् ॥१९॥
सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ॥
कृते महाबलः श्वेतस्त्रेतायामतिलोहितः ॥१२०॥
द्वापरे पीत वर्णश्च कलौ श्यामो भविष्यति ॥
आक्रांतं सप्तपातालं कुर्वन्नपि महाबलः ॥२१॥
प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥
पश्चिमांबुधितीरस्थं गोकर्णक्षेत्रमुत्तमम् ॥२२॥
ब्रह्महत्यादिपापानि दहतीति किमद्भुतम् ॥
ये चात्र ब्रह्महंतारो ये च भूतद्रुहः शठाः ॥२३॥
ये सर्वगुणहीनाश्च परदाररताश्च ये ॥
ये दुर्वृत्ता दुराचारा दुःशीलाः कृपणाश्च ये ॥२४॥
लुब्धाः क्रूराः खला मूढाः स्ते नाश्चैवातिकामिनः ॥
ते सर्वे प्राप्य गोकर्णं स्नात्वा तीर्थजलेषु च ॥१२५॥
देवं महाबलं दृष्ट्वा प्रयाताः शांकरं पदम् ॥
तत्र पुण्यासु तिथिषु पुण्य र्क्षे पुण्यवासरे ॥२६॥
येऽर्चयंति महेशानं ते रुद्राः स्युर्न संशयः ॥
यदा कदाचिद्गोकर्णं यो वा को वापि मानवः ॥२७॥
प्रविश्य पूजयेदीशं स गच्छेद्ब्रह्मणः पदम् ॥
रवींदुसौम्यवारेषु यदा दर्शो भविष्यति ॥२८॥
तदा जलनिधौ स्नानं दानं च पितृतर्पणम् ॥
शिवपूजा जपो होमो व्रतचर्या द्विजार्चनम् ॥२९॥
यत्किंचिद्वा कृतं कर्म तदनंतफलप्रदम् ॥
व्यतीपातादियोगेषु रविसंक्रमणेषु च ॥१३०॥
महाप्रदोषवेलासु शिव पूजा विमुक्तिदा ॥
अथैकां ते प्रवक्ष्यामि तिथिं पार्थिव मुक्तिदाम् ॥३१॥
यस्यां किल महाव्याधो लेभे शंभोः परं पदम् ॥
माघमासे महापुण्या या सा कृष्णचतुर्दशी ॥३२॥
शिवलिंगं बिल्वपत्रं दुर्लभं हि चतुष्टयम् ॥
अहो बलवती माया यया शैवी महातिथिः ॥३३॥
नोपोष्यते जनैर्मूढैर्महामूकैरिव त्रयी ॥
उपवासो जागरणं सन्निधिः परमेशितुः ॥३४॥
गोकर्णं शिवलोकस्य नृणां सोपानपद्धतिः ॥
शृणु राजन्नहमपि गोकर्णा दधुनागतः ॥१३५॥
उपास्यैनां शिवतिथिं विलोक्य च महोत्सवम् ॥
अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ॥३६॥
आगताः सर्वदेशेभ्यश्चातुर्वर्णा महाजनाः ॥
स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ॥३७॥
आगत्य दृष्ट्वा देवेशं लेभिरे कृतकृत्यताम् ॥
अथाहमप्यमी शिष्या ऋषयश्च तथाऽपरे ॥३८॥
राजर्षयश्च राजेंद्र सनकाद्याः सुरर्षयः ॥
स्नात्वा सर्वेषु तीर्थेषु समुपास्य महाबलम् ॥३९॥
लब्ध्वा च जन्मसाफल्यं प्रयाताः सर्वतोदिशम् ॥
अमुनाद्य नरेंद्रेण जनकेन यियक्षुणा ॥१४०॥
निमंत्रितोऽहं संप्राप्तो गोकर्णाच्छिवमंदिरात् ॥
प्रत्यागमं किमप्यंग दृष्ट्वाश्चर्यमहं पथि ॥
महानंदेन मनसा कृतार्थोऽस्मि महीपते ॥१४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे गोकर्णमहिमानुवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP