ब्रह्मोत्तर खण्डः - अध्याय १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
वेदवेदांगतत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ॥
नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते ॥१॥
अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः॥
नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ॥२॥
॥ सूत उवाच ॥
श्रद्धैव सर्वधर्मस्य चातीव हितकारिणी ॥
श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ॥३॥
श्रद्धया भजतः पुंसः शिलापि फलदायिनी ॥
मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति सिद्धिदः ॥४॥
श्रद्धया पठितो मन्त्रस्त्वबद्धोपि फलप्रदः ॥
श्रद्धया पूजितो देवो नीचस्यापि फलप्रदः ॥६. ॥
अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ॥
सर्वं निष्फलतां याति पुष्पं वन्ध्यत रोरिव ॥६॥
सर्वत्र संशयाविष्टः श्रद्धाहीनोऽतिचंचलः ॥
परमार्थात्परिभ्रष्टः संसृतेर्न हि मुच्यते ॥७॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥
यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥८॥
अतो भावमयं विश्वं पुण्यं पापं च भावतः ॥
ते उभे भावहीनस्य न भवेतां कदाचन ॥९॥
अत्रेदं परमाश्चर्यमाख्यानमनुवर्ण्यते ॥
अश्रद्धा सर्वमर्त्यानां येन सद्यो निवर्तते ॥१०॥
आसीत्पांचालराजस्य सिंहकेतुरिति श्रुतः ॥
पुत्रः सर्वगुणोपेतः क्षात्रधर्मरतः सदा ॥११॥
स एकदा कतिपयैर्भृत्यैर्युक्तो महाबलः ॥
जगाम मृगयाहेतोर्बहु सत्त्वान्वितं वनम् ॥१२॥
तद्भृत्यः शबरः कश्चिद्विचरन्मृगयां वने ॥
ददर्श जीर्णं स्फुटितं पतितं देवतालयम् ॥१३॥
तत्रापश्यद्भिन्नपीठं पतितं स्थंडिलोपरि ॥
शिवलिंङ्गमृजुं सूक्ष्मं मूर्तं भाग्यमिवात्मनः ॥१४॥
स समादाय वेगेन पूर्वकर्मप्रचोदितः ॥
तस्मै संदर्शयामास राज पुत्राय धीमते ॥१५॥
पश्येदं रुचिरं लिंगं मया दृष्टमिह प्रभो ॥
तदेतत्पूजयिष्यामि यथाविभवमादरात् ॥१६॥
अस्य पूजाविधिं ब्रूहि यथा देवो महेश्वरः ॥
अमंत्रज्ञैश्च मन्त्रज्ञैः प्रीतो भवति पूजितः ॥१७॥
इति तेन निषादेन पृष्टः पार्थिवनंदनः ॥
प्रत्युवाच प्रहस्यैनं परिहास विचक्षणः ॥१८॥
संकल्पेन सदा कुर्यादभिषेकं नवांभसा ॥
उपवेश्यासने शुद्धे शुभैर्गंधाक्षतैर्नवैः ॥
वन्यैः पत्रैश्च कुसुमैर्धूपैर्दीपैश्च पूजयेत ॥१९॥
चिताभस्मोपहारं च प्रथमं परिकल्पयेत् ॥
आत्मोपभोग्येनान्नेन नैवद्यं कल्पयेद्बुधः ॥२०॥
पुनश्च धूपदीपादीनुपचारान्प्रकल्पेत् ॥
नृत्यवादित्रगीतादीन्यथावत्परिकल्पयेत् ॥२१॥
नमस्कृत्वा तु विधिवत्प्रसादं धारयेद्बुधः ॥
एष साधारणः प्रोक्तः शिवपूजाविधिस्तव ॥२२॥
चिताभस्मोपहारेण सद्यस्तुष्यति शंकरः ॥२३॥
॥ सूत उवाच ॥
परिहासरसेनेत्थं शासितः स्वामिनाऽमुना ॥
स चंडकाख्यः शबरो मूर्ध्ना जग्राह तद्वचः ॥२४॥
ततः स्वभवनं प्राप्य लिंगमूर्ति महेश्वरम् ॥
प्रत्यहं पूजयामास चिताभस्मोपहारकृत् ॥२५॥
यच्चात्मनः प्रियं वस्तु गन्धपुष्पाक्षतादिकम् ॥
निवेद्य शंभवे नित्यमुपायुंक्त ततः स्वयम् ॥२६॥
एवं महेश्वरं भक्त्या सह पत्न्याभ्यपूजयत् ॥
शबरः सुखमासाद्य निनाय कतिचित्समाः ॥२७॥
एकदा शिवपूजायै प्रवृत्तः शबरोत्तमः ॥
न ददर्श चिताभस्म पात्रे पूरितमण्वपि ॥२८॥
अथासौ त्वरितो दूरमन्विष्यन्परितो भ्रमन् ॥
न लब्धवांश्चिताभस्म श्रांतो गृहमगात्पुनः ॥२९॥
तत आहूय पत्नीं स्वां शबरो वाक्यमब्रवीत् ॥
न लब्धं मे चिताभस्म किं करोमि वद प्रिये ॥३०॥
शिवपूजांतरायो मे जातोद्य बत पाप्मनः ॥
पूजां विना क्षणमपि नाहं जीवितुमुत्सहे ॥३१॥
उपायं नात्र पश्यामि पूजोपकरणे हते ॥
न गुरोश्च विहन्येत शासनं सकलार्थदम् ॥३२॥
इति व्याकुलितं दृष्ट्वा भर्त्तारं शबरांगना ॥
प्रत्यभाषत मा भैस्त्वमुपायं प्रवदामि ते ॥३३॥
इदमेव गृहं दग्ध्वा बहुकालोपबृंहितम् ॥
अहमग्निं प्रवेक्ष्यामि चिताभस्म भवेत्ततः ॥३४॥
॥ शबर उवाच ॥
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ॥
कथं त्यजसि तं देहं सुखार्थं नवयौवनम् ॥३५॥
अधुना त्वनपत्या त्वमभुक्तविषयासवा ॥
भोगयोग्यमिमं देहं कथं दग्धुमिहेच्छसि ॥३६॥
॥ शबर्युवाच ॥
एतावदेव साफल्यं जीवितस्य च जन्मनः ॥
परार्थे यस्त्यजेत्प्राणाञ्छिवार्थे किमुत स्वयम् ॥३७॥
किं नु तप्तं तपो घोरं किं वा दत्तं मया पुरा ॥
किं वार्चनं कृतं शंभोः पूर्वजन्मशतांतरे ॥३८॥
किं वा पुण्यं मम पितुः का वा मातुः कृतार्थता ॥
यच्छिवार्थे समिद्धेऽग्नौ त्यजाम्येतत्कलेवरम् ॥३९॥
इत्थं स्थिरां मतिं दृष्ट्वा तस्या भक्तिं च शंकरे ॥
तथेति दृढसंकल्पः शबरः प्रत्यपूजयत् ॥४०॥
सा भर्त्तारमनुप्राप्य स्नात्वा शुचिरलंकृता ॥
गृहमादीप्य तं वह्निं भक्त्या चक्रे प्रदक्षिणम् ॥४१॥
नमस्कृत्वात्मगुरवे ध्यात्वा हृदि सदाशिवम् ॥
अग्निप्रवेशाभिमुखी कृतांजलिरिदं जगौ ॥४२॥
॥ शबर्युवाच ॥
पुष्पाणि संतु तव देव ममेंद्रियाणि धूपोऽगुरुर्वपुरिदं हृदयं प्रदीपः ॥
प्राणा हवींषि करणानि तवाक्षताश्च पूजाफलं व्रजतु सांप्रतमेष जीवः ॥४३॥
वांछामि नाहमपि सर्वधनाधिपत्यं न स्वर्गभूमिमचलां न पदं विधातुः ॥
भूयो भवामि यदि जन्मनिजन्मनि स्यां त्वत्पादपंकजलसन्मकरंदभृंगी ॥४४॥
जन्मानि संतु मम देव शताधिकानि माया न मे वि शतु चित्तमबोधहेतुः ॥
किंचित्क्षणार्धमपि ते चरणारविन्दान्नापैतु मे हृदयमीश नमोनमस्ते ॥४५॥
इति प्रसाद्य देवेशं शबरी दृढनिश्चया ॥
विवेश ज्वलितं वह्निं भस्मसादभवत्क्षणात् ॥४६॥
शबरोपि च तद्भस्म यत्नेन परिगृह्य सः ॥
चक्रे दग्धगृहोपान्ते शिवपूजां समाहितः ॥४६॥
अथ सस्मार पूजांते प्रसादग्रहणोचिताम् ॥
दयितां नित्यमायांतीं प्रांजलिं विनयान्विताम् ॥४८॥
स्मृतमात्रां तदापश्यदागतां पृष्ठतः स्थिताम् ॥
पूर्वेणावयवेनैव भक्तिनम्रां शुचिस्मिताम् ॥४९॥
तां वीक्ष्य शबरः पत्नीं पूर्ववत्प्रांजलिं स्थिताम् ॥
भस्मावशेषितगृहं यथापूर्वमवस्थितम् ॥ ॥५०॥
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥
राजा दहति दंडेन ब्राह्मणो मनसा दहेत् ॥५१॥
किमयं स्वप्न आहोस्वित्किं वा माया भ्रमात्मिका ॥
इति विस्मयसंभ्रातस्तां भूयः पर्यपृच्छत ॥५२॥
अपि त्वं च कथं प्राप्ता भस्मभूतासि पावके ॥
दग्धं च भवनं भूयः कथं पूर्व वदास्थितम् ॥५३॥
॥ शबर्युवाच ॥
यदा गृहं समुद्दीप्य प्रविष्टाहं हुताशने ॥
तदात्मानं न जानामि न पश्यामि हुताशनम् ॥५४॥
न तापलेशोप्यासीन्मे प्रविष्टाया इवोदकम् ॥
सुषुप्तेव क्षणार्धेन प्रबुद्धास्मि पुनः क्षणात् ॥५५॥
तावद्भवनमद्राक्षमदग्धमिव सुस्थितम् ॥
अधुना देवपूजांते प्रसादं लब्धुमागता ॥५६॥
एवं परस्परं प्रेम्णा दंपत्योर्भाषमाणयोः ॥
प्रादुरासीत्तयोरग्रे विमानं दिव्यमद्भुतम् ॥५७॥
तस्मिन्विमाने शतचन्द्रभास्वरे चत्वार ईशानुचराः पुरःसराः ॥
हस्ते गृहीत्वाथ निषाददंपती आरोपयामासुरमुक्तविग्रहौ ॥५८॥
तयोर्निषाददंपत्योस्तत्क्षणादेव तद्वपुः ॥
शिवदूतकरस्पर्शात्तत्सारूप्यमवाप ह ॥५९॥
तस्माच्छ्रद्धैव सर्वेषु विधेया पुण्यकर्मसु ॥
नीचोपि शबरः प्राप श्रद्धया योगिनां गतिम् ॥६०॥
किं जन्मना सकलवर्णजनोत्तमेन किं विद्यया सकलशास्त्रविचारवत्या ॥
यस्यास्ति चेतसि सदा परमेशभक्तिः कोऽन्यस्ततस्त्रिभुवने पुरुषोस्ति धन्यः ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP