संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय ९ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय ९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २९ Translation - भाषांतर ॥ ऋषय ऊचुः ॥साधुसाधु महाभाग त्वया कथितमुत्तमम् ॥आख्यानं पुनरन्यत्र विचित्रं वक्तुमर्हसि ॥१॥॥ सूत उवाच ॥विदर्भविषये पूर्वमासीदेको द्विजोत्तमः ॥वेदमित्र इति ख्यातो वेद शास्त्रार्थवित्सुधीः ॥२॥तस्यासीदपरो विप्रः सखा सारस्वताह्वयः ॥तावुभौ परमस्निग्धावेकदेशनिवासिनौ ॥३॥वेदमित्रस्य पुत्रोऽभूत्सुमेधा नाम सुव्रतः ॥सारस्वतस्य तनयः सोमवानिति विश्रुतः ॥४॥उभौ सवयसौ बालौ समवेषौ समस्थिती ॥समं च कृतसंस्कारौ सम विद्यौ बभूवतुः ॥५॥सांगानधीत्य तौ वेदांस्तर्कव्याकरणानि च ॥इतिहासपुराणानि धर्मशास्त्राणि कृत्स्नशः ॥६॥सर्वविद्याकुशलिनौ बाल्य एव मनीषिणौ ॥प्रहर्षमतुलं पित्रोर्ददतुः सकलैर्गुणैः ॥७॥तावेकदा स्वतनयौ तावुभौ ब्राह्मणोत्तमौ ॥आहूयावोचतां प्रीत्या षोड शाब्दौ शुभाकृती ॥८॥हे पुत्रकौ युवां बाल्ये कृतविद्यौ सुवर्चसौ ॥वैवाहिकोयं समयो वर्तते युवयोः समम् ॥९॥इमं प्रसाद्य राजानं विदर्भेशं स्वविद्यया ॥ततः प्राप्य धनं भूरि कृतोद्वाहौ भविष्यथः ॥१०॥एवमुक्तौ सुतौ ताभ्यां तावुभौ द्विजनंदनौ ॥विदर्भराजमासाद्य समतोषयतां गुणैः ॥११॥विद्यया परितुष्टाय तस्मै द्विजकुमारकौ ॥विवाहार्थं कृतोद्योगौ धनहीनावशंसताम् ॥१२॥तयोरपि मतं ज्ञात्वा स विदर्भमहीपतिः ॥प्रहस्य किंचित्प्रोवाच लोकतत्त्वविवित्सया ॥१३॥आस्ते निषधराजस्य राज्ञी सीमंतिनी सती ॥सोमवारे महादेवं पूजयत्यंबिकायुतम् ॥१४॥तस्मिन्दिने सपत्नीकान्द्विजाग्र्यान्वेदवित्तमान्॥संपूज्य परया भक्त्या धनं भूरि ददाति च ॥१५॥अतोऽत्र युवयोरैको नारीविभ्रमवेषधृक्॥एकस्तस्या पतिर्भूत्वा जायेतां विप्रदंपती ॥१६॥युवां वधूवरौ भूत्वा प्राप्य सीमंतिनीगृहम्॥भुक्त्वा भूरि धनं लब्ध्वा पुनर्यातं ममांमतिकम् ॥१७॥इति राज्ञा समादिष्टौ भीतौ द्विजकुमारकौ ॥प्रत्यूचतुरिदं कर्म कर्तुं नौ जायते भयम् ॥१८॥देवतासु गुरौ पित्रोस्तथा राजकुलेषु च ॥कौटिल्यमाचरन्मोहात्सद्यो नश्यति सान्वयः ॥१९॥कथमंतर्गृहं राज्ञां छद्मना प्रविशेत्पुमान् ॥गोप्यमानमपिच्छद्म कदाचित्ख्यातिमेष्यति ॥२०॥ये गुणाः साधिताः पूर्वं शीलाचारश्रुतादिभिः ॥सद्यस्ते नाशमायांति कौटिल्य पथगामिनः ॥२१॥पापं निंदा भयं वैरं चत्वार्येतानि देहिनाम् ॥छद्ममार्गप्रपन्नानां तिष्ठंत्येव हि सर्वदा ॥२२॥अत आवां शुभाचारौ जातौ च शुचिनां कुले ॥वृत्तं धूर्तजनश्लाघ्यं नाश्रयावः कदाचन ॥२३॥॥ राजोवाच ॥दैवतानां गुरूणां च पित्रोश्च पृथिवीपतेः ॥शासनस्याप्यलंघ्यत्वात्प्रत्यादेशो न कर्हिचित् ॥२४॥एतैर्यद्यत्समादिष्टं शुभं वा यदि वाऽशुभम् ॥कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः ॥२५॥अहो वयं हि राजानः प्रजा यूयं हि संमताः ॥राजाज्ञया प्रवृत्तानां श्रेयः स्यादन्यथा भयम् ॥२६॥अतो मच्छासनं कार्यं भव द्भ्यामविलंबितम् ॥इत्युक्तौ नरदेवेन तौ तथेत्यूचतुर्भयात् ॥२७॥सारस्वतस्य तनयं सामवन्तं नराधिपः ॥स्त्रीरूपधारिणं चक्रे वस्त्राकल्पां जनादिभिः ॥२८॥स कृत्रिमोद्भूतकलत्रभावः प्रयुक्तकर्णाभरणांगरागः ॥स्निग्धाञ्जनाक्षः स्पृहणीयरूपो बभूव सद्यः प्रमदोत्तमाभः ॥२९॥तावुभौ दंपती भूत्वा द्विजपुत्रौ नृपाज्ञया ॥जग्मतुर्नैषधं देशं यद्वा तद्वा भवत्विति ॥३०॥उपेत्य राजसदनं सोमवारे द्विजोत्तमैः ॥सपत्नीकैः कृतातिथ्यौ धौतपादौ बभूवतुः ॥३१॥सा राज्ञी ब्राह्मणान्सर्वानुपविष्टान्वरासने ॥प्रत्येकमर्चयांचक्रे सपत्नीकान्द्विजोत्तमान् ॥३२॥तौ च विप्रसुतौ दृष्ट्वा प्राप्तौ कृतकदंपती ॥ज्ञात्वा किंचिद्विहस्याथ मेने गौरीमहेश्वरौ ॥३३॥आवाह्य द्विजमुख्येषु देवदेवं सदाशिवम् ॥पत्नीष्वावाहयामास सा देवीं जगदंबिकाम् ॥३४॥गन्धैर्माल्यैः सुरभिभिर्धूपैर्नीराजनैरपि ॥अर्चयित्वा द्विजश्रेष्ठान्नमश्चक्रे समाहिता ॥३५॥हिरण्मयेषु पात्रेषु पायसं घृतसंयुतम् ॥शर्करामधुसंयुक्तं शाकैर्जुष्टं मनोरमैः ॥३६॥गंधशाल्योदनैर्हृद्यैर्मोदकापूपराशिभिः ॥शष्क्रुलीभिश्च संयावैः कृसरैर्माषपक्वकैः ॥३७॥तथान्यैरप्यसंख्यातैर्भक्ष्यैर्भोज्यैर्मनोरमैः ॥सुगन्धैः स्वादुभिः सूपैः पानीयैरपि शीतलैः ॥३८॥क्लृप्तमन्नं द्विजा -ग्र्येभ्यः सा भक्त्या पर्यवेषयत् ॥दध्योदनं निरुपमं निवेद्य समतोषयत् ॥३९॥भुक्तवत्सु द्विजाग्र्येषु स्वाचांतेषु नृपांगना ॥प्रणम्य दत्त्वा तांबूलं दक्षिणां च यथार्हतः ॥४०॥धेनूर्हिरण्यवासांसि रत्नस्रग्भूषणानि च ॥दत्त्वा भूयो नमस्कृत्य विससर्ज द्विजोत्तमान् ॥४१॥तयोर्द्वयोर्भूसुरवर्यपुत्रयोरेकस्त्तया हैमवतीधियार्चितः ॥एको महादेवधियाभिपूजितः कृतप्रणामौ ययतुस्तदाज्ञया ॥४२॥सा तु विस्मृतपुंभावा तस्मिन्नेव द्विजोत्तमे ॥जातस्पृहा मदोत्सिक्ता कन्दर्पविवशाब्रवीत् ॥४३॥अंयि नाथ विशालाक्ष सर्वावयवसुन्दर ॥तिष्ठतिष्ठ क्व वा यासि मां न पश्यसि ते प्रियाम् ॥४४॥इदमग्रे वनं रम्यं सुपुष्पितमहाद्रुमम् ॥अस्मिन्विहर्तुमिच्छामि त्वया सह यथासुखम् ॥४५॥इत्थं तयोक्तमाकर्ण्य पुरोऽगच्छद्द्विजात्मजः ॥विचिंत्य परिहासोक्तिं गच्छति स्म यथा पुरा ॥४६॥पुनरप्याह सा बाला तिष्ठतिष्ठ क्व यास्यसि॥दुरुत्सहस्मरावेशां परिभोक्तुमुपेत्य माम् ॥४७॥परिष्वजस्व मां कांतां पाययस्व तवाधरम् ॥नाहं गंतुं समर्थास्मि स्मरबाणप्रपीडिता ॥४८॥इत्थमश्रुतपूर्वां तां निशम्य परिशंकितः ॥आयांतीं पृष्ठतो वीक्ष्य सहसा विस्मयं गतः ॥४९॥कैषा पद्मपलाशाक्षी पीनोन्नतपयोधरा ॥कृशोदरी बृहच्छ्रोणी नवपल्लवकोमला ॥५०॥स एव मे सखा किन्नु जात एव वरांगना ॥पृच्छाम्येनमतः सर्वमिति संचिन्त्य सोऽब्रवीत् ॥५१॥किमपूर्व इवाभाषि सखे रूपगुणादिभिः ॥अपूर्वं भाषसे वाक्यं कामिनीव समाकुला ॥५२॥यस्त्वं वेदपुराणज्ञो ब्रह्मचारी जितेंद्रियः ॥सारस्वतात्मजः शांतः कथमेवं प्रभाषसे ॥५३॥इत्युक्ता सा पुनः प्राह नाहमस्मि पुमान्प्रभो ॥नाम्ना सामवती बाला तवास्मि रतिदायिनी॥ ५४॥यदि ते संशयः कांत ममांगानि विलोकय ॥इत्युक्तः सहसा मार्गे रहस्येनां व्यलोकयत् ॥५५॥तामकृत्रिमधम्मिल्लां जवनस्तनशोभिनीम् ॥सुरूपां वीक्ष्य कामेन किंचिद्व्याकुलतामगात् ॥५६॥पुनः संस्तभ्य यत्नेन चेतसो विकृतिं बुधः ॥मुहूर्तं विस्मयाविष्टो न किंचित्प्रत्यभाषत ॥५७॥॥ सामवत्युवाच ॥गतस्ते संशयः कश्चित्तर्ह्यागच्छ भजस्व माम् ॥पश्येदं विपिनं कांत परस्त्रीसुरतोचितम् ॥५८॥॥ सुमेधा उवाच ॥मैवं कथय मर्यादां मा हिंसीर्मदमत्तवत् ॥आवां विज्ञातशास्त्रार्थौ त्वमेवं भाषसे कथम् ॥५९॥अधीतस्य च शास्त्रस्य विवेकस्य कुलस्य च ॥किमेष सदृशो धर्मो जारधर्मनिषेवणम् ॥६०॥ न त्वं स्त्री पुरुषो विद्वाञ्जानीह्यात्मानमात्मना ॥अयं स्वयंकृतोऽनर्थ आवाभ्यां यद्विचेष्टितम् ॥६१॥वंचयित्वात्मपितरौ धूर्त्तराजानुशासनात् ॥कृत्वा चानुचितं कर्म तस्यैतद्भुज्यते फलम् ॥६२॥सर्वं त्वनुचितं कर्म नृणां श्रेयोविनाशनम् ॥यस्त्वं विप्रात्मजो विद्वान्गतः स्त्रीत्वं विगर्हितम् ॥६३॥मार्गं त्यक्त्वा गतोऽरण्यं नरो विध्येत कण्टकैः ॥बलार्द्धिस्येत वा हिंस्रैर्यदा त्यक्तसमा गमः ॥६४॥एवं विवेकमाश्रित्य तूष्णीमेहि स्वयं गृहम् ॥देवद्विजप्रसादेन स्त्रीत्वं तव विलीयते ॥६५॥अथवा दैवयोगेन स्त्रीत्वमेव भवेत्तव ॥पित्रा दत्ता मया साकं रंस्यसे वरवर्णिनि ॥६६॥अहो चित्रमहो दुःखमहो पापबलं महत् ॥अहो राज्ञः प्रभावोयं शिवाराधनसंभृतः ॥६७॥इत्युक्ताप्यसकृत्तेन सा वधूरतिविह्वला ॥बलेन तं समालिंग्य चुचुंबाधरपल्लवम् ॥६८॥धर्षितोपि तया धीरः सुमेधा नूतनस्त्रियम् ॥यत्नादानीय सदनं कृत्स्नं तत्र न्यवेदयत् ॥६९॥तदाकर्ण्याथ तौ विप्रौ कुपितौ शोकविह्वलौ ॥ताभ्यां सह कुमाराभ्यां वैदर्भांतिकमीयतुः ॥७०॥ततः सारस्वतः प्राह राजानं धूर्तचेष्टितम् ॥राजन्ममात्मजं पश्य तव शासनयंत्रितम् ॥७१॥एतौ तवाज्ञावशगौ चक्रतुः कर्म गर्हितम् ॥मत्पुत्रस्तत्फलं भुंक्ते स्त्रीत्वं प्राप्य जुगुप्सितम्॥ ७२॥अद्य मे संततिर्नष्टा निराशाः पितरो मम ॥नापुत्रस्य हि लोकोस्ति लुप्तपिंडादिसंस्कृतेः ॥७३॥शिखोपवीतमजिनं मौजीं दंडं कमंडलुम् ॥ब्रह्मचर्योचितं चिह्नं विहायेमां दशां गतः ॥७४॥ब्रह्मसूत्रं च सावित्रीं स्नानं संध्यां जपार्चनम् ॥विसृज्य स्त्रीत्वमाप्तोस्य का गतिर्वद पार्थिव ॥७५॥त्वया मे संततिर्नष्टा नष्टो वेदपथश्च मे ॥एकात्मजस्य मे राजन्का गतिर्वद शाश्वती ॥७६॥इति सारस्वतेनोक्तं वाक्यमाकर्ण्य भूपतिः ॥सीमंतिन्याः प्रभावेण विस्मयं परमं गतः ॥७७॥अथ सर्वान्समाहूय महर्षीनमितद्युतीन्॥प्रसाद्य प्रार्थयामास तस्य पुंस्त्वं महीपतिः ॥७८॥तेऽबुवन्नथ पार्वत्याः शिवस्य च समीहितम् ॥तद्भक्तानां च माहात्म्यं कोन्यथा कर्तुमीश्वरः ॥७९॥अथ राजा भरद्वाजमादाय मुनिपुंगवम् ॥ताभ्यां सह द्विजाग्र्याभ्यां तत्सुताभ्यां समन्वितः ॥८०॥अंबिकाभवनं प्राप्य भरद्वाजोपदेशतः ॥तां देवीं नियमैस्तीव्रैरुपास्ते स्म महानिशि ॥८१॥एवं त्रिरात्रं सुविसृष्टभोजनः स पार्वतीध्यान रतो महीपतिः ॥सम्यक्प्रणामैर्विविधैश्च संस्तवैर्गौरीं प्रपन्नार्तिहरामतोषयत् ॥८२॥ततः प्रसन्ना सा देवी भक्तस्य पृथिवीपतेः ॥स्वरूपं दर्शयामास चंद्रकोटिसमप्रभम् ॥८३॥अथाह गौरी राजानं किं ते ब्रूहि समीहितम् ॥सोऽप्याह पुंस्त्वमेतस्य कृपया दीयतामिति ॥८४॥भूयोप्याह महादेवी मद्भक्तैः कर्म यत्कृतम् ॥शक्यते नान्यथा कर्तुं वर्षायुतशतैरपि ॥८५॥॥ राजोवाच ॥एकात्मजो हि विप्रोयं कर्मणा नष्टसंततिः ॥कथं सुखं प्रपद्येत विना पुत्रेण तादृशः ॥८६॥॥ देव्युवाच ॥तस्यान्यो मत्प्रसादेन भविष्यति सुतोत्तमः ॥विद्या विनयसंपन्नो दीर्घायुरमलाशयः ॥८७॥एषा सामवती नाम सुता तस्य द्विजन्मनः ॥भूत्वा सुमेधसः पत्नी कामभोगेन युज्यताम् ॥८८॥इत्युक्त्वांतर्हिता देवी ते च राजपुरोगमाः ॥गताः स्वंस्वं गृहं सर्वे चक्रुस्तच्छासने स्थितिम् ॥८९॥सोपि सारस्वतो विप्रः पुत्रं पूर्वसुतो त्तमम् ॥लेभे देव्याः प्रसादेन ह्यचिरादेव कालतः ॥९०॥तां च सामवतीं कन्यां ददौ तस्मै सुमेधसे ॥तौ दंपती चिरं कालं बुभुजाते परं सुखम् ॥९१॥॥ सूत उवाच ॥इत्येष शिवभक्तायाः सीमंतिन्या नृपस्त्रियाः ॥प्रभावः कथितः शंभोर्माहात्म्यमपि वर्णितम् ॥९२॥ भूयोपि शिवभक्तानां प्रभावं विस्मयावहम् ॥समासाद्वर्णयिष्यामि श्रोतॄणां मंगलायनम् ॥९३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे सीमंतिन्याः प्रभाववर्णनं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP