नागरखण्डः - अध्याय ५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
तच्छ्रुत्वा ब्रह्मणो वाक्यं विश्वामित्रो रुषान्वितः ॥
पितामहमुवाचेदं पश्य मे तपसो बलम् ॥१॥
याजयित्वा त्रिशंकुं तं विधिवद्दक्षिणावता ॥
यज्ञेनात्रा(?) नयिष्यामि पश्यतस्ते पितामह ॥२॥
एवमुक्त्वा द्रुतं गत्वा विश्वामित्रो धरातलम् ॥
चकार याजने यत्नं त्रिशंकोः सुमहात्मनः ॥३॥
ददौ दीक्षां समाहूय ब्राह्मणान्वेदपारगान् ॥
यत्रकर्मोचिते काले तस्मिन्नेव वने शुभे ॥४॥
बभूव स स्वयं धीमानध्वर्युर्यज्ञकर्मणि ॥
तस्मिन्होता च शांडिल्यो ब्रह्मा गौतम एव च ॥५॥
आग्नीध्रश्च्यवनो नाम मैत्रावरुणः कार्मिकः ॥
उद्गाता याज्ञवल्क्यश्च प्रतिहर्ता च जैमिनिः ॥६॥
प्रस्तोता शंकुवर्णश्च तथोन्नेता च गालवः ॥
पुलस्त्यो ब्राह्मणाच्छंसी होता गर्गो मुनीश्वरः ॥७॥
नेष्टा चैव तथात्रिस्तु अच्छावाको भृगुः स्वयम् ॥
तान्सर्वानृत्विजश्चक्रे त्रिशंकुः श्रद्धयान्वितः ॥८॥
वासोभिर्मुकुटैश्चैव केयूरैः समलंकृतान् ॥
कृत्वा केशपरित्यागं दधत्कृष्णाजिनं तथा ॥९॥
ऐणशृङ्गसमायुक्तः पयोव्रतपरायणः ॥
दीर्घसत्राय तान्सर्वान्योजयामास वै ततः ॥१०॥
एवं तस्मिन्प्रवृत्ते च दीर्घसत्रे यथोचिते ॥
आजग्मुर्ब्राह्मणा दिव्या वेदवेदांगपारगाः ॥११॥
तथान्ये तार्किकाश्चैव गृहस्थाः कौतुकान्विताः ॥
दीनांधकृपणाश्चैव ये चान्ये नटनर्तकाः ॥१२॥
दीयतां दीयतामाशु एतेषामेतदेव हि ॥
भुज्यतांभुज्यतां लोकाः प्रसादः क्रियतामिति ॥१३॥
इत्येष निनदस्तत्र श्रूयते सततं महान् ॥
यज्ञवाटे सदा तस्मिन्नान्यश्चैव कदाचन ॥१४॥
तत्र सस्यमयाः शैला दृश्यंते परिकल्पिताः ॥
सुवर्णस्य च रूप्यस्य रत्नानां च विशेषतः ॥१५॥
दानार्थं ब्राह्मणेंद्राणामसंख्याश्चापि धेनवः ॥
तथैव वाजिनो दांता मदोन्मत्ता महागजाः ॥१६॥
समंतात्कल्पितास्तत्र दृश्यंते पर्वतोपमाः ॥
वर्तमाने महायज्ञे तस्मिन्नेव सुविस्तरे ॥१७॥
आहूता यज्ञभागाय नाभिगच्छंति देवताः ॥
केवलं वह्निवक्त्रेण तस्य गृह्णंति तद्धविः ॥१८॥
एवं द्वादशवर्षाणि यजतस्तस्य भूपतेः ॥
व्यतीतानि न संप्राप्तमभीष्टं मनसः फलम् ॥१९॥
ततश्चावभृथस्नानं कृत्वा सत्रसमाप्तिजम् ॥
ऋत्विजस्तर्पयित्वा तान्दक्षिणाभिर्यथार्हतः ॥२०॥
विससर्ज समस्तांश्च तथान्यानपि संगतान् ॥
संबंधिनो वयस्यांश्च त्रिशंकुर्मुनिसत्तमाः ॥२१॥
ततः प्रोवाच विनतो विश्वामित्रं मुनीश्वरम् ॥
स भूपो व्रीडया युक्तः प्रणिपातपुरः सरम् ॥२२॥
त्वत्प्रसादान्मया प्राप्तं दीर्घसत्रसमुद्भवम् ॥
परिपूर्णफलं ब्रह्मन्दुर्लभं सर्वमानवैः ॥२३॥
तथा जातिः पुनर्लब्धा भूयो नष्टापि सन्मुने ॥
त्वत्प्रसादेन विप्रर्षे चंडालत्वं प्रणाशितम् ॥२४॥
परं मे दुःखमेवैकं हृदि शल्यमिवार्पितम् ॥
अनेनैव शरीरेण यन्न प्राप्तं त्रिविष्टपम् ॥२५॥
उपहासं करिष्यंति वसिष्ठस्य सुता मुने ॥
अद्य व्यर्थ श्रमं श्रुत्वा मामप्राप्तं त्रिविष्टपम् ॥२६॥
तथा तद्वचनं सत्यं वसिष्ठस्य व्यवस्थितम् ॥
यत्तेनोक्तं न यज्ञेन सदेहैर्गम्यते दिवि ॥२७॥
सोऽहं तपः करिष्यामि सांप्रतं वनमाश्रितः ॥
न करिष्यामि भूयोऽपि राज्यं पुत्रनिवेदितम् ॥२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रेण त्रिशंकोः सशरीरस्वर्गारोहणाय द्वादशवार्षिकयज्ञकरणंनाम पञ्चमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : December 18, 2024
TOP