नागरखण्डः - अध्याय १
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
ॐनमः पुरुषोत्तमाय ॥
॥अथ स्कान्दे महापुराणे षष्ठनागरखण्डप्रारम्भः ॥
॥व्यास उवाच ॥
स धूर्जटि जटाजूटो जायतां विजयाय वः ॥
यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी ॥१॥
ऋषय ऊचुः ॥
हरस्य पूज्यते लिंगं कस्मादतन्महामते
विशेषात्संपरित्यज्य शेषांगानि सुरासुरैः ॥२॥
तस्मादेतन्महाबाहो यथावद्वक्तुमर्हसि ॥
सांप्रतं सूत कार्त्स्न्येन परं कौतूहलं हि नः ॥३॥
सूत उवाच ॥
प्रश्नभारो महानेष यो भवद्भिरुदाहृतः ॥
कीर्तयिष्ये तथाप्येनं नमस्कृत्य स्वयंभुवे ॥४॥
आनर्तविषये चास्ति वनं मुनिजनाश्रयम् ॥
मनोज्ञं सर्वसत्त्वानां सर्वर्तुफलितद्रुमम् ॥५॥
तत्राश्रमपदं रम्यं सौम्यसत्त्वनिषेवितम् ॥
अस्ति तापससंकीर्णं वेदध्वनिविराजितम् ॥६॥
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा ॥
दन्तोलूखलिभिर्विप्रैः सेवितं चाश्मकुट्टकैः ॥७॥
स्नानहोमपरैश्चैव जपस्वाध्यायतत्परैः ॥
वानप्रस्थैस्त्रिदण्डैश्च हंसैश्चापि कुटीचरैः ॥८॥
स्नातकैर्यतिभिर्दान्तैस्तथा पंचाग्निसाधकैः ॥
कस्यचित्त्वथ कालस्य भगवांस्त्रिपुरांतकः ॥९॥
सतीवियोगसंतप्तो भ्रममाण इतस्ततः ॥
तस्मिन्वने समायातः सौम्यसत्त्वनिषेविते ॥१०॥
क्रीडंति नकुला यत्र सार्धं सर्पैःप्रहर्षिताः ॥
पञ्चाननाश्च मातंगैर्वृषदंशास्तथाखुभिः ॥
काकाः कौशिकसंघैश्च वैरभावविवर्जिताः ॥११॥
ततश्च भगवान्रुद्रो दृष्ट्वाश्रमपदं तदा ॥
नग्नः कपालमादाय भिक्षार्थं प्रविवेश सः ॥१२॥
अथ तस्य समालोक्य रूपं गात्रसमुद्भवम् ॥
अदृष्टपूर्वं तापस्यः सर्वाः कामवशं गताः ॥१३॥
गृहकर्म परित्यज्य गुरुशुश्रूषणानि च ॥
मिथः संभाषणं चक्रुः स्थानेस्थाने च ताः स्थिताः ॥१४॥
एका सा कापि धन्या या चक्रे तस्यावगूहनम् ॥
विश्रब्धा सर्वगात्रेषु तापसस्य महात्मनः ॥१५॥
तथान्याः कौतुकाविष्टा धावंत्यः सर्वतोदिशम् ॥
दृश्यंते तं समुद्दिश्य विस्तारितविलोचनाः ॥१६॥
काश्चिदर्द्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः ॥
अर्धसंयमितैः कैशैस्तथान्यास्त्यक्तबालकाः ॥१७॥
एवमालोक्यमानः स कामिनीभिर्महेश्वरः ॥
बभ्राम राजमार्गेण भिक्षां देहीति कीर्तयन् ॥१८॥
अथ ते मुनयो दृष्ट्वा तं तथा विगतांबरम् ॥
कामोद्भवकरंस्त्रीणां प्रोचुः कोपारुणेक्षणाः ॥१९॥
यस्मात्पाप त्वयास्माकमाश्रमोऽयं विडंबितः ॥
तस्माल्लिंगं पतत्वाशु तवैव वसुधातले ॥२०॥
एतस्मिन्नंतरे भूमौ लिंगं तस्य पपात तत् ॥
भित्त्वाथ धरणीपृष्ठं पातालं प्रविवेश ह ॥२१॥
सोऽपि लिंगपरित्यक्तो लज्जायुक्तो महेश्वरः ॥
गर्तां गुर्वीं समाश्रित्य भ्रूणरूपः समाविशत् ॥२२॥
अथ लिंगस्य पातेन त्रैलोक्यभयशंसिनः ॥
उत्पाता दारुणास्तस्थुः सर्वत्र द्विजसत्तमाः ॥२३॥
शीर्यते गिरिशृङ्गाणि पतंत्युल्का दिवापि च ॥
त्यजंति सागराः सर्वे मर्यादां च शनैः शनैः ॥२४॥
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः ॥
शक्रविष्णुमुखा जग्मुर्यत्र देवः पितामहः ॥२५॥
प्रोचुश्च प्रणताः स्तुत्वा स्तोत्रैः सुश्रुतिसंभवैः ॥
त्रैलोक्ये सृष्टिरूपं यत्कमलासनसंस्थितम् ॥२६॥
किमिदं किमिदं देव वर्तते ह्यधरोत्तरम् ॥
त्रैलोक्यं सकलं येन व्याकुलत्वमुपागतम् ॥२७॥
प्रलयस्येव चिह्नानि दृश्यंते पद्मसंभव ॥
किं सांप्रतमकालेऽपि भविष्यति परिक्षयः ॥२८॥
सर्वेषां सुरमर्त्यानां दैत्यानां मन्त्रकोविदः ॥
गतिर्भयार्तदेहानां सर्वलोकपितामहः ॥२९॥
तेषां तद्वचनं श्रुत्वा देवानां चतुराननः ॥
उवाच सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा ॥३०॥
प्रलयस्य न कालोऽयं सांप्रतं सुरसत्तमाः ॥
शृणुध्वं यन्निमित्तोत्था महोत्पाता भवन्त्यमी ॥३१॥
ऋषिभिः पातितं लिंगं देवदेवस्य शूलिनः ॥
शापेनानर्तके देशे कलत्रार्थे महात्मभिः ॥३२॥
तेनैतद्व्याकुलीभूतं त्रैलोक्यं सचराचरम् ॥
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः ॥३३॥
येनास्मद्वचनाच्छीघ्रं तल्लिंगं निदधाति सः ॥
नो चेद्भविष्यति व्यक्तमकाले चापि संक्षयः ॥
त्रैलोक्यस्यापि कृत्स्नस्य सत्यमेतन्मयोदितम् ॥३४॥
अथ देवगणाः सर्वे ब्रह्मविष्णुपुरःसराः ॥
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ॥३५॥
प्रजग्मुस्त्वरितास्तत्र यत्र देवो महेश्वरः ॥
गर्तामध्यगतः सुप्तो लज्जया परया वृतः ॥३६॥
देवा ऊचुः ॥
नमस्ते देवदेवेश भक्तानामभयप्रद ॥
नमस्ते जगदाधार शशिराजितशेखर ॥३७॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही विभो ॥
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥३८॥
त्वं पासि च सुरश्रेष्ठ तथा नाशं नयिष्यसि ॥
त्वं विष्णुस्त्वं चतुर्वक्त्रस्त्वं चंद्रस्त्वं दिवाकरः ॥३९॥
त्वया विना महादेव न किंचिदिह विद्यते ॥
अपि कृत्वा महत्पापं नरो देव धरातले ॥४०॥
तव नामापि संकीर्त्य प्रयाति त्रिदिवालयम् ॥
महादेव महादेव महादेवेति कीर्तनात् ॥४१॥
कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥
सद्यः प्रलयमायांति महादेवेति कीर्तनात् ॥४२॥
विप्रो यथा मनुष्याणां नदीनां वा महार्णवः ॥
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥४३॥
नक्षत्राणां यथा चंद्रः प्रदीप्तानां दिवाकरः ॥
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥४४॥
धातूनां कांचनं यद्वद्गंधर्वाणां च नारदः ॥
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥४५॥
ओषधीनां यथा सस्यं नगानां हेमपर्वतः ॥
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥४६॥
तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो ॥
संधारय पुनर्लिंगं स्वकीयं सुरसत्तम ॥४७॥
नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति ॥
यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो ॥४८॥
सूत उवाच ॥
तेषां तद्वचनं श्रुत्वा भगवान्बृषभध्वजः ॥
प्रोवाच प्रणतान्सर्वांस्तान्देवान्व्रीडयान्वितः ॥४९॥
मया सतीवियोगार्तियुक्तेन सुरसत्तम ॥
लिंगमेतत्परित्यक्तं शापव्याजाद्द्विजन्मनाम् ॥५०॥
कोऽलं पातयितुं लिंगं ममैतद्भुवनत्रये ॥
देवो वा ब्राह्मणो वापि वेत्थ यूयमपि स्फुटम् ॥५१॥
तस्मान्नैव धरिष्यामि लिंगमेतद्धरातलात् ॥
किमनेन करिष्यामि भार्यया परिवर्जितः ॥५२॥
देवा ऊचुः ॥
तव कांता सती नाम या मृता प्राक्सुरोत्तम ॥
सा जाता मेनकागर्भे गौरी नाम हिमाचलात् ॥५३॥
भविष्यति पुनर्भार्या तवैव त्रिपुरांतक ॥
तस्माल्लिंगं समादाय कुरु क्षेमं दिवौकसाम् ॥५४॥
देवदेव उवाच ॥
अद्यप्रभृति मे लिंगं यदि देवा द्विजातयः ॥
पूजयंति प्रयत्नेन तर्हीदं धारयाम्यहम् ॥५५॥
ब्रह्मोवाच ॥
अहं तव स्वयं लिंगं पूजयिष्यामि शंकर ॥
तथान्ये विबुधाः सर्वे किं पुनर्भुवि मानवाः ॥५६॥
ततः प्रविश्य पातालं देवैः सार्धं पितामहः ॥
स्वयमेवाकरोत्पूजां तस्य लिंगस्य भक्तितः ॥५७॥
तस्मादनंतरं विष्णुः श्रद्धापूतेन चेतसा ॥
तथान्ये विबुधाः सर्वे शक्राद्याः श्रद्धयान्विताः ॥५८॥
ततस्तुष्टो महादेवः पितामहमिदं वचः ॥
प्रोवाच वासुदेवं च विनयावनतं स्थितम् ॥५९॥
भवद्भ्यां परितुष्टोऽस्मि तस्मान्मत्तः प्रगृह्यताम् ॥
वरमिष्टं महाभागौ यद्यपि स्यात्सुदुर्लभम् ॥६०॥
तावूचतुः ॥
यदि तुष्टोसि देवेश त्रिभागेन समाश्रयम् ॥
आवाभ्यां देहि लिंगेन येनैकत्राश्रयो भवेत् ॥६१॥
सूत उवाच ॥
स तथेति प्रतिज्ञाय लिंगमादाय च प्रभुः ॥
स्थाने नियोजयामास सर्वदेवाधिपूजितम् ॥६२॥
ततो हाटकमादाय तदाकारं पितामहः ॥
कृत्वा लिंगं स्वयं तत्र स्थापयामास हर्षितः ॥६३॥
प्रोवाच चाथ भो विप्राः साधुनादेन नादयन् ॥
लोकत्रयं समस्तानां शृण्वतां त्रिदिवौकसाम् ॥६४॥
मया ह्याद्यं त्विदं लिंगं हाटकेन विनिर्मितम् ॥
ख्यातिं यास्यति सर्वत्र पाताले हाटकेश्वरम् ॥६५॥
तथान्ये मनुजा ये च हाटकादीनि भक्तितः ॥
मणिमुक्तासुरत्नैश्च कृत्वा लिंगानि कृत्स्नशः ॥६६॥
त्रिकालं पूजयिष्यंति ते यास्यंति परां गतिम् ॥
मृन्मयं संपरित्यज्य नीचधातुमयं तथा ॥६७॥
एवमुक्त्वा चतुर्वक्त्रः सह सर्वैर्दिवालयैः ॥
जगाम त्रिदिवं सोऽपि कैलासं शशिशेखरः ॥६८॥
एतस्मात्कारणाल्लिंगं पूज्यतेऽत्र सुरासुरैः ॥
हरस्य चोत्तमांगानि परित्यज्य विशेषतः ॥६९॥
ततः प्रभृति तल्लिंगं स्वयं ब्रह्मा व्यवस्थितः ॥
भगवान्वासुदेवश्च तेन पूज्यं शिवं हि तत् ॥७०॥
यस्तु पूजयते नित्यं श्रद्धायुक्तेन चेतसा ॥
त्र्यंबकाच्युतब्रह्माद्यास्तेन स्युः पूजितास्त्रयः ॥७१॥
तस्मात्सर्वप्रयत्नेन शिवलिंगं प्रपूजयेत् ॥
स्पर्शयेदीक्षयेन्नित्यं कीर्तयेच्च द्विजोत्तमाः ॥७२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लिंगोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : December 18, 2024
TOP