नागरखण्डः - अध्याय २२९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
एतस्मिन्नंतरे शम्भुर्गणैः सर्वैः समावृतः ॥
इन्द्राद्यैश्च सुरैः सर्वेः क्रोधसंरक्तलोचनः ॥
जगाम वृषमारुह्य पुरीं चैवामरावतीम् ॥१॥
अंधकोऽपि समालोक्य संप्राप्तां देववाहिनीम् ॥
सगणां च महादेवं परितोषं परं गतः ॥२॥
निश्चक्रामाथ युद्धाय बलेन चतुरंगिणा ॥
वरं स्यंदनमारुह्य सुश्वेताश्ववहं शुभम् ॥३॥
ततः समभवद्युद्धं देवानां दानवैः सह ॥
गणैश्च विकृताकारैर्मृत्युं कृत्वा निवर्तनम् ॥४॥
एकवर्षसहस्रांतं यावद्युद्धमवर्तत ॥
दिनेदिने क्षयं यांति तत्र देवा न दानवाः ॥५॥
ततो वर्षसहस्रांते संक्रुद्धः शशिशेखरः ॥
त्रिशूलेन समुद्यम्य स्वहस्तेन व्यभेदयत् ॥६॥
स विद्धोऽपि स्वयं तेन त्रिशूलेन महासुरः ॥
ब्रह्मणो वरमाहात्म्यान्नैव प्राणैविर्युज्यते ॥७॥
ततो भूयोऽपि चोत्थाय चक्रे युद्धं महात्मना ॥
जघान च स संक्रुद्धो विशेषेण बहून्गणान् ॥८॥
शंकरं ताडयामास गदाघातैर्मुहुर्मुहुः ॥९॥
एवं वर्षसहस्रांतमभूत्सार्द्धं पिनाकिना ॥
रौद्रं युद्धमन्धकस्य सर्वलोकभयावहम् ॥१०॥
त्रिशूलभिन्नो दैत्यः स यदा मृत्युं न गच्छति ॥
उत्थायोत्थाय कुरुते प्रहारान्गदया बली ॥११॥
तथा तं शंकरो ज्ञात्वा मृत्युना परिवर्जितम् ॥
ब्रह्मणो वरदानेन सर्वेषां च दिवौकसाम् ॥१२॥
ततो निर्भिद्य शूलाग्रैः प्रोत्क्षिप्य गगनांगणे ॥
छत्रवद्धारयामास लंबमानमधोमुखम् ॥
अक्षरद्रुधिरं भूमौ गात्रेभ्यो वर्ष्मसंभवम् ॥१३॥
यावद्वर्षसहस्रांते चर्मास्थि स्नायुरेव च ॥
धातुत्रयं स्थितं तस्य नष्टमन्यच्चतुष्टयम् ॥१४॥
स ज्ञात्वा बल संहीनमात्मानं धातुसंक्षयात् ॥
सामोपायं ततश्चके स्तुत्वा सार्धं पिनाकिना ॥१५॥
॥ अन्धक उवाच ॥
न त्वं देवो मया ज्ञातो वाग्दुष्टेन दुरात्मना ॥
ईदृग्वीर्यसमोपेतस्तद्युक्तं भवता कृतम् ॥१६॥
अनुरूपं मदांधस्याविवेकस्य सुरोत्तम ॥
स्ववीर्यमदयुक्तस्य विवेक रहितस्य च ॥१७॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेवच ॥
न तिष्ठति चिरं कालं यथाऽहं मदगर्वितः ॥१८॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ॥
त्राहि मां देव ईशान सर्वपापहरो भव ॥१९॥
दुःखितोऽहं वराकोऽहं दीनोऽहं शक्तिवर्जितः ॥
त्रातुमर्हसि मां देव प्रपन्नं शरणं विभो ॥२०॥
दुष्टोऽहं पापयुक्तोऽहं सांप्रतं परमेश्वर ॥
तेन बुद्धिरियं जाता तवोपरि ममानघ ॥२१॥
सर्वपापक्षये जाते शिवे भवति भावना ॥२२॥
नाममात्रमपि त्र्यक्ष यस्ते कीर्तयति प्रभो ॥
सोऽपि मुक्तिमवाप्नोति किं पुनः पूजने रतः ॥२३॥
तव पूजा विहीनानां दिनान्यायांति यांति च ॥
यानि देव मृतानां च तानि यांति न जीवताम् ॥२४॥
कुष्ठी वा रोगयुक्तो वा पंगुर्वा बधिरोऽपि वा ॥
मा भूत्तस्य कुले जन्म शंभुर्यत्र न देवता ॥२५॥
तस्मान्मोचय मां देव स्वागतं कुरु सांप्रतम् ॥
गतो मे दानवो भावस्त्यक्तं राज्यं तथा विभो ॥२६॥
त्यक्ताः पुत्राश्च पौत्राश्च पत्न्यश्च विभवैः सह ॥
त्रिः सत्येन सुरश्रेष्ठ तव पादौ स्पृशाम्यहम् ॥२७॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा तं गतकल्मषम् ॥
उत्तार्य शनकैः शूलाद्विनयावनतं स्थितम् ॥२८॥
ततो नाम स्वयं चक्रे भृंगिरीटिरिति प्रभुः ॥
अब्रवीच्च सदा मे त्वं वल्लभः संभविष्यसि ॥२९॥
नन्दिनोऽपि गजास्यस्य महाकालस्य पुत्रक ॥
तिष्ठ सौम्य मया सौख्यं न स्मरिष्यसि बांधवान् ॥३०॥
स तथेति प्रतिज्ञाय प्रणम्य शशिशेखरम् ॥
तस्थौ सर्वगणैर्युक्तः प्रभुसंश्रयसंयुतः ॥३१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये भृंगीरिट्युत्पत्तिवर्णनंनामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥२२९॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP