ब्रह्मोत्तर खण्डः - अध्याय १८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
अथाहं संप्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम् ॥
उमामहेश्वरं नाम व्रतं सर्वार्थसिद्धिदम् ॥१॥
आनर्त्त संभवः कश्चिन्नाम्ना वेदरथो द्विजः ॥
कलत्रपुत्रसंपन्नो विद्वानुत्तमवंशजः ॥२॥
तस्यैवं वर्तमानस्य ब्राह्मणस्य गृहाश्रमे ॥
बभूव शारदानाम कन्या कमललोचना ॥३॥
तां रूपलक्षणोपेतां बालां द्वादशहायनाम् ॥
ययाचे पद्मनाभाख्यो मृतदारश्च स द्विजः ॥४॥
महाधनस्य शांतस्य सदा राजसखस्य च ॥
याञ्चाभंगभयात्तस्य तां कन्यां प्रददौ पिता ॥५॥
मध्यंदिने कृतोद्वाहः स विप्रः श्वशुरालये ॥
संध्यामुपासितुं सायं सरस्तटमुपाययौ ॥६॥
उपास्य संध्यां विधिवत्प्रत्यागच्छत्तमोवृते ॥
मार्गे दष्टो भुजंगेन ममार निजकर्मणा ॥७॥
तस्मिन्मृते कृतोद्वाहे सहसा तस्य बांधवाः ॥
चुक्रुशुः शोकसंतप्तौ श्वशुरावस्य कन्यका ॥८॥
निर्हृत्य तं बंधुजना जग्मुः स्वं स्वं निवेशनम् ॥
शारदा प्राप्तवैधव्या पितुरेवालये स्थिता ॥९॥
भूताच्छादनभोज्येन भर्त्रा विरहिता सती॥
निनाय कतिचिन्मासान्सा बाला पितृमंदिरे ॥१०॥
एकदा नैध्रुवो नाम कश्चिद्वृद्धतरो मुनिः॥
अन्धः शिष्यकरग्राही तन्मंदिरमुपाययौ ॥११॥
तस्मिन्वृद्धे गृहं प्राप्ते क्वापि यातेषु बंधुषु ॥
साक्षादिवात्मनो दैवं सा बाला समुपागमत् ॥१२॥
स्वागतं ते महाभाग पीठेस्मिन्नुपविश्यताम् ॥
नमस्ते मुनिनाथाय प्रियं ते करवाणि किम् ॥१३॥
इत्युक्त्वा भक्तिमास्थाय कृत्वा पादावनेजनम् ॥
वीजयित्वा परिश्रांतं तं मुनिं पर्यतोषयत् ॥१४॥
श्रांतं पीठे समावेश्य कृत्वाभ्यंगं स्वपाणिना ॥
कृतस्नानं च विधिवत्कृतदेवार्चनं मुनिम् ॥१५॥
सुखासनोपविष्टं तं धूपमाल्यानुलेपनैः ॥
अर्चयित्वा वरान्नेन भोजयामास सादरम् ॥१६॥
भुक्त्वा च सम्यक्छनकैस्तृप्तश्चानंदनिर्भरः ॥
चकारांधमुनिस्तस्यै सुप्रीतः परमाशिषम् ॥१७॥
विहृत्य भर्त्रा सहसा च तेन लब्ध्वा सुतं सर्वगुणैर्वरिष्ठम् ॥
कीर्तिं च लोके महतीमवाप्य प्रसादयोग्या भव देवतानाम् ॥१८॥
इत्यभिव्याहृतं तेन मुनिना गतचक्षुषा ॥
निशम्य विस्मिता बाला प्रत्युवाच कृतांजलिः ॥१९॥
ब्रह्मंस्त्वद्वचनं सत्यं कदाचिन्न मृषा भवेत् ॥
तदेतन्मंदभाग्यायाः कथमेतत्फलिष्यति ॥२०॥
शिलाग्र्यामिव सद्वृष्टिः शुनक्यामिव सत्क्रिया ॥
विफला मंदभाग्यायामाशीर्ब्रह्मविदामपि ॥२१॥
सैषाहं विधवा ब्रह्मन्दुष्कर्मफलभागिनी ॥
त्वदाशीर्वचनस्यास्य कथं यास्यामि पात्रताम् ॥२२॥
॥ मुनिरुवाच ॥
त्वामनालक्ष्य यत्प्रोक्तमंधेनापि मयाऽधुना ॥
तदेतत्साधयिष्यामि कुरु मच्छासनं शुभे ॥२३॥
उमामहेश्वरं नाम व्रतं यदि चरिष्यसि ॥
तेन व्रतानुभावेन सद्यः श्रेयोऽनुभोक्ष्यसे ॥२४॥
॥ शारदोवाच ॥
त्वयोपदिष्टं यत्नेन चरिष्याम्यपि दुश्चरम् ॥
तद्व्रतं ब्रूहि मे ब्रह्मन्विधानं वद विस्तरात् ॥२५॥
॥ मुनिरुवाच ॥
चैत्रे वा मार्गशीर्षे वा शुक्लपक्षे शुभे दिने ॥
व्रतारंभं प्रकुर्वीत यथावद्गुर्वनुज्ञया ॥२६॥
अष्टम्यां च चतुर्दश्यामुभयोरपि पर्वणोः ॥
संकल्पं विधिवत्कृत्वा प्रातःस्नानं समाचरेत् ॥२७॥
सन्तर्प्य पितृदेवादीन्गत्वा स्वभवनं प्रति ॥
मंडपं रचयेद्दिव्यं वितानाद्यैरलंकृतम् ॥२८॥
फलपल्लवपुष्पाद्यैस्तोरणैश्च समन्वितम् ॥
पंचवर्णैश्च तन्मध्ये रजोभिः पद्ममुद्धरेत् ॥२९॥
चतुर्दशदलैर्बाह्ये द्वाविंशद्भिस्तदंतरे ॥
तदंतरं षोडशभिरष्टभिश्च तदंतरे ॥३०॥
एवं पद्मं समुद्धत्य पंचवर्णैर्मनोरमम् ॥
चतुरस्रं ततः कुर्यादंतर्वर्तुलमुत्तमम् ॥३१॥
व्रीहितंडुलराशिं च तन्मध्ये च सकूर्चकम् ॥
कूर्चोपरि सुसंस्थाप्य कलशं वारिपूरितम् ॥३२॥
कलशोपरि विन्यस्य वस्त्रं वर्णसमन्वितम् ॥
तस्योपरिष्टात्सौवर्ण्यौ प्रतिमे शिवयोः शुभे ॥
निधाय पूजयेद्भक्त्या यथाविभवविस्तरम् ॥३३॥
पंचामृतैस्तु संस्नाप्य तथा शुद्धोदकेन च ॥
रुद्रैकादशकं जप्त्वा पंचाक्षरशताष्टकम् ॥३४॥
अभिमंत्र्य पुनः स्थाप्य पीठं मध्ये तथार्चयेत् ॥
स्वयं शुद्धासनासीनो धौतशुक्लांबरः सुधीः ॥३५॥
पीठमामंत्र्य मंत्रेण प्राणायामान्समाचरेत् ॥
संकल्पं प्रवदेत्तत्र शिवाग्रे विहितांजलिः ॥३६॥
यानि पापानि घोराणि जन्मांतरशतेषु मे ॥
तेषां सर्वविनाशाय शिवपूजां समारभे ॥३७॥
सौभाग्यविजयारोग्यधर्मैश्वर्याभिवृद्धये ॥
स्वर्गापवर्गसिद्ध्यर्थं करिष्ये शिवपूजनम् ॥३८॥
इति संकल्पमुच्चार्य यथावत्सुसमाहितः ॥
अंगन्यासं ततः कृत्वा ध्यायेदीशं च पार्वतीम् ॥३९॥
कुंदेंदुधवलाकारं नागाभरणभूषितम् ॥
वरदाभयहस्तं च बिभ्राणं परशुं मृगम् ॥४०॥
सूर्यकोटिप्रतीकाशं जगदानंदकारणम् ॥
जाह्नवीजलसंपर्काद्दीर्घपिंगजटाधरम् ॥४१॥
उरगेंद्रफणोद्भूतमहामुकुटमंडितम् ॥
शीतांशुखंडविलसत्कोटीरांगदभूषणम् ॥४२॥
उन्मीलद्भालनयनं तथा सूर्येंदुलोचनम् ॥
नीलकंठं चतुर्बाहुं गजेंद्राजिनवाससम् ॥४३॥
रत्नसिंहासनारूढं नागाभरणभूषितम् ॥
देवीं च दिव्यवसनां बालसूर्यायुतद्युतिम् ॥४४॥
बालवेषां च तन्वंगीं बालशीतांशुशेखराम् ॥
पाशांकुशवराभीतिं बिभ्रतीं च चतुर्भुजाम् ॥४५॥
प्रसादसुमुखीमंबां लीलारसविहारिणीम् ॥
लसत्कुरबकाशोकपुन्नागनवचंपकैः ॥४६॥
कृतावतंसामुत्फुल्लमल्लिकोत्कलितालकाम् ॥
कांचीकलापपर्यस्तजघनाभोगशालिनीम् ॥४७॥
उदारकिंकिणीश्रेणीनूपुराढ्यपदद्वयाम् ॥
गंडमंडलसंसक्तरत्नकुंडलशोभिताम् ॥४८॥
बिंबाधरानुरक्तांशुलसद्दशन कुड्मलाम् ॥
महार्हरत्नग्रेवेयतारहारविराजिताम् ॥४९॥
नवमाणिक्यरुचिरकंकणांगदमुद्रिकाम् ॥
रक्तांशुकपरीधानां रत्नमाल्यानुलेपनाम् ॥५०॥
उद्यत्पीनकुचद्वंद्वनिंदितांभोजकुड्मलाम् ॥
लीलालोलासितापांगीं भक्तानुग्रहदायिनीम् ॥५१॥
एवं ध्यात्वा तु हृत्पद्मे जगतः पितरौ शिवौ ॥
जप्त्वा तदात्मकं मंत्रं तदंते बहिरर्चयेत् ॥५२॥
आवाह्य प्रतिमायुग्मे कल्पयेदासनादिकम् ॥
अर्घ्यं च दद्याच्छिवयोर्मंत्रेणानेन मंत्रवित् ॥५३॥
नमस्ते पार्वतीनाथ त्रैलोक्यवरदर्षभ ॥
त्र्यंबकेश महादेव गृहाणार्घ्यं नमोऽस्तु ते ॥५४॥
नमस्ते देवदेवेशि प्रपन्नभयहारिणि ॥
अंबिके वरदे देवि गृहाणार्घ्यं शिवप्रिये ॥५५॥
इति त्रिवारमुच्चार्य दद्यादर्घ्यं समाहितः ॥
गन्धपुष्पाक्षतान्सम्यग्धूपदीपान्प्रकल्पयेत् ॥५६॥
नैवेद्यं पायसान्नेन घृताक्तं परिकल्पयेत् ॥
जुहुयान्मूलमंत्रेण हविरष्टोत्तरं शतम् ॥५७॥
तत उद्वास्य नैवेद्यं धूपनीराजनादिकम् ॥
कृत्वा निवेद्य तांबूलं नमस्कुर्यात्समाहितः ॥५८॥
अथाभ्यर्च्योपचारेण भोजयेद्विप्रदंपती ॥५९॥
एवं सायंतनीं पूजां कृत्वा विप्रानुमोदितः ॥
भुंजीत वाग्यतो रात्रौ हविष्यं क्षीरभावितम् ॥६०॥
एवं संवत्सरं कुर्याद्व्रतं पक्षद्वये बुधः ॥
ततः संवत्सरे पूर्णे व्रतोद्यापनमाचरेत् ॥६१॥
शतरुद्राभिजप्तेन स्नापयेत्प्रतिमे जलैः ॥
आगमोक्तेन मन्त्रेण संपूज्य गिरिजाशिवौ ॥६२॥
सवस्त्रं ससुवर्ण च कलशं प्रति मान्वितम्॥
दत्त्वाचार्याय महते सदाचाररताय च ॥
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्याभिपूज्य च ॥६३॥
दद्याच्च दक्षिणां तेभ्यो गोहिरण्यांबरादिकम् ॥
भुंजीत तदनुज्ञातः सहेष्टजनबंधुभिः ॥६४॥
एवं यः कुरुते भक्त्या व्रतं त्रैलोक्यविश्रुतम् ॥
त्रिःसप्तकुलमुद्धृत्य भुक्त्वा भोगान्यथेप्सि तान् ॥६५॥
इन्द्रादिलोकपालानां स्थानेषु रमते धुवम् ॥
ब्रह्मलोके च रमते विष्णुलोके च शाश्वते ॥६६॥
शिवलोकमथ प्राप्य तत्र कल्पशतं पुनः ॥
भुक्त्वा भोगान्सुविपुलाञ्छिवमेव प्रपद्यते ॥६७॥
महाव्रतमिदं प्रोक्तं त्वमपि श्रद्धया चर ॥
अत्यंतदुर्लभं वापि लप्स्यसे च मनोरथम् ॥६८॥
इत्यादिष्टा मुनींद्रेण सा बाला मुदिता भृशम् ॥
प्रत्यग्रहीत्सुविश्रब्धा तद्वाक्यं सुमनोहरम् ॥६९॥
अथ तस्याः समायाताः पितृमातृ सहोदराः ॥
तं मुनिं सुखमासीनं ददृशुः कृतभोजनम् ॥७०॥
सहसागत्य ते सर्वे नमश्चक्रुर्महात्मने ॥
प्रसीद नः प्रसीदेति गृणतः पर्यपूज यन् ॥७१॥
श्रुत्वा च ते तया साध्व्या पूजितं परमं मुनिम् ॥
अनुग्रहवतं तस्यै श्रुत्वा हर्षं परं ययुः ॥७२॥
ते कृतांजलयः सर्वे तमूचुर्मुनि पुंगवम् ॥७३॥
अद्य धन्या वयं सर्वे तवागमनमात्रतः ॥
पावितं नः कुलं सर्वं गृहं च सफलीकृतम् ॥७४॥
इयं च शारदा नाम कन्या वैधव्यमागता ॥
केनापि कर्मयोगेन दुर्विलंघ्येन भूयसा ॥७५॥
सैषाद्य तव पादाब्जं प्रपन्ना शरणं सती ॥
इमां समुद्धरासह्यात्सुघोराद्दुःख सागरात् ॥७६॥
त्वयापि तावदत्रैव स्थातव्यं नो गृहांतिके ॥
अस्मद्गृहमठेऽप्यस्मिन्स्नानपूजाजपोचिते ॥७७॥
एषा बालापि भगवन्कुर्वंती त्वत्पदार्चनम् ॥
व्रतं त्वत्सन्निधावेव चरिष्यति महामुने ॥७८॥
यावत्समाप्तिमायाति व्रतमस्यास्त्वदंतिके ॥
उषित्वा तावदत्रैव कृतार्थान्कुरु नो गुरो ॥७९॥
एवमभ्यर्थितः सर्वैस्तस्या भ्रातृजनादिभिः ॥
तथेति स मुनिश्रेष्ठस्तत्रोवास मठे शुभे ॥८०॥
सापि तेनोपदिष्टेन मार्गेण गिरिजाशिवौ ॥
अर्चयंती व्रतं सम्यक्चचार विमला सती ॥८१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे उमामहेश्वरव्रताचरणं नामाष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP