नागरखण्डः - अध्याय १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥सूत उवाच ॥
आनर्त्ताधिपतिर्भूपश्चमत्कार इति स्मृतः ॥
एतस्मिन्नंतरे प्राप्तस्तत्र हंतुं वने मृगान्  ॥
स ददर्श मृगीं दूरान्निश्चलांगीं तरोरधः ॥
स्तनं सुताय यच्छंतीं विश्वस्तामकुतोभयाम् ॥२॥
अथ तां पार्थिवस्तूर्णं शरेणानतपर्वणा ॥
जघानाकर्णकृष्टेन मर्मस्थाने प्रहर्षितः ॥३॥
सहसा सा हता तेन गार्द्ध्रपत्रेण पत्रिणा ॥
दिशो विलोकयामास समंताद्व्यथयार्दिता ॥४॥
अथ दृष्ट्वा महीपालं नातिदूरे धनुर्धरम् ॥
प्रोवाचाश्रुपरिक्लिन्नवदना सुतवत्सला ॥५॥
 ॥मृग्युवाच ॥
अयुक्तं पृथिवीपाल यत्त्वयैतदनुष्ठितम् ॥
हताऽहं बालवत्साऽद्य शरेणानतपर्वणा ॥६॥
नाऽहं शोचामि भूपाल मरणं स्वशरीरगम् ॥
यथेमं वालकं दीनं क्षीरास्वादनलंपटम् ॥७॥
यस्मात्त्वयेदृशं कर्म निर्दयं समनुष्ठितम् ॥
कुष्ठव्याधिसमायुक्तस्तस्मात्सद्यो भविष्यसि ॥८॥
 ॥राजोवाच ॥
स्वधर्म एष भूपानां कुर्वंति मृगसंक्षयम् ॥
तस्मात्स्वधर्मसंयुक्तं न मां त्वं शप्तुमर्हसि ॥९॥
 ॥मृग्युवाच ॥
सत्यमेतन्महीपाल यत्त्वया परिकीर्तितम् ॥
क्षत्त्रियाणां वधार्थाय मृगाः सृष्टाः स्वयंभुवा ॥१०॥
परं तेन विधिस्तेषांकृतो यस्तं महीपते ॥
शृणुष्वाऽवहितो भूत्वा वदंत्या मम सांप्रतम् ॥११॥
सुप्तं मैथुनसंयुक्तं स्तनपानक्रियोद्यतम् ॥
हत्वा मृगं जलासक्तं नरः पापेन लिप्यते ॥१२॥
एतस्मात्कारणाच्छापस्तव दत्तो मया नृप ॥
न कामतो न मृत्योर्वा सत्येनात्मानमालभे ॥१३॥
एवमुक्त्वा मृगी प्राणान्सा मुमोच व्यथान्विता ॥
कुष्ठव्याधिसमायुक्तः सोऽपि राजा बभूव ह ॥१४॥
स दृष्ट्वा कुष्ठसंयुक्तं पार्थिवः स्वं कलेवरम् ॥
ततः स्वान्सेवकानाह समाहूय सुदुःखितः ॥१५॥
अहं तपश्चरिष्यामि पूजयिष्यामि शंकरम् ॥
तावद्यावत्प्रणाशो मे कुष्ठव्याधेर्भविष्यति ॥१६॥
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥
तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः ॥१७॥
अधुनैकोऽहमैकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं तु नियमैश्चरिष्यामि धरातले ॥१८॥
पांसुना समवच्छन्ने शून्यागारे प्रतिश्रयः ॥
वृक्षमूलनिकेते वा मुक्तसर्वप्रियाप्रियः ॥१९॥
समः शत्रुषु मित्रेषु समलोष्टाश्मकांचनः ॥
भूत्वा कालं नयिष्यामि यावत्कालस्य संस्थितिः ॥२०॥
एवं तान्सेवकान्भूपः सोऽभिधाय विसृज्य च ॥
तीर्थयात्रा परो भूत्वा बभ्राम वसुधातले ॥२१॥
ततः कालेन महता प्राप्य विप्रसमुद्भवम् ॥
उपदेशं नृपः प्राप्तः शंखतीर्थं महोदयम् ॥२२॥
हाटकेश्वरजे क्षेत्रे सर्वव्याधिविनाशकम् ॥
विख्यातं त्रिषु लोकेषु पूरितं स्वच्छवारिणा ॥२३॥
तत्राऽसौ स्नानमात्रेण तत्क्षणात्पार्थिवोतमः ॥
कुष्ठव्याधिवि निर्मुक्तः संजातः सुमहाद्युतिः ॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थमाहात्म्ये चमत्कारनृपतिकुष्ठनिवृत्तिवृत्तान्तवर्णनंनाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : December 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP