ब्रह्मोत्तर खण्डः - अध्याय १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
विचित्रं शिवनिर्माणं विचित्र शिवचेष्टितम् ॥
विचित्रं शिवमाहात्म्यं विचित्रं शिवभाषितम् ॥१॥
विचित्रं शिवभक्तानां चरितं पापनाशनम् ॥
स्वर्गापवर्गयोः सत्यं साधनं तद्ब्रवीम्यहम् ॥२॥
अवंतीविषये कश्चिद्ब्राह्मणो मंदराह्वयः ॥
बभूव विषयारामः स्त्रीजितो धनसंग्रही ॥३॥
संध्यास्नापरित्यक्तो गंधमाल्यांबरप्रियः ॥
कुस्त्रीसक्तः कुमार्गस्थो यथा पूर्वमजामिलः ॥४॥
स वेश्यां पिंगलां नाम रममाणो दिवानिशम् ॥
तस्या एव गृहे नित्यमासीदविजितेंद्रियः ॥५॥
कदाचित्सदने तस्यास्तस्मिन्निवसति द्विजे ॥
ऋषभो नाम धर्मात्मा शिवयोगी समाययौ ॥६॥
तमागतमभिप्रेक्ष्य मत्वा स्वं पुण्यमूर्जितम् ॥
सा वेश्या स च विप्रश्च पर्यपूजयतामुभौ ॥७॥
तमारोप्य महापीठे कंबलांबरसंभृते ॥
प्रक्षाल्य चरणौ भक्त्या तज्जलं दधतुः शिरः ॥८॥
स्वागतार्घ्यनमस्कारैर्गंधपुष्पाक्षतादिभिः ॥
उपचारैः समभ्यर्च्य भोजयामासतुर्मुदा ॥९॥
तं भुक्तवंतमाचांतं पर्यंके सुखसंस्तरे ॥
उपवेश्य मुदा युक्तौ तांबूलं प्रत्ययच्छताम् ॥१०॥
पादसंवाहनं भक्त्या कुर्वंतौ दैवचो दितौ ॥
कल्पयित्वा तु शुश्रूषां प्रीणयामासतुश्चिरम् ॥११॥
एवं समर्चितस्ताभ्यां शिवयोगी महाद्युतिः ॥
अतिवाह्य निशामेकां ययौ प्रातस्तदादृतः ॥१२॥
एवं काले गतप्राये स विप्रो निधनं गतः ॥
सा च वेश्या मृता काले ययौ कर्मार्जितां गतिम् ॥१३॥
स विप्रः कर्मणा नीतो दशार्णधरणीपतेः ॥
वज्रबाहुकुटुंबिन्याः सुमत्या गर्भमास्थितः ॥१४॥
तां ज्येष्ठपत्नीं नृपतेर्गर्भसंपदमाश्रिताम् ॥
अवेक्ष्य तस्यै गरलं सपत्न्यश्छद्मना ददुः ॥१५॥
सा भुक्त्वा गरलं घोरं न मृता दैवयोगतः ॥
क्लेशमेव परं प्राप मरणादतिदुःसहम् ॥१६॥
अथ काले समायाते पुत्रमे कमजीजनत् ॥
क्लेशेन महता साध्वी पीडिता वरवर्णिनी ॥१७॥
स निर्दशो राजपुत्रः स्पृष्टपूर्वो गरेण यत् ॥
तेनावाप महाक्लेशं क्रंदमानो दिवानिशम् ॥१८॥
तस्य बालस्य माता च सर्वांगव्रणपीडिता ॥
बभूवतुरतिक्लिष्टौ गरयोगप्रभावतः ॥१९॥
तौ राज्ञा च समानीतौ वैद्यैश्च कृतभेषजौ ॥
न स्वास्थ्यमापतुर्यत्नैरनेकैर्योजितैरपि ॥२०॥
न रात्रौ लभते निद्रां सा राज्ञी विपुलव्यथा ॥
स्वपुत्रस्य च दुःखेन दुःखिता नितरां कृशा ॥२१॥
नीत्वैवं कतिचिन्मासान्स राजा मातृपुत्रकौ ॥
जीवंतौ च मृतप्रायौ विलोक्यात्मन्यचिंतयत् ॥२२॥
एतौ मे गृहिणीपुत्रौ निरयादागताविह ॥
अश्रांतरोगौ क्रंदंतौ निद्राभंगविधायिनौ ॥२३॥
अत्रोपायं करिष्यामि पापयोर्ध्रुवमेतयोः ॥
मर्तुं वा जीवितुं वापि न क्षमौ पापभोगिनौ ॥२४॥
इत्थं विनिश्चित्य च भूमिपालः सक्तः सपत्नीषु तदात्मजेषु ॥
आहूय सूतं निजदारपुत्रौ निर्वापयामास रथेन दूरम्॥ २५॥
तौ सूतेन परित्यक्तौ कुत्रचिद्विजने वने ॥
अवापतुः परां पीडां क्षुत्तृड्भ्यां भृशविह्वलौ ॥२६॥
सोद्वहंती निजं बालं निपतंती पदे पदे ॥
निःश्वसंती निजं कर्म निंदंती चकिता भृशम् ॥२७॥
क्वचित्कंटकभिन्नांगी मुक्तकेशी भयातुरा ॥
क्वचिद्व्याघ्रस्वनैर्भीता क्वचिद्व्यालैरनुद्रुता ॥२८॥
भर्त्स्यमाना पिशाचैश्च वेतालैर्ब्रह्मराक्षसैः ॥
महागुल्मेषु धावंती भिन्नपादा क्षुराश्मभिः ॥२९॥
सैवं घोरे महारण्ये भ्रमंती नृपगे हिनी ॥
दैवात्प्राप्ता वणिङ्मार्गं गोवाजिनरसेवितम् ॥३०॥
गच्छंती तेन मार्गेण सुदूरमतियत्नतः ॥
ददर्श वैश्यनगरं वहुस्त्रीनरसेवितम् ॥३१॥
तस्य गोप्ता महावैश्यो नगरस्य महाजनः ॥
अस्ति पद्माकरो नाम राजराज इवापरः ॥३२॥
तस्य वैश्यपतेः काचिद्गृहदासी नृपांगनाम् ॥
आयांती दूरतो दृष्ट्वा तदंतिकमुपाययौ ॥३३॥
सा दासी नृपतेः कांतां सपुत्रां भृशपीडिताम् ॥
स्वयं विदितवृत्तांता स्वामिने प्रत्यदर्शयत् ॥३४॥
स तां दृष्ट्वा विशां नाथो रुजार्त्तां क्लिष्टपुत्रकाम् ॥
नीत्वा रहसि सुव्यक्तं तद्वृत्तांतमपृच्छत ॥३५॥
तया निवेदिताशेषवृत्तांतः स वणिक्पतिः ॥
अहोकष्टमिति ज्ञात्वा निशश्वास मुहुर्मुहुः ॥३६॥
तामंतिके स्वगेहस्य संनिवेश्य रहोगृहे ॥
वासोन्नपानशयनैर्मातृसाम्यमपूजयत् ॥३७॥
तस्मिन्गृहे नृपवधूर्निवसंती सुरक्षिता ॥
व्रणयक्ष्मादिरोगाणां न शांतिं प्रत्यपद्यत ॥३८॥
ततो दिनैः कतिपयैः स बालो व्रणपीडितः ॥
विलंघितभिषक्सत्त्वो ममार च विधेर्वशात् ॥३९॥
मृते स्वतनये राज्ञी शोकेन महतावृता ॥
मूर्च्छिता चापतद्भूमौ गजभग्नेव वल्लरी ॥४०॥
दैवात्संज्ञामवाप्याथ वाष्पक्लिन्नपयोधरा ॥
सांत्विताऽपि वणिक्स्त्रीभिर्विललाप सुदुःखिता ॥४१॥
हा ताततात हा पुत्र हा मम प्राणरक्षक ॥
हा राजकुलपूर्णेन्दो हा ममानंदवर्धन ॥४२॥
इमामनाथां कृपणां त्वत्प्राणां त्यक्तवबांधवाम् ॥
मातरं ते परित्यज्य क्व यातोऽसि नृपात्मज ॥४३॥
इत्येभिरुदितैर्वाक्यैः शोकचिंताविवर्धकैः ॥
विलपंतीं मृतापत्यां को नु सांत्वयितुं क्षमः ॥४४॥
एतस्मिन्समये तस्या दुःखशोकचिकित्सकः॥
ऋषभः पूर्वमाख्यातः शिवयोगी समाययौ॥४५॥
स योगी वैश्यनाथेन सार्घहस्तेन पूजितः॥
तस्याः सकाशमगमच्छोचन्त्या इदमब्रवीत् ॥४६॥
॥ ऋषभ उवाच ॥
अकस्मात्किमहो वत्से रोरवीषि विमूढधीः ॥
को जातः कतमो लोके को मृतो वद सांप्रतम् ॥४७॥
अमी देहादयो भावास्तोयफेनसधर्मकाः ॥
क्वचिद्भ्रांतिः क्वचिच्छांतिः स्थितिर्भवति वा पुनः ॥४८॥
अतोऽस्मिन्फेनसदृशे देहे पञ्चत्वमागते ॥
शोकस्यानवकाशत्वान्न शोचंति विपश्चितः ॥४९॥
गुणैर्भूतानि सृज्यंते भ्राम्यंते निजकर्मभिः ॥
कालेनाथ विकृष्यंते वासनायां च शेरते ॥५०॥
माययोत्पत्तिमायांति गुणाः सत्त्वादयस्त्रयः ॥
तैरेव देहा जायंते जातास्तल्लक्षणाश्रयाः ॥५१॥
देवत्वं यानि सत्त्वेन रजसा च मनुष्यताम् ॥
तिर्यक्त्वं तमसा जंतुर्वासनानुगतोवशः ॥५२॥
संसारे वर्तमानेस्मिञ्जंतुः कर्मानुबन्धनात् ॥
दुर्विभाव्यां गतिं याति सुखदुःखमयीं मुहुः ॥५३॥
अपि कल्पायुषां तेषां देवानां तु विपर्ययः ॥
अनेकामयबद्धानां का कथा नरदेहिनाम् ॥५४॥
केचिद्वदंति देहस्य कालमेव हि कारणम् ॥
कर्म केचिद्गुणान्केचिद्देहः साधारणो ह्ययम् ॥५५॥
कालकर्मगुणाधानं पञ्चात्मकमिदं वपुः ॥
जातं दृष्ट्वा न हृष्यंति न शोचंति मृतं बुधाः ॥५६॥
अव्यक्ते जायते जंतुरव्यक्ते च प्रलीयते ॥
मध्ये व्यक्तवदाभाति जलबुद्बुदसन्निभः ॥५७॥
यदा गर्भगतो देही विनाशः कल्पितस्तदा ॥
दैवाज्जीवति वा जातो म्रियते सहसैव वा ॥५८॥
गर्भस्था एव नश्यंति जातमात्रास्तथा परे ॥
क्वचिद्युवानो नश्यंति म्रियंते केपि वार्धके ॥५९॥
यादृशं प्राक्तनं कर्म तादृशं विंदते वपुः ॥
भुंक्ते तदनुरूपाणि सुखदुःखानि वै ह्यसौ ॥६०॥
मायानुभावेरितयोः पित्रोः सुरतसंभ्रमात् ॥
देह उत्पद्यते कोपि पुंयोषित्क्लीबलक्षणः ॥६१॥
आयुः सुखं च दुःख च पुण्यं पापं श्रुतं धनम् ॥
ललाटे लिखितं धात्रा वहञ्जंतुः प्रजायते ॥६२॥
कर्मणामविलंघ्यत्वात्कालस्याप्यनतिक्रमात् ॥
अनित्यत्वाच्च भावानां न शोकं कर्तुमर्हसि ॥६३॥
क्व स्वप्ने नियतं स्थैर्यमिंद्रजाले क्व सत्यता ॥
क्व नित्यता शरन्मेघे क्व शश्वत्त्वं कलेवरे ॥६४॥
तव जन्मान्यतीतानि शतकोट्ययुतानि च ॥
अजानंत्याः परं तत्त्वं संप्राप्तोऽयं महाश्रमः ॥६५॥
कस्यकस्यासि तनया जननी कस्यकस्य वा ॥
कस्यकस्यासि गृहिणी भवकोटिषु वर्त्तिनी ॥६६॥
पञ्चभूतात्मको देहस्त्वगसृङ्मांसबन्धनः ॥
मेदोमज्जास्थिनिचितो विण्मूत्रश्लेष्मभाजनम् ॥६७॥
शरीरांतरमप्येतन्निजदेहोद्भवं मलम् ॥
मत्त्वा स्वतनयं मूढे मा शोकं कर्तुमर्हसि ॥६८॥
यदि नाम जनः कश्चिन्मृत्युं तरति यत्नतः ॥
कथं तर्हि विपद्येरन्सर्वे पूर्वे विपश्चितः ॥६९॥
तपसा विद्यया बुद्ध्या मन्त्रौषधिरसायनैः ॥
अतियाति परं मृत्युं न कश्चिदपि पंडितः ॥७०॥
एकस्याद्य मृतिर्जंतोः श्वश्चान्यस्य वरानने ॥
तस्मादनित्यावयवे न त्वं शोचितुमर्हसि ॥७१॥
नित्यं सन्निहितो मृत्युः किं सुखं वद देहिनाम् ॥
व्याघ्रे पुरः स्थिते ग्रासः पशूनां किं नु रोचते ॥७२॥
अतो जन्मजरां जेतुं यदीच्छसि वरानने ॥
शरणं व्रज सर्वेशं मृत्युंजयमुमापतिम् ॥७३॥
तावन्मृत्युभयं घोरं तावज्जन्मजराभयम् ॥
यावन्नो याति शरणं देही शिवपदांबुजम् ॥७४॥
अनुभूयेह दुःखानि संसारे भृशदारुणे ॥
मनो यदा वियुज्येत तदा ध्येयो महेश्वरः ॥७५॥
मनसा पिबतः पुंसः शिवध्यानरसामृतम् ॥
भूयस्तृष्णा न जायेत संसारविषयासवे ॥७६॥
विमुक्तं सर्वसंगैश्च मनो वैराग्ययंत्रितम् ॥
यदा शिवपदे मग्नं तदा नास्ति पुनर्भवः ॥७७॥
तस्मादिदं मनो भद्रे शिवध्यानैकसाधनम् ॥
शोकमोहसमाविष्टं मा कुरुष्व शिवं भज ॥७८॥
॥ सूत उवाच ॥
इत्थं सानुनयं राज्ञी बोधिता शिवयोगिना ॥
प्रत्याचष्ट गुरोस्तस्य प्रणम्य चरणां बुजम् ॥७९॥
॥ राज्ञ्युवाच ॥
भगवन्मृतपुत्रायास्त्यक्तायाः प्रियबन्धुभिः ॥
महारोगातुराया मे का गतिर्मरणं विना ॥८०॥
अतोऽहं मर्तुमिच्छामि सहैव शिशुनाऽमुना ॥
कृतार्थाहं यदद्य त्वामपश्यं मरणोन्मुखी ॥८१॥
॥ सूत उवाच ॥
इति तस्या वचः श्रुत्वा शिवयोगी दयानिधिः ॥
पूर्वोपकारं संस्मृत्य मृतस्यांतिकमाययौ ॥८२॥
स तदा भस्म संगृह्य शिवमन्त्राभिमंत्रितम् ॥
विदीर्णे तन्मुखे क्षिप्त्वा मृतं प्राणैरयोजयत् ॥८३॥
स बालः संगतः प्राणैः शनैरुन्मील्य लोचने ॥
प्राप्तपूर्वेन्द्रियबलो रुरोद स्तन्यकांक्षया ॥८४॥
मृतस्य पुनरुत्थानं वीक्ष्य बालस्य विस्मिताः ॥
जना मुमुदिरे सर्वे नगरेषु पुरोगमाः ॥८५॥
अथानंदभरा राज्ञी विह्वलोन्मत्तलोचना ॥
जग्राह तनयं शीघ्रं बाष्पव्याकुललोचना ॥८६॥
उपगुह्य तदा तन्वी परमानंदनिर्वृता ॥
न वेदात्मानमन्यं वा सुषुप्तेव परिश्रमात् ॥८७॥
पुनश्च ऋषभो योगी तयोर्मातृकुमारयोः ॥
विषव्रणयुतं देहं भस्मनैव परामृशत् ॥८८॥
तौ च तद्भस्मना स्पृष्टौ प्राप्तदिव्यकलेवरौ ॥
देवानां सदृशं रूपं दधतुः कांतिभूषितम्॥ ८९॥
संप्राप्ते त्रिदिवैश्वर्ये यत्सुखं पुण्यकर्मणाम् ॥
तस्माच्छतगुणं प्राप सा राज्ञी सुखमुत्तमम् ॥९०॥
तां पादयोर्निपतितामृषभः प्रेमविह्वलः ॥
उत्थाप्याश्वासयामास दुःखैर्मुक्तामुवाच ह ॥९१॥
अयि वत्से महाराज्ञि जीवत्वं शाश्वतीः समाः ॥
यावज्जीवसि लोकेस्मिन्न तावत्प्राप्स्यसे जराम् ॥९२॥
एष ते तनयः साध्वि भद्रायुरिति नामतः ॥
ख्यातिं यास्यति लोकेषु निजं राज्यमवाप्स्यति ॥९३॥
अस्य वैश्यस्य सदने तावत्तिष्ठ शुचिस्मिते ॥
यावदेष कुमारस्ते प्राप्तविद्यो भविष्यति ॥९४॥
सूत उवाच॥ ॥
इति तामृषभो योगी तं च राजकुमारकम् ॥
संजीव्य भस्मवीर्येण ययौ देशान्यथेप्सितान्॥ ९५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्राय्वाख्याने ऋषभयोगिना भद्रायुजीवनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP