ब्रह्मोत्तर खण्डः - अध्याय २२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
एवं शिवतमः पंथाः शिवेनैव प्रदर्शितः ॥
नृणां संसृतिबद्धानां सद्योमुक्तिकरः परः ॥१॥
अथ दुर्मेधसां पुंसां वेदेष्वनधिकारिणाम् ॥
स्त्रीणां द्विजातिबंधूनां सर्वेषां च शरीरिणाम् ॥२॥
एष साधारणः पंथाः साक्षात्कैवल्यसाधनः ॥
महामुनिजनैः सेव्यो देवैरपि सुपूजितः ॥३॥
यत्कथाश्रवणं शंभोः संसारभयनाशनम् ॥
सद्योमुक्तिकरं श्लाघ्यं पवित्रं सर्वदेहिनाम् ॥४॥
अज्ञानतिमिरांधानां दीपोऽयं ज्ञानसिद्धिदः ॥
भवरोगनिबद्धानां सुसेव्यं परमौषधम् ॥५॥
महापातकशैलानां वज्रघातसुदारुणम् ॥
भर्जनं कर्मबीजानां साधनं सर्व संपदाम् ॥६॥
ये शृण्वंति सदा शम्भोः कथां भुवनपावनीम् ॥
ते वै मनुष्या लोकेस्मिन्रुद्रा एव न संशयः ॥७॥
शृण्वतां शूलिनो गाथां तथा कीर्तयतां सताम् ॥
तेषां पादरजांस्येव तीर्थानि मुनयो जगुः ॥८॥
तस्मान्निश्रेयसं गन्तुं येभिवांछंति देहिनः ॥
ते शृण्वंतु सदा भक्त्या शैवीं पौराणिकीं कथाम् ॥९॥
यद्यशक्तः सदा श्रोतुं कथां पौराणिकीं नरः ॥
मुहूर्तं वापि शृणुयान्नियतात्मा दिनेदिने ॥१०॥
अथ प्रतिदिनं श्रोतुमशक्तो यदि मानवः ॥
पुण्यमासेषु वा पुण्ये दिने पुण्यतिथिष्वपि ॥११॥
यः शृणोति कथां रम्यां पुराणैः समुदीरिताम् ॥
स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥१२॥
मुहूर्त्तं वा तदर्द्धं वा क्षणं वा पावनीं कथाम् ॥
ये शृण्वंति सदा भक्त्या न तेषामस्ति दुर्गतिः ॥१३॥
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥
सकृत्पुराणश्रवणात्तत्फलं विंदते नरः ॥१४॥
कलौ युगे विशेषेण पुराणश्रवणादृते ॥
नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ॥१५॥
पुराणश्रवणाच्छंभोर्नास्ति संकीर्तनं परम् ॥
अत एव मनुष्याणां कल्पद्रुममहाफलम् ॥१६॥
कलौ हीनायुषो मर्त्या दुर्बलाः श्रमपीडिताः ॥
दुर्मेधसो दुःखभाजो धर्माचारविवर्जिताः ॥१७॥
इति संचिंत्य कृपया भगवान्बादरायणः ॥
हिताय तेषां विदधे पुराणाख्यं सुधारसम् ॥१८॥
पिबन्नेवामृतं यत्नादेतत्स्यादजरामरः ॥
शम्भोः कथामृतं कुर्यात्कुलमेवाजरामरम् ॥१९॥
बालो युवा दरिद्रो वा वृद्धो वा दुर्बलोऽपि वा ॥
पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ॥२०॥
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ॥
यस्य वक्त्रांबुजाद्वाणी कामधेनुः शरीरिणाम् ॥२१॥
गुरवः संति लोकेषु जन्मतो गुणतस्तथा ॥
तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः ॥२२॥
भवकोटिसहस्रेषु भूत्वाभूत्वावसीदति ॥
यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः ॥२३॥
पुराणज्ञः शुचिर्दांतः शांतो विजितमत्सरः ॥
साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधी ॥२४॥
व्यासासनं समारूढो यदा पौराणिको द्विजः ॥
असमाप्तप्रसंगश्च नमस्कुर्यान्न कस्य चित् ॥२५॥
 ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ॥
तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ॥२६॥
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ॥२७॥
सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ॥
पुण्ये नदनदीतीरे वदेत्पुण्यकथां सुधीः ॥२८॥
शिवभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥
वाग्यताः सुश्रवोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥२९॥
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाधमाः ॥
तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ॥३०॥
पुराणं ये त्वसंपूज्य तांबूलाद्यैरुपायनैः ॥
शृण्वंति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ॥३१॥
कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ॥
भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः ॥३२॥
सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ॥
ते बलाकाः प्रजायन्ते पापिनो मनुजाधमाः ॥३३॥
तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ॥
स्वविष्ठां खादयंत्येतान्नरके यमकिंकराः ॥३४॥
ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः ॥
अक्षयान्नरकान्भुक्त्वा ते भवंत्येव वायसाः ॥३५॥
ये च वीरासनारूढा ये च मंचकसंस्थिताः ॥
शृण्वंति सत्कथां ते वै भवंत्यनृजुपादपाः ॥३६॥
असंप्रणम्य शृण्वंतो विषवृक्षा भवंति ते ॥
कथां शयानाः शृण्वन्तो भवंत्यजगरा नराः ॥३७॥
यः शृणोति कथां वक्तुः समानासनमाश्रितः ॥
गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत् ॥३८॥
ये निंदंति पुराणज्ञं कथां वा पापहारिणीम् ॥
ते वै जन्मशतं मर्त्याः शुनका संभवंति च ॥३९॥
कथायां वर्तमानायां ये वदंति नराधमाः ॥
ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥४०॥
कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ॥
ते भुक्त्वा नरकान्घोरान्भ वंति वनसूकराः ॥४१॥
ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ॥
अशृण्वंतोऽपि ते यांति शाश्वतं परमं पदम् ॥४२॥
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये शठाः ॥
कोट्यब्दान्नरकान्भुक्त्वा भवंति ग्रामसूकराः ॥४३॥
ये श्रावयंति मनुजान्पुण्यां पौराणिकीं कथाम् ॥
कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदम् ॥४४॥
आसनार्थं प्रयच्छंति पुराणज्ञस्य ये नराः ॥
कम्बलाजिनवासांसि मञ्चं फलकमेव च ॥४५॥
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥
स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम् ॥४६॥
पुराणज्ञस्य यच्छंति ये सूत्रवसनं नवम् ॥
भोगिनो ज्ञानसंपन्नास्ते भवंति भवेभवे ॥४७॥
ये महापातकैर्युक्ता उपपातकिनश्च ये ॥
पुराणश्रवणादेव ते यांति परमं पदम् ॥४८॥
अत्र वक्ष्ये महापुण्यमितिहासं द्विजोत्तमाः ॥
शृण्वतां सर्वपापघ्नं विचित्रं सुमनोहरम् ॥४९॥
दक्षिणापथमध्ये वै ग्रामो बाष्कलसंज्ञितः ॥
तत्र संति जनाः सर्वे मूढाः कर्मविवर्जिताः ॥५०॥
न तत्र ब्राह्मणाचाराः श्रुतिस्मृतिपराङ्मुखाः ॥
जपस्वाध्यायरहिताः परस्त्री विषयातुराः ॥५१॥
कृषीवलाः शस्त्रधरा निर्देवा जिह्मवृत्तयः ॥
न जानंति परं धर्मं ज्ञानवैराग्यलक्षणम् ॥५२॥
स्त्रियश्च पापनिरताः स्वैरि ण्यः कामलालसाः॥
दुर्बुद्धयः कुटिलगाः सद्गताचारवर्जिताः ॥५३॥
तत्रैको विदुरो नाम दुरात्मा ब्राह्मणाधमः ॥
आसीद्वेश्यापतिर्योऽसौ सदारोऽपि कुमार्गगः ॥५४॥
स्वपत्नीं बंदुलां नाम हित्वा प्रतिनिशं तथा ॥
वेश्याभवनमासाद्य रमते स्मरपीडितः ॥५५॥
सापि तस्यांगना रात्रौ वियुक्ता नवयौवना ॥
असहंती स्मरावेशं रेमे जारेण संगता ॥५६॥
तां कदाचिद्दुराचारां जारेण सह संगताम् ॥
दृष्ट्वा तस्याः पतिः क्रोधादभि दुद्राव सत्वरः ॥५७॥
जारे पलायिते पत्नीं गृहीत्वा स दुराशयः ॥
संताड्य मुष्टिबंधेन मुहुर्मुहुरताडयत् ॥५८॥
सा नारी पीडिता भर्त्रा कुपिता प्राह निर्भया ॥
भवान्प्रतिनिशं वेश्यां रमते का गतिर्मम ॥५९॥
अहं रूपवती योषा नवयौवनशालिनी ॥
कथं सहिष्ये कामार्ता तव संगतिवर्जिता ॥६०॥
इत्युक्तः स तया तन्व्या प्रोवाच ब्राह्मणाधमः ॥
युक्तमेव त्वयोक्तं हि तस्माद्वक्ष्यामि ते हितम् ॥६१॥
जारेभ्यो धनमाकृष्य तेभ्यो देहि परां रतिम् ॥
तद्धनं देहि मे सर्वं पण्यस्त्रीणां ददामि तत् ॥६२॥
एवं संपूर्यते कामो ममापि च वरानने ॥
तथेति भर्तृवचनं प्रतिजग्राह सा वधूः ॥६३॥
एवं तयोस्तु दंपत्योर्दुराचारप्रवृत्तयोः ॥
कालेन निधनंप्राप्तः स विप्रो वृषलीपतिः ॥६४॥
मृते भर्तरि सा नारी पुत्रैः सह निजालये ॥
उवास सुचिरं कालं किंचिदुत्क्रांतयौवना ॥६५॥
एकदा दैवयोगेन संप्राप्ते पुण्यपर्वणि ॥
सा नारी बंधुभिः सार्धं गोकर्णं क्षेत्र माययौ ॥६६॥
तत्र तीर्थजले स्नात्वा कस्मिंश्चिद्देवतालये ॥
शुश्राव देवमुख्यानां पुण्यां पौराणिकीं कथाम् ॥६७॥
योषितां जारसक्तानां नरके यमकिंकराः ॥
संतप्तलोहपरिघं क्षिपंति स्मरमंदिरे ॥६८॥
इति पौराणिकेनोक्तां सा श्रुत्वा धर्मसंहिताम् ॥
तमुवाच रहस्येषा भीता ब्राह्मणपुंगवम् ॥६९॥
ब्रह्मन्पापमजानंत्या मयाचरितमुल्बणम् ॥
यौवने कामचारेण कौटिल्येन प्रवर्तितम् ॥७०॥
इदं त्वद्वचनं श्रुत्वापुराणार्थविजृंभि तम् ॥
भीतिर्मे महती जाता शरीरं वेपते मुहुः ॥७१॥
धिङ्मां दुरिंद्रियासक्तां पापां स्मरविमोहिताम् ॥
अल्पस्य यत्सुखस्यार्थे घोरां यास्यामि दुर्गतिम् ॥७२॥
कथं पश्यामि मरणे यमदूतान्भयंकरान् ॥
कथं पाशैर्बलात्कंठे बध्यमाना धृतिं लभे ॥७३॥
कथं सहिष्ये नरके खंडशो देहकृंतनम ॥
पुनः कथं पतिष्यामि संतप्ता क्षारकर्दमे ॥७४॥
कथं च योनिलक्षेषु क्रिमिकीटखगादिषु ॥
परिभ्रमामि दुःखौघात्पीड्यमाना निरंतरम् ॥७५॥
 कथं च रोचते मह्यमद्यप्रभृति भोजनम् ॥
रात्रौ कथं च सेविष्ये निद्रां दुःखपरिप्लुता ॥७६॥
हाहा हतास्मि दग्धास्मि विदीर्णहृदयास्मि च ॥
हा विधे मां महापापे दत्त्वा बुद्धिमपातयः ॥७७॥
पततस्तुंगशैलाग्राच्छूलाक्रांतस्य देहिनः ॥
यद्दुःखं जायते घोरं तस्मात्कोटिगुणं मम ॥७८॥
अश्वमेधायुतं कृत्वा गंगां स्नात्वा शतं समाः ॥
न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥७९॥
किं करोमि क्व गच्छामि कं वा शरणमाश्रये ॥
को वा मां त्रायते लोके पतंती नरकार्णवे ॥८०॥
त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पितासि च ॥
उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥८१॥
इति तां जातनिर्वेदां पतितां चरणद्वये ॥
उत्थाप्य कृपया धीमान्बभाषे द्विजपुंगवः ॥८२॥
॥ ब्राह्मण उवाच ॥
दिष्ट्या काले प्रबुद्धासि श्रुत्वेमां महतीं कथाम् ॥
मा भैषीस्तव वक्ष्यामि गतिं चैव सुखावहाम् ॥८३॥
सत्कथाश्रवणादेव जाता ते मतिरीदृशी ॥
इंद्रियार्थेषु वैराग्यं पश्चात्तापो महानभूत् ॥८४॥
पश्चात्तापो हि सर्वेषामघानां निष्कृतिः परा ॥
तेनैव कुरुते सद्यः प्रायश्चित्तं सुधीर्नरः ॥८५॥
प्रायश्चित्तानि सर्वाणि कृत्वा च विधिवत्पुनः ॥
अपश्चात्तापिनो नार्या न यांति गतिमुत्तमाम् ॥८६॥
सत्कथाश्रवणान्नित्यं संयाति परमां गतिम् ॥
पुण्यक्षेत्रनिवासाच्च चित्तशुद्धिः प्रजायते ॥८७॥
यथा सत्कथया नित्यं संयाति परमां गतिम् ॥
तथान्यैः सद्व्रतैर्जंतोर्नभवेन्मतिरुत्तमा ॥८८॥
यथा मुहुः शोध्यमानो दर्पणो निर्मलो भवेत् ॥
तथा सत्कथया चेतो विशुद्धिं परमां व्रजेत् ॥८९॥
विशुद्धे चेतसि नृणां ध्यानं सिध्यत्युमापतेः ॥
ध्यानेन सर्वं मलिनं मनोवाक्कायसंभृतम् ॥९०॥
सद्यो विधूय कृतिनो यांति शम्भोः परं पदम् ॥
अतः संन्यस्तपुण्यानां सत्कथा साधनं परम् ॥९१॥
कथया सिध्यति ध्यानं ध्यानात्कैवल्यमुत्तमम् ॥
असिद्धपरमध्यानः कथामेतां शृणोति यः ॥
सोऽन्यजन्मनि संप्राप्य ध्यानं याति परां गतिम् ॥९२॥
नामोच्चारणमात्रेण जप्त्वा मंत्रमजामिलः ॥
पश्चात्तापसमायुक्तस्त्ववाप परमां गतिम् ॥९३॥
सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् ॥
यस्तद्विहीनः स पशुः कथं मुच्येत बन्धनात् ॥९४॥
अतस्त्वमपि सर्वेभ्यो विषयेभ्यो निवृत्तधीः ॥
भक्तिं परां समाधाय सत्कथां शृणु सर्वदा ॥
शृण्वंत्याः सत्कथां नित्यं चेतस्ते शुद्धिमेष्यति ॥९५॥
तेन ध्यायसि विश्वेशं ततो मुक्तिमवाप्स्यसि ॥
ध्यायतः शिवपादाब्जं मुक्तिरेकेन जन्मना ॥९६॥
भविष्यति न सन्देहः सत्यं सत्यं वदाम्यहम् ॥
इत्युक्ता तेन विप्रेण सा नारी बाष्पसंकुला ॥९७॥
पतित्वा पादयोस्तस्य कृतार्थास्मीत्यभाषत ॥
तस्मिन्नेव महाक्षेत्रे तस्मादेव द्विजोत्तमात् ॥९८॥
शुश्राव सत्कथां साध्वीं कैवल्यफल दायिनी॥
स उवाच द्विजस्तस्यै कथां वैराग्यबृंहिताम् ॥९९॥
यां श्रुत्वा मनुजः सद्यस्त्यजेद्विषयवासनाम् ॥
तस्याश्चित्तं यथा शुद्धं वैराग्यरसगं यथा ॥१००॥
तथोवाच द्विजः शैवीं कथां भक्तिसमन्विताम् ॥
यथायथा मनस्तस्याः प्रसादमभिगच्छति ॥
तथातथा शनैः शंभोर्ध्यानयोगमुपादिशत् ॥१॥
शनैः शनैर्ध्वस्तरजस्तमोमलं विमुक्तसर्वेन्द्रियभोगविग्रहम् ॥
विशुद्धतत्त्वं हृदयं द्विजस्त्रिया विवेश विश्वेश्वर रूपचिंतनम्॥ २॥
इत्थं सद्गुरुमाश्रित्य सा नारी प्राप्तसन्मतिः ॥
दध्यौ मुहुर्मुहुः शंभोश्चिदानंदमयं वपुः ॥३॥
नित्यं तीर्थजले स्नात्वा जटावल्कलधारिणी ॥
भस्मोद्धूलितसर्वांगी रुद्राक्षकृतभूषणा ॥४॥
शिवनामजपासक्ता वाग्यता मितभोजना ॥
बद्धपद्मासनाऽव्यग्रा सत्कथा श्रवणोत्सुका ॥५॥
गुरुशुश्रूषणरता त्यक्तापत्यसुहृजना ॥
गुरूपदिष्टयोगेन शिवमेवमतोषयत् ॥६॥
विश्वेश विश्वविलयस्थितिजन्महेतो विश्वैकवंद्य शिव शाश्वत विश्वरूप ॥
विध्वस्तकालविपरीतगुणावभास श्रीमन्महेश मयि धेहि कृपाकटाक्षम् ॥७॥
शंभो शशांककृतशेखर शांतमूर्ते गंगाधरामरवरार्चितपादपद्म ॥
नागेंद्रभूषण नगेंद्रनिकेतनेश भक्तार्तिहन्मयि निधेहि कृपाकटाक्षम् ॥८॥
श्रीविश्वनाथ करुणाकर शूलपाणे भूतेश भर्ग भुवनत्रयगीतकीर्ते ॥
श्रीनीलकण्ठ मदनान्तक विश्वमूर्ते गौरीपते मयि निधेहि कृपाकटाक्षम् ॥९॥
इत्थं प्रतिदिनं भक्त्या प्रार्थयंती महेश्वरम्॥
शृण्वंती सत्कथां सम्यक्कर्मबंधं समाच्छिनत् ॥११०॥
अथ कालेन सा नारी समुत्सृज्य कलेवरम् ॥
महेशानुचरैर्नीता संप्राप्ता शिव मंदिरम् ॥११॥
तत्र देवैर्महादेवं सेव्यमानं सहोमया ॥
गणेशनंदिभृंग्याद्यैर्वीरभद्रेश्वरादिभिः ॥१२॥
उपास्यमानं गौरीशं कोटिसूर्यसमप्रभम् ॥
त्रिलोचनं पंचमुखं नीलग्रीवं सदाशिवम् ॥१३॥
वामांके बिभ्रतं गौरीं विद्युच्चंद्रसमप्रभाम् ॥
दृष्ट्वा ससंभ्रमं नारी सा प्रणम्य पुनःपुनः ॥१४॥
आनन्दाश्रुजलोत्सिक्ता रोमहर्षसमाकुला ॥
संमानिता करुणया पार्वत्या शंकरेण च ॥१५॥
तस्मिँल्लोके परानन्दघनज्योतिषि शाश्वते ॥
लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ॥१६॥
सा कदाचिदुमां देवीमुपसृत्य प्रणम्य च ॥
पर्यपृच्छत मे भर्त्ता कां गतिं गतवानिति ॥१७॥
तामुवाच महादेवी स ते भर्त्ता दुराशयः ॥
भुक्त्वा नरकदुःखानि विंध्ये जातः पिशाचकः ॥१८॥
पुनः प्रपच्छ सा नारी देवीं त्रिभुवनेश्वरीम् ॥
केनोपायेन मे भर्त्ता सद्गतिं प्राप्नुयादिति ॥१९॥
॥ देव्युवाच ॥
सोऽस्मत्कथां महापुण्यां कदाचिच्छृणुयाद्यदि ॥
निस्तीर्य दुर्गतिं सर्वामिमं लोकं प्रयास्यति ॥१२०॥
इति गौर्या वचः श्रुत्वा सा नारी विहितांजलिः ॥
प्रार्थयामास तां देवीं भर्तुः पापविशोधने ॥२१॥
तया मुहुः प्रार्थ्यमाना पार्वतीकरुणायुता ॥
तुंबुरुं नाम गंधर्वमाहूयेदमथाब्रवीत् ॥२२॥
तुंबुरो गच्छ भद्रं ते विंध्यशैलं सहानया ॥
आस्ते पिशाचकस्तत्र योऽस्याः पतिरसन्मतिः ॥२३॥
तस्याग्रे परमां पुण्यां कथामस्मद्गुणैर्युताम् ॥
आख्याय दुर्गतेर्मुक्तं तमानय शिवांतिकम् ॥२४॥
इति देव्या समादिष्टस्तुंबुरुस्तां प्रणम्य च ॥
तया सह विमानेन विंध्याद्रिं सहसा ययौ ॥२५॥
तत्रापश्यन्महाकायं रक्तनेत्रं महाहनुम् ॥
प्रहसंतं रुदंतं च वल्गंतं च पिशाचकम्॥ २६॥
बलाद्गृहीत्वा तं पाशैर्बद्ध्वा वै संनिवेश्य च ॥
तुंबुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥२७॥
स पिशाचो महापुण्यां कथां श्रुत्वा पुरद्विषः ॥
विधूय कलुषं सर्वं सप्ताहात्प्राप संस्मृतिम् ॥२८॥
स पैशाचं वपुस्त्यक्त्वा स्वरूपं दिव्यमाप्य च ॥
जगौ स्वयमपि श्रीमच्चरितं पार्वतीपतेः ॥२९॥
विमानमारुह्य स दिव्यरूपधृक्स तुंबुरुः पार्श्वगतः स्वकांतया ॥
गायन्महेशस्य गुणान्मनोरमाञ्जगाम कैवल्यपदं सनातनम् ॥१३०॥
सूत उवाच ॥
इत्येतत्कथितं पुण्यमाख्यानं दुरितापहम् ॥
महेश्वरप्रीतिकरं निर्मलज्ञानसाधनम् ॥३१॥
य इदं शृणुयान्मर्त्यः कीर्तयेद्वा समाहितः ॥
शंभोर्गुणानुकथनं विचित्रं पापनाशनम् ॥३२॥
परमानन्दजनकं भवरोगमहौषधम् ॥
भुक्त्वेह विविधान्भोगान्मुक्तो याति परां गतिम् ॥३३॥
॥ सूत उवाच ॥
यूयं खलु महाभागाः कृतार्था मुनिसत्तमाः ॥
ये सेवंते सदा शंभोः कथामृतरसं नवम् ॥३४॥
ते जन्मभाजः खलु जीवलोके येषां मनो ध्यायति विश्वनाथम् ॥
वाणी गुणान्स्तौति कथां शृणोति श्रोत्रद्वयं ते भवमुत्तरंति ॥३५॥
विविधगुणविभेदैर्नित्यमस्पृष्टरूपं जगति च बहिरंतर्वा समानं महिम्ना ॥
स्वमहसि विहरंतं वाङ्मनोवृत्तिदूरं परमशिवमनंतानंदसांद्रं प्रपद्ये ॥१३६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोतरखण्डे पुराणश्रवणमहिमवर्णनंनाम द्वाविंशो ऽध्यायः॥२२॥
इति स्कान्दे तृतीयं ब्राह्मखण्डं संपूर्णम्॥३॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP