ब्रह्मोत्तर खण्डः - अध्याय ७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
इत्युक्ता मुनिना साध्वी सा विप्रवनिता पुनः ॥
तं प्रणम्याथ पप्रच्छ शिवपूजाविधेः क्रमम् ॥१॥
॥ शांडिल्य उवाच ॥
पक्षद्वये त्रयोदश्यां निराहारो भवेद्यदा ॥
घटीत्रयादस्तमयात्पूर्वं स्नानं समाचरेत् ॥२॥
शुक्लांबरधरो धीरो वाग्यतो नियमान्वितः॥
कृतसंध्याजपविधिः शिवपूजां समारभेत् ॥३॥
देवस्य पुरतः सम्यगुपलिप्य नवांभसा ॥
विधाय मंडलं रम्यं धौतवस्त्रादिभिर्बुधः ॥४॥
वितानाद्यैरलंकृत्य फलपुष्पनवांकुरैः ॥
विचित्रपद्ममुद्धृत्य वर्णपंचकसंयुतम् ॥५॥
तत्रोपविश्य सुशुभे भक्तियुक्तः स्थिरासने ॥
सम्यक्संपादिताशेष पूजोपकरणः शुचिः ॥६॥
आगमोक्तेन मंत्रेण पीठमामंत्रयेत्सुधीः ॥
ततः कृत्वात्मशुद्धिं च भूतशुद्ध्यादिकं क्रमात् ॥७॥
प्राणायामत्रयं कृत्वा बीजवर्णैः सबिंदुकैः ॥
मातृका न्यस्य विधिवद्ध्यात्वा तां देवतां पराम् ॥८॥
समाप्य मातृका भूयो ध्यात्वा चैव परं शिवम् ॥
वामभागे गुरुं नत्वा दक्षिणे गणपं नमेत् ॥९॥
अंसोरुयुग्मे धर्मादीन्न्यस्य नाभौ च पार्श्वयोः ॥
अधर्मादीननंतादीन्हृदि पीठे मनुं न्यसेत् ॥१०॥
आधारशक्तिमारभ्य ज्ञानात्मानमनुक्रमात् ॥
उक्तक्रमेण विन्यस्य हृत्पद्मे साधुभाविते ॥११॥
नवशक्तिमये रम्ये ध्यायेद्देवमुमापतिम्॥
चन्द्रकोटिप्रतीकाशं त्रिनेत्रं चन्द्रशेखरम् ॥१२॥
आपिंगलजटाजूटं रत्नमौलिविराजितम् ॥
नीलग्रीवमुदारांगं नागहारोपशोभितम् ॥१३॥
वरदाभयहस्तं च धारिणं च परश्वधम् ॥
दधानं नागवलयकेयूरांगदमुद्रिकम् ॥१४॥
व्याघ्रचर्मपरीधानं रत्नसिंहासने स्थितम् ॥
ध्यात्वा तद्वाम भागे च चिंतयेद्गिरिकन्यकाम् ॥१५॥
भास्वज्जपाप्रसूनाभामुदयार्कसमप्रभाम् ॥
विद्युत्पुंजनिभां तन्वीं मनोनयननंदिनीम् ॥१६॥
बालेंदु शेखरां स्निग्धां नीलकुंचितकुन्तलाम् ॥
भृंगसंघातरुचिरां नीलालकविराजिताम् ॥१७॥
मणिकुंडलविद्योतन्मुखमंडलविभ्रमाम् ॥
नवकुम्कुमपंकांक कपोलदलदर्पणाम् ॥१८॥
मधुरस्मितविभ्राजदरुणाधरपल्लवाम् ॥
कंबुकंठीं शिवामुद्यत्कुचपंकजकुड्मलाम् ॥१९॥
पाशांकुशाभयाभीष्टविल सत्सु चतुर्भुजाम् ॥
अनेकरत्नविलसत्कंकणांकितमुद्रिकाम् ॥२०॥
वलित्रयेण विलसद्धेमकांचीगुणान्विताम् ॥
रक्तमाल्यांबरधरां दिव्यचंदनच र्चिताम् ॥२१॥
दिक्पालवनितामौलिसन्नतांघ्रिसरोरुहाम् ॥
रत्नसिंहासनारूढां सर्पराजपरिच्छदाम् ॥२१॥
एवं ध्यात्वा महादेवं देवीं च गिरि कन्यकाम् ॥
न्यासक्रमेण संपूज्य देवं गंधादिभिः क्रमात् ॥२३॥
पंचभिर्ब्रह्मभिः कुर्यात्प्रोक्तस्थानेषु वा हृदि ॥
पृथक्पुष्पांजलिं देहे मूलेन च हदि त्रिधा ॥२४॥
पुनः स्वयं शिवो भूत्वा मूलमंत्रेण साधकः ॥
ततः संपूजयेद्देवं बाह्यपीठे पुनः क्रमात् ॥२५॥
संकल्पं प्रवदेत्तत्र पूजारंभे समाहितः ॥
कृतांजलिपुटो भूत्वा चिंतयेद्धृदि शंकरम् ॥२६॥
ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये ॥
अशेषाघविनाशाय प्रसीद मम शंकर ॥२७॥
दुःखशोकाग्निसंतप्तं संसारभयपीडितम् ॥
बहुरोगाकुलं दीनं त्राहि मां वृषवाहन ॥२८॥
आगच्छ देवदेवेश महादेवाभयंकर ॥
गृहाण सह पार्वत्या तव पूजां मया कृताम् ॥२९॥
इति संकल्प्य विधिवद्ब्राह्मपूजां समाचरेत् ॥
गुरुं गणपतिं चैव यजेत्सव्यापसव्ययोः ॥३०॥
क्षेत्रेशमीशकोणे तु यजेद्वास्तोष्पतिं क्रमात् ॥
वाग्देवीं च यजेत्तत्र ततः कात्यायनीं यजेत् ॥३१॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च नमोंऽतकैः ॥
स्वरैरीशादिकोणेषु पीठपादाननुक्रमात् ॥
आभ्यां बिंदुविसर्गाभ्यामधर्मादीन्प्रपूजयेत् ॥३२॥
सत्त्वरूपैश्चतुर्दिक्षु मध्येऽनंतं सतारकम् ॥
सत्त्वादींस्त्रिगुणांस्तं तु रूपान्पीठेषु विन्यसेत् ॥३३॥
अत ऊर्ध्वच्छदे मायां सह लक्ष्म्या शिवेन च ॥३४॥
तदंते चांबुजं भूयः सकलं मंडलत्रयम् ॥
पत्रकेसरकिंजल्कव्याप्तं ताराक्षरैः क्रमात् ॥३५॥
पद्मत्रयं तथाभ्यर्च्य मध्ये मंडलमादरात् ॥
वामां ज्येष्ठां च रौद्रीं च भागाद्यैर्दिक्षु पूजयेत् ॥३६॥
वामाद्या नव शक्तीश्च नवस्वरयुता यजेत् ॥
हृदि बीजत्रयाद्येन पीठमंत्रेण चार्चयेत् ॥३७॥
आवृत्तैः प्रथमांगैश्च पंचभिर्मूर्त्तिशक्तिभिः ॥
त्रिशक्तिमूर्त्तिभिश्चान्यैर्निधिद्वयसमन्वितैः ॥३८॥
अनंताद्यैः परीताश्च मातृभिश्च वृषादिभिः ॥
सिद्धिभिश्चाणिमाद्याभिरिंद्राद्यैश्च सहायुधैः ॥३९॥
वृषभक्षेत्रचंडेशदुर्गाश्च स्कंदनंदिनौ ॥
गणेशः सैन्यपश्चैव स्वस्वलक्षणलक्षिताः ॥४०॥
अणिमा महिमा चैव गरिमा लघिमा तथा ॥
ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ॥४१॥
अष्टैश्वर्याणि चोक्तानि तेजोरूपाणि केवलम् ॥
पंचभिर्ब्रह्मभिः पूर्वं हृल्लेखाद्यादिभिः क्रमात ॥४२॥
अंगैरुमाद्यैरिंद्राद्यैः पूजोक्ता मुनिभिस्तु तैः ॥
उमाचंडेश्वरादींश्च पूजयेदुत्तरादितः ॥४३॥
एवमावरणैर्युक्तं तेजोरूपं सदाशिवम् ॥
उमया सहितं देवमुपचारैः प्रपूजयेत् ॥४४॥
सुप्रतिष्ठितशंखस्य तीर्थैः पंचामृतैरपि ॥
अभिषिच्य महादेवं रुद्रसूक्तैः समाहितः ॥४५॥
कल्पयेद्विविधैर्मंत्रैरासनाद्युपचारकान्॥
आसनं कल्पयेद्धैमं दिव्यवस्त्रसमन्वितम् ॥४६॥
अर्घ्यमष्टगुणोपेतं पाद्यशुद्धोदकेन च ॥
तेनैवाचमनं दद्यान्मधुपर्कं मधूत्तरम् ॥४७॥
पुनराचमनं दत्त्वा स्नानं मंत्रै प्रकल्पयेत् ॥
उपवीतं तथा वासो भूषणानि निवेदयेत् ॥
गंधमष्टांगसंयुक्तं सुपूतं विनिवेदयेत् ॥४८॥
ततश्च बिल्वमंदारकह्लारसरसीरुहम् ॥
धत्तूरकं कर्णिकारं शणपुष्पं च मल्लिकाम् ॥४९॥
कुशापामार्गतुलसीमाधवीचंपकादिकम् ॥
बृहतीकरवीराणि यथालब्धानि साधकः ॥५०॥
निवेदयेत्सुगंधीनि माल्यानि विविधानि च ॥
धूपं कालागरूत्पन्नं दीपं च विमलं शुभम् ॥५१॥
विशेषकम् ॥
अथ पायसनैवेद्यं सघृतं सोपदंशकम् ॥
मोदकापूपसंयुक्तं शर्करागुडसंयुतम् ॥५२॥
मधुनाक्तं दधियुतं जलपानसमन्वितम् ॥
तेनैव हविषा वह्नौ जुहुयान्मंत्रभाविते ॥५३॥
आगमोक्तेन विधिना गुरुवाक्यनियंत्रितः ॥
नैवेद्यं शंभवे भूयो दत्त्वा तांबूलमुत्तमम् ॥५४॥
धूपं नीराजनं रम्यं छत्रं दर्पणमुत्तमम् ॥
समर्पयित्वा विधिवन्मंत्रैर्वेदिकतांत्रिकैः ॥५५॥
यद्यशक्तः स्वयं निःस्वो यथाविभवमर्चयेत् ॥
भक्त्त्या दत्तेन गौरीशः पुष्पमात्रेण तुष्यति ॥५६॥
अथांगभूतान्सकलान्गणेशादीन्प्रपूजयेत् ॥
स्तवैर्नानाविधैः स्तुत्वा साष्टांगं प्रणमेद्बुधः ॥५७॥
ततः प्रदक्षिणीकृत्य वृषचंडेश्वरादिकान् ॥
पूजां समर्प्य विधिवत्प्रार्थयेद्गिरिजापतिम् ॥५८॥
जय देव जगन्नाथ जय शंकर शाश्वत ॥
जय सर्व सुराध्यक्ष जय सर्वसुरार्चित ॥५९॥
जय सर्वगुणातीत जय सर्ववरप्रद ॥
जय नित्य निराधार जय विश्वंभराव्यय ॥६०॥
जय विश्वैकवेद्येश जय नागेंद्रभूषण ॥
जय गौरीपते शंभो जय चंद्रार्धशेखर ॥६१॥
जय कोट्यर्कसंकाश जयानंतगुणाश्रय ॥६२॥
जय रुद्र विरूपाक्ष जयाचिंत्य निरंजन ॥
जय नाथ कृपासिंधो जय भक्तार्तिभञ्जन ॥
जय दुस्तरसंसारसागरोत्तारण प्रभो ॥६३॥
प्रसीद मे महादेव संसारार्त्तस्य खिद्यतः ॥
सर्वपापभयं हृत्वा रक्ष मां परमेश्वर ॥६४॥
महादारिद्र्यमग्नस्य महापापहतस्य च ॥
महाशोकविनष्टस्य महारोगातुरस्य च ॥६५॥
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥
ग्रहैः प्रपीड्यमानस्य प्रसीद मम शंकर ॥६६॥
दरिद्रः प्रार्थयेदेवं पूजांते गिरिजापतिम् ॥
अर्थाढ्यो वापि राजा वा प्रार्थयेद्देवमीश्वरम् ॥६७॥
दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ॥
ममास्तु नित्यमानन्दः प्रसादात्तव शंकर ॥६८॥
शत्रवः संक्षयं यांतु प्रसीदन्तु मम ग्रहाः ॥
नश्यन्तु दस्यवो राष्ट्रे जनाः संतु निरापदः ॥६९॥
दुर्भिक्षमारीसंतापाः शमं यांतु महीतले ॥
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥७०॥
एवमाराधयेद्देवं प्रदोषे गिरिजापतिम् ॥
ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥७१॥
सर्वपापक्षयकरी सर्वदारिद्र्यनाशिनी ॥
शिवपूजा मया ख्याता सर्वाभीष्टवरप्रदा ॥७२॥
महापातकसंघातमधिकं चोपपातकम् ॥
शिवद्रव्यापहरणादन्यत्सर्वं निवारयेत् ॥७३॥
ब्रह्महत्यादिपापानां पुराणेषु स्मृतिष्वपि ॥
प्रायश्चित्तानि दृष्टानि न शिवद्रव्यहारिणाम् ॥७४॥
बहुनात्र किमुक्तेन श्लोकार्धेन ब्रवीम्यहम् ॥
ब्रह्महत्याशतं वापि शिवपूजा विनाशयेत् ॥७५॥
मया कथितमेतत्ते प्रदोषे शिवपूजनम् ॥
रहस्यं सर्वजंतूनामत्र नास्त्येव संशयः ॥७६॥
एताभ्यामपि बालाभ्यामेवं पूजा विधीयताम् ॥
अतः संवत्सरादेव परां सिद्धिमवाप्स्यथ ॥७७॥
इति शांडिल्यवचनमाकर्ण्य द्विजभामिनी ॥
ताभ्यां तु सह बालाभ्यां प्रणनाम मुनेः पदम् ॥७८॥
॥ विप्रस्त्र्युवाच ॥
अहमद्य कृतार्थास्मि तव दर्शनमात्रतः ॥
एतौ कुमारौ भगवंस्त्वामेव शरणं गतौ ॥७९॥
एष मे तनयो ब्रह्मञ्छुचिव्रत इतीरितः ॥
एष राजसुतो नाम्ना धर्मगुप्तः कृतो मया ॥८०॥
एतावहं च भगवन्भवच्चरणकिंकराः ॥
समुद्धरास्मिन्पतितान्घोरे दारिद्र्यसागरे ॥८१॥
इति प्रपन्नां शरणं द्विजांगनामाश्वास्य वाक्यैरमृतोपमानैः ॥
उपादिदेशाथ तयोः कुमारयोर्मुनिः शिवाराधनमंत्र विद्याम् ॥८२॥
अथोपदिष्टौ मुनिना कुमारौ ब्राह्मणी च सा ॥
तं प्रणम्य समामंत्र्य जग्मुस्ते शिवमंदिरात् ॥८३॥
ततः प्रभृति तौ बालौ मुनिवर्योपदेशतः ॥
प्रदोषे पार्वतीशस्य पूजां चक्रतुरंजसा ॥८४॥
एवं पूजयतोर्देवं द्विजराजकुमारयोः ॥
सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ॥८५॥
कदाचिद्राजपुत्रेण विनासौ द्विजनंदनः ॥
स्नातुं गतो नदीतीरे चचार बहुलीलया ॥८६॥
तत्र निर्झरनिर्घातनिर्भिन्ने वप्र कुट्टिमे ॥
निधानकलशं स्थूलं प्रस्फुरंतं ददर्श ह ॥८७॥
तं दृष्ट्वा सहसागत्य हर्षकौतुकविह्वलः ॥
दैवोपपन्नं मन्वानो गृहीत्वा शिरसा ययौ ॥८८॥
ससंभ्रमं समानीय निधाय कलशं बलात् ॥
निधाय भवनस्यांते मातरं समभाषत ॥८९॥
मातर्मातरिमं पश्य प्रसादं गिरिजापतेः ॥
निधानं कुम्भरूपेण दर्शितं करुणात्मना ॥९०॥
अथ सा विस्मिता साध्वी समाहूय नृपात्मजम् ॥
स्वपुत्रं प्रतिनंद्याह मानयन्ती शिवार्चनम् ॥९१॥
शृणुतां मे वचः पुत्रौ निधानकलशीमिमाम् ॥
समं विभज्य गृह्णीतं मम शासनगौरवात् ॥९२॥
इति मातुर्वचः श्रुत्वा तुतोष द्विज नंदनः ॥
प्रत्याह राजपुत्रस्तां विस्रब्धः शंकरार्चने ॥९३॥
मातस्तव सुतस्यैव सुकृतेन समागतम् ॥
नाहं ग्रहीतुमिच्छामि विभक्तं धनसंच यम् ॥९४॥
आत्मनः सुकृताल्लब्धं स्वयमेव भुनक्त्वसौ ॥
स एव भगवानीशः करिष्यति कृपां मयि ॥९५॥
एवमर्चयतोः शंभुं भूयोपि परया मुदा ॥
संवत्सरो व्यतीयाय तस्मिन्नेव गृहे तयोः ॥९६॥
अथैकदा राजसूनुः सह तेन द्विजन्मना ॥
वसंतसमये प्राप्ते विजहार वनां तरे ॥९७॥
अथ दूरं गतौ क्वापि वने द्विजनृपात्मजौ ॥
गन्धर्वकन्याः क्रीडंती शतशस्तावपश्यताम् ॥९८॥
ताः सर्वाश्चारुसर्वांग्यो विहरंत्यो मनोहरम् ॥
दृष्ट्वा द्विजात्मजो दूरादुवाच नृपनंदनम् ॥९९॥
इतः पुरो न गंतव्यं विहरंत्यग्रतः स्त्रियः॥
स्त्रीसंन्निधानं विबुधास्त्यजंति विमलाशयाः ॥१००॥
एताः कैतवकारिण्यो धनयौवनदुर्मदाः ।
मोहयन्त्यो जनं दृष्ट्वा वाचानुनयकोविदाः ॥१॥
अतः परित्यजेत्त्स्त्रीणां सन्निधिं सहभाषणम् ।
निज़धर्मरतो विद्वन्ब्रह्मचारी विशेषतः ॥३॥
अतोहं नोत्सहे गन्तुं क्रीडास्थानं मृगीदृशाम् ॥
इत्युक्त्वा द्विजपुत्रस्तु निवृत्तो दूरतः स्थितः ॥३॥
अथासौ राजपुत्रस्तु कौतुकाविष्टमानसः ॥
तासां विहारपदवीमेक एवाभयो ययौ ॥१॥
तत्र गंधर्वकन्यानां मध्ये त्वेका वरानना ॥
दृष्ट्वाऽऽयांतं राजपुत्रं चिंतयामास चेतसा ॥९॥
अहो कोयमुदारांगो युवा सर्वांगसुन्दरः ॥
मत्तमातंग गमनो लावण्यामृतवारिधिः ॥६॥
लीलालोलविशालाक्षी मधुरस्मितपेशलः ॥
मदनोपमरूपश्रीः सुकुमारांगलक्षणः ॥७॥
इत्याश्चर्ययुता बाला दूराद्दृष्ट्वा नृपात्मजम् ॥
सर्वाः सखीः समालोक्य वचनं चेदमब्रवीत् ॥८॥
इतो विदूरे हे सख्यो वनमस्त्येकमुत्तमम् ॥
विचित्रचंपकाशोकपुन्नागबकुलैर्युतम् ॥९॥
तत्र गत्वा वनं सर्वाः संचीय कुसुमोत्करम् ॥
भवत्यः पुनरायांतु तावत्तिष्ठाम्यहं त्विह ॥११०॥
इत्यादिष्टः सखीवर्गो जगाम विपिनांतरम् ॥
सापि गंधर्वजा तस्थौ न्यस्तदृष्टिर्नृपात्मजे ॥११॥
तां समालोक्य तन्वंगीं नवयौवनशालिनीम् ॥
बालां स्वरूपसंपत्त्या परैिभूततिलोत्तमाम् ॥१२॥
राजपुत्रः समागम्य कौतुकोत्फुल्ललोचनः ॥
अवाप दैवयोगेन मदनस्य शरव्यथाम् ॥१३॥
गन्धर्वतनया सापि प्राप्ताय नृपसूनवे ॥
उत्थाय तरसा तस्मै प्रददौ पल्लवासनम् ॥१४॥
कृतोपचारमासीनं तमासाद्य सुमध्यमा ॥
पप्रच्छ तद्रूपगुणैर्ध्वस्तधैर्याकुलेंद्रिया ॥१९ ।
कस्त्वं कमलपत्राक्ष कस्माद्देशादिहागतः ॥
कस्य पुत्र इति प्रेम्णा पृष्टः सर्वं न्यवेदयत् ॥१६॥
विदर्भ राजतनयं विध्वस्तपितृमातृकम् ॥
शत्रुभिश्च हृतस्थानमात्मानं परराष्ट्रगम् ॥१७॥
सर्वमावेद्य भूयस्तां पप्रच्छ नृपनंदनः ॥
का त्वं वामोरु किं चात्र कार्यं ते कस्य चात्मजा ॥१८॥
किमवध्यायसि हृदा किं वा वक्तुमिहेच्छसि ॥
इत्युक्ता सा पुनः प्राह शृणु राजेंद्रसत्तम ॥१९॥
अस्त्येको द्रविकोनाम गंधर्वाणां कुलाग्रणीः ॥
तस्याहमस्मि तनया नाम्ना चांशुमती स्मृता ॥१२०॥
त्वामायांतं विलोक्याहं त्वत्संभाषण लालसा ॥
त्यक्त्वा सखीजनं सर्वमेकैवास्मि महामते ॥२१॥
सर्वसंगीतविद्यासु न मत्तोऽन्यास्ति काचन ॥
मम योगेन तुष्यंति सर्वा अपि सुरस्त्रियः ॥२२॥
साहं सर्वकलाभिज्ञा ज्ञातसर्वजनेंगिता ॥
तवाहमीप्सितं वेद्मि मयि ते संगतं मनः ॥२३॥
तथा ममापि चौत्सुक्यं दैवेन प्रतिपादितम्॥
आवयोः स्नेहभेदोऽत्र नाभिभूयादितः परम् ॥२४॥
इति संभाष्य तेनाशु प्रेम्णा गन्धर्वनंदिनी ॥
मुक्ताहारं ददौ तस्मै स्वकुचांतरभूषणम्॥ २५॥
तमादायाद्भुतं हारं स तस्याः प्रणयाकुलः ॥
गाढहर्षभरोत्सिक्तामिदमाह नृपात्मजः ॥२६॥
सत्यमुक्तं त्वया भीरु तथाप्येकं वदाम्यहम् ॥
त्यक्तराज्यस्य निःस्वस्य कथं मे भवसि प्रिया ॥२७॥
सा त्वं पितृमती बाला विलंघ्य पितृशासनम् ॥
स्वच्छंदा चरणं कर्तुं मूढेव कथमर्हसि ॥२८॥
इति तस्य वचः श्रुत्वा तं प्रत्याह शुचिस्मिता ॥
अस्तु नाम तथैवाहं करिष्ये पश्य कौतुकम् ॥२९॥
गच्छ स्वभवनं कांत परश्वः प्रातरेव तु ॥
आगच्छ पुनरत्रैव कार्यमस्ति च नो मृषा ॥१३०॥
इत्युक्त्वा तं नृपसुतं सा संगतसखीजना ॥
अपाक्रामत चार्वंगी स चापि नृपनन्दनः ॥३१॥
स समभ्येत्य हर्षेण द्विजपुत्रस्य सन्निधिम् ॥
सर्वमाख्याय तेनैव सार्धं स्वभवनं ययौ ॥३२॥
तां च विप्रसतीं भूयो हर्षयित्वा नृपात्मजः ॥
परश्वो द्विजपुत्रेण सार्धं तेन वनं ययौ ॥३३॥
स तया पूर्वनिर्दिष्टं स्थानं प्राप्य नृपात्मजः ॥
गन्धर्वराजमद्राक्षीत्स्वदुहित्रा समन्वितम् ॥३४॥
स गंधर्वपतिः प्राप्तावभिनंद्य कुमारकौ ॥
उपवेश्यासने रम्ये राजपुत्रमभाषत ॥३५॥
॥ गंधर्व उवाच ॥
राजेंद्रपुत्र पूर्वेद्युः कैलासं गतवानहम् ॥
तत्रापश्यं महादेवं पार्वत्या सहितं प्रभुम् ॥३६॥
आहूय मां स देवेशः सर्वेषां त्रिदिवौकसाम् ॥
सन्निधावाह भगवान्करुणामृतवारिधिः । ३७॥
धर्मगुप्ताह्वयः कश्चिद्राजपुत्रोऽस्ति भूतले ॥
अकिञ्चनो भ्रष्टराज्यो हृतदेशश्च शत्रुभिः ॥३८॥
स बालो गुरुवाक्येन मदर्च्चायां रतः सदा ॥
अद्य तत्पितरः सर्वे मां प्राप्तास्तत्प्रभावतः ॥३९॥
तस्य त्वमपि साहाय्यं कुरु गन्धर्वसत्तम ॥
अथासौ निजराज्यस्थो हतशत्रुर्भविष्यति ॥१४०॥
इत्याज्ञप्तो महेशेन संप्राप्तो निजमदिरम् ॥
अनया मद्दुहित्रा च बहुशोऽभ्यर्थितस्तथा ॥४१॥
ज्ञात्वेमं सकलं शंभोर्नियोगं करुणात्मनः ॥
आदायेमां दुहितरं प्राप्तोऽस्मीदं वनांतरम् ॥४२॥
अत एनां प्रयच्छामि कन्यामंशुमतीं तव ॥
हत्वा शत्रून्स्वराष्टे त्वां स्थापयामि शिवाज्ञया ॥४३॥
तस्मिन्पुरे त्वमनया भुक्त्वा भोगान्यथेप्सितान्॥
दशवर्षसहस्रान्ते गन्तासि गिरिशालयम् ॥
तत्रापि मम कन्येयं त्वामेव प्रतिपत्स्यते ॥
अनेनैव स्वदेहेन दिव्येन शिवसन्निधौ ॥४५॥
इति गन्धर्वराजस्तमाभाष्य नृपनन्दनम् ॥
तस्मिन्वने स्वदुहितुः पाणिग्रहमकारयत् ॥४६॥
पारिबर्हमदात्तस्मै रत्नभारान्महोज्ज्वलान् ॥
चूडामणिं चन्द्रनिभं मुक्ताहारांश्च भासुरान्॥४७॥
दिव्यालंकारवासांसि कार्त्तस्वरपरिच्छदान् ॥
गजानामयुतं भूयो नियुतं नीलवाजिनाम्॥४८॥
स्यन्दनानां सहस्राणि सौवर्णानि महांति च ॥
पुनरेकं रथं दिव्यं धनुश्चेन्द्रायुधोपमम् ॥४९॥
अस्त्राणां च सहस्राणि तूणी चाक्षय्यसायकौ ॥
अभेद्यं वर्म सौवर्णं शक्तिं च रिपुमर्दिनीम् ॥१५०॥
दुहितुः परिचर्यार्थं दासीपञ्चसहस्रकम् ॥
ददौ प्रीतमनास्तस्मै धनानि विविधानि च ॥५१॥    ॥
गंधर्वसैन्यमत्युग्रं चतुरंगसममन्वितम् ॥
पुनश्च तत्सहायार्थे गन्धर्वाधिपतिर्ददौ ॥५२॥
इत्थं राजेन्द्रतनयः संप्राप्तः श्रियमुत्तमाम् ॥
अभीष्टजायासहितो मुमुदे निजसंपदा ॥५३॥
कारयित्वा स्वदुहितुर्विवाहं समयोचितम् ॥
ययौ विमानमारुह्य गंधर्वाधिपतिर्दिवम् ॥५४॥
धर्मगुप्तः कृतोद्वाहः सह गंधर्वसेनया ॥
पुनः स्वनगरं प्राप्य जघान रिपुवाहिनीम् ॥५५॥
दुर्धर्षणं रणे हत्वा शक्त्या गंधर्वसेनया ॥
निः शेषितारातिबलः प्रविवेश निजं पुरम् ॥५६॥
ततोभिषिक्तः सचिवैर्ब्राह्मणैश्च महोत्तमैः ॥
रत्नसिंहासनारूढश्चक्रे राज्यमकण्टकम् ॥५७॥
या विप्रवनिता पूर्वं तमपुष्णात्स्वपुत्रवत् ॥
सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ॥५८॥
गंधर्वतनया जाया विदर्भनगरेश्वरः ॥
आराध्य देवं गिरिशं धर्मगुप्तो नृपोऽभवत् ॥५९॥
एवमन्ये समाराध्य प्रदोषे गिरिजापतिम् ॥
लभंतेभीप्सितान्कामान्देहांते तु परां गतिम् ॥१६०॥
॥ सूत उवाच ॥
एतन्महाव्रतं पुण्यं प्रदोषे शंकरार्चनम् ॥
धर्मार्थकाममोक्षाणां यदेतत्साधनं परम् ॥६१॥
य एतच्छृणुयात्पुण्यं माहात्म्यं परमाद्भुतम् ॥
प्रदोषे शिवपूजांते कथयेद्वा समाहितः ॥६२॥
भवेन्न तस्य दारिद्र्यं जन्मान्तरशतेष्वपि ॥
ज्ञानैश्वर्यसमायुक्तः सोन्ते शिवपुरं व्रजेत् ॥६३॥
ये प्राप्य दुर्लभतरं मनुजाः शरीरं कुर्वंति हंत परमेश्वरपादपूजाम् ॥
धन्यास्त एव निजपुण्यजितत्रिलोकास्तेषां पदांबुजरजो भुवनं पुनाति ॥१६४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमहिमावर्णनं नाम सप्तमो ऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP