ब्रह्मोत्तर खण्डः - अध्याय २०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
अथ रुद्राक्षमाहात्म्यं वर्णयामि समासतः ॥
सर्वपापक्षयकरं शृण्वतां पठतामपि ॥१॥
अभक्तो वापि भक्तो वा नीचो नीचतरोपि वा ॥
रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ॥२॥
रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥
महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ॥३॥
सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥
तं नमंति सुराः सर्वे यथा रुद्रस्तथैव सः ॥४॥
अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥
एकं शिखायां करयोर्द्वादश द्वादशैव हि ॥५॥
द्वात्रिंशत्कंठदेशे तु चत्वारिंशत्तु मस्तके ॥
एकैक कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् ॥
यो धारयति रुद्राक्षान्रुद्रवत्सोपि पूज्यते ॥६॥
मुक्ताप्रवालस्फटिकरौप्यवैदूर्यकांचनैः ॥
समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥७॥
केवलानपि रुद्राक्षान्यथालाभं बिभर्ति यः ॥
तं न स्पृशंति पापानि तमांसीव विभावसुम् ॥८॥
रुद्राक्षमालया जप्तो मंत्रोऽनंतफलप्रदः ॥
अरुद्राक्षो जपः पुंसां तावन्मात्रफलप्रदः ॥९॥
यस्यांगे नास्ति रुद्राक्ष एकोपि बहुपुण्यदः ॥
तस्य जन्म निरर्थं स्यात्त्रिपुंड्ररहितं यदि ॥१०॥
रुद्राक्षं मस्तके बद्ध्वा शिरःस्नानं करोति यः ॥
गंगास्नानफलं तस्य जायते नात्र संशयः ॥११॥
रुद्राक्षं पूजयेद्यस्तु विना तोयाभिषेचनम् ॥
यत्फलं लिंगपूजायास्तदेवाप्नोति निश्चितम् ॥१२॥
एकवक्त्राः पंचवक्त्रा एकादशमुखाः परे ॥
चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः ॥१३॥
भक्त्या संपूजितो नित्यं रुद्राक्षः शंकरात्मकः ॥
दरिद्रं वापि कुरुते राजराजश्रियान्वितम् ॥१४॥
अत्रेदं पुण्यमाख्यानं वर्णयंति मनीषिणः ।
महापापक्षयकरं श्रवणात्कीर्त्तनादपि ॥१५॥
राजा काश्मीरदेशस्य भद्रसेन इति श्रुतः ॥
तस्य पुत्रो ऽभवद्धीमान्सुधर्मानाम वीर्यवान् ॥१६॥
तस्यामात्यसुतः कश्चित्तारको नाम सद्गुणः ॥
बभूव राजपुत्रस्य सखा परमशोभनः ॥१७॥
तावुभौ परमस्निग्धौ कुमारौ रूपसुन्दरौ ॥
विद्याभ्यासपरौ बाल्ये सह क्रीडां प्रचक्रतुः ॥१८॥
तौ सदा सर्वगात्रेषु रुद्राक्षकृतभूषणौ ॥
विचेरतुरुदारांगौ सततं भस्मधारिणौ ॥१९॥
हारकेयूरकटककुंडलादिविभूषणम् ॥
हेमरत्नमयं त्यक्त्वा रुद्राक्षान्दधतुश्च तौ ॥२०॥
रुद्राक्षमालितौ नित्यं रुद्राक्षकरकंकणौ ॥
रुद्राक्षकंठाभरणौ सदा रुद्राक्षकुंडलौ ॥२१॥
हेमरत्नाद्यलंकारे लोष्टपाषाणदर्शनौ ॥
बोध्यमानावपि जनैर्न रुद्राक्षान्व्यमुंचताम् ॥२२॥
तस्य काश्मीरराजस्य गृहं प्राप्तो यदृच्छया ॥
पराशरो मुनिवरः साक्षादिव पितामहः ॥२३॥
तमर्चयित्वा विधिवद्राजा धर्मभृतां वरः ॥
प्रपच्छ सुखमासीनं त्रिकालज्ञं महामुनिम् ॥२४॥
॥ राजोवाच ॥
भगवन्नेष पुत्रो मे सोपि मंत्रिसुतश्च मे ॥
रुद्राक्षधारिणौ नित्यं रत्नाभरणनिःस्पृहौ ॥२५॥
शास्यमानावपि सदा रत्नाकल्पपरिग्रहे ॥
विलंघितास्मद्वचनौ रुद्राक्षेष्वेव तत्परौ ॥२६॥
नोपदिष्टाविमौ बालौ कदाचिदपि केनचित् ॥
एषा स्वाभाविकी वृत्तिः कथमासीत्कुमारयोः ॥२७॥
॥ पराशर उवाच ॥
शृणु राजन्प्रवक्ष्यामि तव पुत्रस्य धीमतः ॥
यथा त्वं मंत्रिपुत्रस्य प्राग्वृत्तं विस्मयावहम् ॥२८॥
नंदिग्रामे पुरा काचिन्महानंदेति विश्रुता॥
बभूव वारवनिता शृंगारललिताकृतिः ॥२९॥
छत्रं पूर्णेंदुसंकाशं यानं स्वर्णविराजितम् ॥
चामराणि सुदंडानि पादुके च हिरण्मये॥३०॥
अंबराणि विचित्राणि महार्हाणि द्युमंति च ॥
चंद्ररश्मिनिभाः शय्या पर्यंकाश्च हिरण्मयाः ॥३१॥
गावो महिष्यः शतशो दासाश्च शतशस्तथा ॥३२॥
सर्वाभरणदीप्तांग्यो दास्यश्च नवयौवना ॥
भूषणानि परार्ध्याणि नवरत्नोज्ज्वलानि च ॥३३॥
गन्धकुंकुमकस्तूरीकर्पूरागुरुलेपनम् ॥
चित्रमाल्यावतंसश्च यथेष्टं मृष्टभोजनम् ॥३४॥
नानाचित्रवितानाढ्यं नानाधान्यमयं गृहम् ॥
बहुरत्नसहस्राढ्यं कोटिसंख्याधिकं धनम् ॥३५॥
एवं विभवसंपन्ना वेश्या कामविहारिणी ॥
शिवपूजारता नित्यं सत्यधर्मपरायणा ॥३६॥
सदाशिवकथासक्ता शिवनामकथोत्सुका ॥
शिवभक्तांघ्र्यवनता शिवभक्तिरतानिशम् ॥३७॥
विनोदहेतोः सा वेश्या नाट्यमण्डपमध्यतः॥
रुद्राक्षैभूषयित्वैकं मर्कटं चैव कुक्कुटम् ॥३८॥
करतालैश्च गीतैश्च सदा नर्तयति स्वयम् ॥
पुनश्च विहसंत्युच्चैः सखीभिः परिवारिता ॥३९॥
युग्मम् ॥
रुद्राक्षैः कृतकेयूरकर्णाभरणभूषणः ॥
मर्कटः शिक्षया तस्याः सदा नृत्यति बालवत् ॥४०॥
शिखायां बद्धरुद्राक्षः कुक्कुटः कपिना सह ॥
चिरं नृत्यति नृत्यज्ञः पश्यतां चित्रमावहन् ॥४१॥
एकदा भवनं तस्याः कश्चिद्वैश्यः शिवव्रती॥
आजगाम सरुद्राक्षस्त्रिपुंड्री निर्ममः कृती ॥४२॥
स बिभ्रद्भस्म विशदे प्रकोष्ठे वरकंकणम् ॥
महारत्नपरिस्तीर्णं ज्वलंतं तरुणार्कवत् ॥४३॥
तमागतं सा गणिका संपूज्य परया मुदा।
तत्प्रकोष्ठगतं वीक्ष्य कंकणं प्राह विस्मिता ॥४४॥
महारत्नमयः सोऽयं कंकणस्त्वत्करे स्थितः ॥
मनो हरति मे साधौ दिव्यस्त्रीभूषणोचितः ॥४५॥
इति तां वररत्नाढ्य सस्पृहां करभूषणे ॥
वाक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥४६॥
॥ वैश्य उवाच ॥
अस्मिन्रत्नवरे दिव्ये यदि ते सस्पृहं मनः ॥
तमेवादत्स्व सुप्रीता मौल्यमस्य ददासि किम् ॥४७॥
॥ वेश्यो वाच ॥
वयं तु स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ॥
अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥४८॥
यद्येतद्रत्नखचितं ददासि करभूषणम्॥
दिनत्रयमहोरात्रं तव पत्नी भवाम्यहम् ॥४९॥
॥ वैश्य उवाच ॥
तथास्तु यदि ते सत्यं वचनं वारवल्लभे ॥
ददामि रत्नवलयं त्रिरात्रं भव मद्वधूः ॥५०॥
एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ॥
त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥५१॥
॥ वेश्योवाच ॥
दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ॥
सहधर्मं चरामीति सा तद्धृदयमस्पृशत् ॥५२॥
अथ तस्यै स वैश्यस्तु प्रददौ रत्नकङ्कणम् ॥
लिंगं रत्नमयं चास्या हस्ते दत्त्वेदमब्रवीत् ॥५३॥
इदं रत्नमयं शैवं लिंगं मत्प्राणसंनिभम् ॥
रक्षणीयं त्वया कांते तस्य हानिर्मृतिर्मम ॥५४॥
एवमस्त्विति सा कांता लिंगमादाय रत्नजम् ॥
नाट्यमण्डपिकास्तंभे निधाय प्राविशद्गृहम् ॥५५॥
सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ॥
सुखं सुष्वाप पर्यंके मृदुतल्पोपशोभिते ॥५६॥
ततो निशीथसमये नाट्यमण्डपिकांतरे ॥
अकस्मादुत्थितो वह्निस्तमेव सहसावृणोत् ॥५७॥
मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् ॥
सा वेश्या मर्कटं तत्र मोचयामास बंधनात् ॥५८॥
स मर्कटो मुक्तबंधः कुक्कुटेन सहामुना ॥
भीतो दूरं प्रदुद्राव विधूयाग्निकणान्बहून् ॥५९॥
स्तंभेन सह निर्दग्धं तल्लिंगं शकलीकृतम् ॥
दृष्ट्वा वेश्या च वैश्यश्च दुरंतं दुःखमापतुः ॥६०॥
दृष्ट्वा प्राणसमं लिंगं दग्धं वैश्यपतिस्तथा ॥
स्वयमप्याप्तनिर्वेदो मरणाय मतिं दधौ ॥६१॥
निर्वेददान्नितरां खेदाद्वैश्यस्तामाह दुःखिताम् ॥
शिवलिंगे तु निर्भिन्ने नाहं जीवितुमुत्सहे ॥६२॥
चितां कारय मे भद्रे तव भृत्यैर्बलाधिकैः ॥
शिवे मनः समावेश्य प्रविशामि हुताशनम् ॥६३॥
यदि ब्रह्मेंद्रविष्ण्वाद्या वारयेयुः समेत्य माम् ॥
तथाप्यस्मिन्क्षणे धीरः प्रविश्याग्निं त्यजाम्यसून् ॥६४॥
तमेवं दृढबंधं सा विज्ञाय बहुदुःखिता ॥
स्वभृत्यैः कारयामास चितां स्वनगराद्बहिः ॥६५॥
ततः स वैश्यः शिवभक्तिपूतः प्रदक्षिणीकृत्य समिद्धमग्निम् ॥
विवेश पश्यत्सु जनेषु धीरः सा चानुतापं युवती प्रपेदे ॥६६॥
अथ सा दुःखिता नारी स्मृत्वा धर्मं सुनिर्मलम् ॥
सर्वान्बन्धून्समीक्ष्यैव बभाषे करुणं वचः ॥६७॥
रत्नकंकणमादाय मया सत्यमुदाहृतम् ॥
दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता ॥६८॥
कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती।
तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥
सधर्मचारिणीत्युक्तं सत्यमेतद्धि पश्यथ ॥६९॥
सत्येन प्रीतिमायांति देवास्त्रिभुवनेश्वराः ॥
सत्यासक्तिः परो धर्मः सत्ये सर्वं प्रतिष्ठितम् ॥७०॥
सत्येन स्वर्गमोक्षौ च नासत्येन परा गतिः ॥
तस्मासत्यं समाश्रित्य प्रवेक्ष्यामि हुताशनम् ॥७१॥
इति सा दृढनिर्बंधा वार्यमाणापि बंधुभिः ॥
सत्यलोपभयान्नारी प्राणांस्त्यक्तुं मनो दधे ॥७२॥
सर्वस्वं शिवभक्तेभ्यो दत्त्वा ध्यात्वा सदाशिवम् ॥
तमग्निं त्रिः परिक्रम्य प्रदेशाभिमुखी स्थिता ॥७३॥
तां पतंतीं समिद्धेऽग्नौ स्वपदार्पितमानसाम् ॥
वारयामास विश्वात्मा प्रादुर्भूतः शिवः स्वयम् ॥७४॥
सा तं विलोक्याखिलदेव देवं त्रिलोचनं चन्द्रकलावतंसम् ॥
शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ॥७५॥
तां विह्वलां परित्रस्तां वेपमानां जडी कृताम् ॥
समाश्वास्य गलद्बाष्पां करे गृह्याब्रवीद्वचः ॥७६॥
॥ शिव उवाच ॥
सत्यं धर्मं च ते धैर्यं भक्तिं च मयि निश्चलाम् ॥
निरीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥७७॥
माययाग्निं समुत्थाप्य दग्धवान्नाट्यमंडपम् ॥
दग्धं कृत्वा रत्नलिंगं प्रवृष्टोस्मि हुताशनम् ॥७८॥
वेश्याः कैतवकारिण्यः स्वैरिण्यो जनवंचकाः ॥
सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सह ॥७९॥
अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥
आयुश्च परमं दीर्घमारोग्यं च प्रजोन्नतिम् ॥
यद्यदिच्छसि सुश्रोणि तत्तदेव ददामि ते ॥८०॥
॥ सूत उवाच ॥
इति ब्रुवति गौरीशे सा वेश्या प्रत्यभाषत ॥८१॥
॥ वेश्योवाच ॥
न मे वांछास्ति भोगेषु भूमौ स्वर्गे रसातले ॥
तव पादांबुजस्पर्शादन्यत्किंचिन्न वै वृणे ॥८२॥
एते भृत्याश्च दास्यश्च ये चान्ये मम बांधवाः ॥
सर्वे त्वदर्चनपरास्त्वयि संन्यस्तवृत्तयः ॥८३॥
सर्वानेतान्मया सार्धं नीत्वा तव परं पदम् ॥
पुनर्जन्मभयं घोरं विमोचय नमोस्तु ते ॥८४॥
तथेति तस्या वचनं प्रतिनंद्य महेश्वरः ॥
तान्सर्वांश्च तया सार्धं निनाय परमं पदम् ॥८५॥
॥ पराशर उवाच ॥
नाट्यमंडपिकादाहे यौ दूरं विद्रुतौ पुरा ॥
तत्रावशिष्टौ तावेव कुक्कुटो मर्कटस्तथा ॥८६॥
कालेन निधनं यातो यस्तस्या नाट्यमर्कटः ॥
सोभूत्तव कुमारोऽसौ कुवकुटो मंत्रिणः सुतः ॥८७॥
रुद्राक्षधारणोद्भूतात्पुण्यात्पूर्वभवार्जितात् ॥
कुले महति संजातौ वर्तेते बालकाविमौ ॥८८॥
पूर्वाभ्यासेन रुद्राक्षान्दधाते शुद्धमानसौ ॥
अस्मिञ्जन्मनि तं लोकं शिवं संपूज्य यास्य तः ॥८९॥
एषा प्रवृत्तिस्त्वनयोर्बालयोः समुदाहृता ॥
कथा च शिवभक्ताया किमन्यत्प्रष्टुमिच्छसि ॥९०॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे रुद्राक्षमहिमवर्णनं नाम विंशोऽध्यायः ॥२०॥अ ॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP