संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १४१

नागरखण्डः - अध्याय १४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूतउवाच ॥
तथान्योऽपि हि तत्रास्ति देवो मिष्टान्नदायकः ॥
यस्य संदर्शनादेव मिष्टान्नं लभते नरः ॥१॥
आसीत्पूर्वं नृपो नाम्ना वसुसेन इति स्मृतः ॥
आनर्त्ताधिपतिः ख्यातो बृहत्कल्पे द्विजोत्तमाः ॥२॥
अत्यैश्वर्यसमायुक्तो गजवाजिरथान्वितः ॥
जितारिपक्षस्तेजस्वी दाता भोगी जितेंद्रियः ॥३॥
स संक्रांतौ व्यतीपाते ग्रहणे रवि सोमयोः ॥
पर्वकालेषु चान्येषु विविधेषु सुभक्तितः ॥४॥
प्रयच्छति द्विजातिभ्यो रत्नानि विविधानि च ॥
इंद्रनीलमहानीलविद्रुमस्फटिकादि च ॥५॥
माणिक्यमौक्तिकान्येव विद्रुमाणि विशेषतः ॥
हस्त्यश्वरथयानानि वस्त्राणि विविधानि च ॥६॥
न कस्यचित्प्रदद्यात्स सस्यं ब्राह्मणसत्तमाः ॥
अतीव सुलभं मत्वा तथा तोयं विशेषतः ॥७॥
ततो राज्यं चिरं कृत्वा दृष्ट्वा पुत्रोद्भवान्सुतान् ॥
कालधर्ममनुप्राप्तः कस्मिंश्चित्कालपर्यये ॥८॥
ततश्च मंत्रिभिस्तस्य सत्यसेन इति स्मृतः ॥
अभिषिक्तः सुतो राज्ये वीर्योदार्यसमन्वितः ॥९॥
वसुसेनोऽपि संप्राप्य स्वर्गं दानप्रभावतः ॥
दिव्यांबरधरो भूत्वा दिव्यरत्नैर्विभूषितः ॥१०॥
सेव्यमानोऽप्सरोभिश्च विमानवरमाश्रितः ॥
बभ्राम सर्वलोकेषु स्वेच्छया क्षुत्समावृतः ॥११॥
पिपासाकुलचित्तश्च मुखेन परिशुष्यता ॥
न कंचिद्ददृशे तत्र भुंजानमपरं दिवि ॥१२  ॥
न च पानसमासक्तं न सस्यं सलिलं न च ॥१३॥
ततो गत्वा सहस्राक्षमुवाच द्विजसत्तमाः ॥
क्षुत्तृषावृतदेहस्तु लज्जयाऽधोमुखः स्थितः ॥१४॥
नैवात्र दृश्यते कश्चित्क्षुत्तृषापरिपीडितः ॥
मां मुक्त्वा विबुधश्रेष्ठ तत्किमेतद्वदस्वमे ॥१५॥
एष मे स्वर्गरूपेण नरकः समुपस्थितः ॥
किमेतैर्भूषणैर्वस्त्रैर्विमानादिभिरेव च ॥१६॥
क्षुधा संपीड्यमानस्य स्वर्गमेतच्छचीपते ॥
अग्नितुल्यं समुद्दिष्टं मम चित्तेऽपि वर्तते ॥१७॥
तस्मात्कुरु प्रसादं मे यथा क्षुन्न प्रबाधते ॥
नोचेत्क्षिप सुरश्रेष्ठ रौरवे नरके द्रुतम् ॥१८॥
 ॥ इंद्रउवाच ॥
अनर्होसि महीपाल नरकस्य त्वमेव हि ॥
त्वया दानानि दत्तानि संख्याहीनानि सर्वदा ॥१९॥
परं किं तु क्वचिन्नान्नं दत्तं राजन्न चोदकम् ॥
न किंचिदपि संचिंत्य यतः सुलभमेव हि ॥२०॥
तोयं सान्नं सदा दद्यादन्नं चैव सदक्षिणम् ॥
य इच्छेच्छाश्वतीं तृप्तिमिह लोके परत्र च ॥२१॥
तस्मात्त्वं हि क्षुधाविष्टः स्वर्गे चैव महीपते ॥
भूषितो भूषणैः श्रेष्ठैर्विमानवरमाश्रितः ॥२२॥
 ॥ राजोवाच ॥
अस्ति कश्चिदुपायोऽत्र देवौ वा मानुषोऽपि वा ॥
क्षुत्पिपासेऽतितीव्रे मे विनाशं येन गच्छतः ॥२३॥
 ॥ इन्द्र उवाच ॥
यदि कश्चित्सुतस्तुभ्यं विप्रेभ्यः सततं जलम् ॥
ददाति च सदा सस्यं तत्ते तृप्तिः प्रजायते ॥२४॥
नान्यथा पार्थिवश्रेष्ठ एकस्मिन्नपि वासरे ॥
अदत्तस्य तव प्राप्तिः सत्यमेतन्मयोदितम् ॥२५॥
सोऽपि भूमिपतेः पुत्रस्तव यच्छति नोदकम् ॥
न च सस्यं द्विजातिभ्यस्त्वन्मार्गमनुसंचरन् ॥२६॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥
ब्रह्मलोकात्स्थितौ यत्र तौ भूमिपसुरेश्वरौ ॥२७॥
ततः शक्रः समुत्थाय तस्मै तुष्टिसमन्वितः ॥
अर्घं दत्त्वा विधानेन सादरं चेदमब्रवीत्  ॥ाr २८॥
कुतः प्राप्तोऽसि विप्रेंद्र प्रस्थितः क्व च सांप्रतम् ॥
केन कार्येण चेद्गुह्यं न तेऽस्ति वद सांप्रतम् ॥२९॥
नारद उवाच ॥
ब्रह्मलोकादहं प्राप्तः प्रस्थितस्तु धरातले ॥
तीर्थयात्राकृते शक्र नान्यदस्तीह कारणम् ॥३०॥
 ॥ सूत उवाच ॥
तच्छ्रुत्वा स नृपो हृष्टस्तमुवाच मुनीश्वरम् ॥
प्रसादः क्रियतां मह्यं दीनस्य मुनिपुंगव ॥३१॥
त्वया भूमितले वाच्यो मम पुत्रो महीपतिः ॥
आनर्त्ताधिपतिः ख्यातः सत्यसेन इति प्रभो ॥३२॥
तव तातो मया दृष्टः शक्रस्य सदनं प्रति ॥
क्षुत्पिपासापरीतांगो दीनात्मा देवमध्यगः ॥३३॥
तस्मात्पुत्रोऽसि चेन्मह्यं त्वं सत्यं परिरक्षसि ॥
तन्मन्नाम्ना प्रयच्छोच्चैः सस्यानि सलिलानि च ॥३४॥
स तथेति प्रतिज्ञाय नारदो मुनिसत्तमः ॥
अनुज्ञाप्य सहस्राक्षं प्रस्थितो भूतलं प्रति ॥३५॥
ततः क्रमेण तीर्थानि भ्रममाणः स सद्द्विजः ॥
आनर्त्तविषयं प्राप्य सत्यसेनमुपाद्रवत् ॥३६॥
अथ संपूजितस्तेन सम्यग्भूपतिना मुनिः ॥
पितुः संदेशमाचख्यौ विजने तस्य सादरम् ॥३७॥
तच्छ्रुत्वा शोकसंतप्तः सत्यसेनो महीपतिः ॥
तं विसृज्य मुनिश्रेष्ठं पूजयित्वा विधानतः  ॥३८॥
ततो जनकमुद्दिश्य मिष्टान्नेन सुभक्तितः ॥
सहस्रं ब्राह्मणेंद्राणां भोजयामास नित्यशः ॥३९॥
प्रपादानं तथा चक्रे ग्रीष्मकाले विशेषतः ॥
त्यक्त्वान्याः सकला याश्च क्रिया धर्मसमुद्भवाः ॥४०॥
एवं तस्य महीपस्य वर्तमानस्य च द्विजाः ॥
अनावृष्टिरभूद्रौद्रा सर्वसस्यक्षयावहा ॥४१॥
यावद्द्वादशवर्षाणि न जलं त्रिदशाधिपः ॥
मुमोच धरणीपृष्ठे सर्वे लोकाः क्षुधार्दिताः ॥४२॥
अत्राभावात्ततो भूयो न सस्यं संप्रयच्छति ॥
ब्राह्मणेभ्यः समुद्दिश्य पितरं स्वं यथा पुरा ॥४३॥
ततः स क्षुत्परीतांगः पिता तस्य महीपतेः ॥
स्वप्ने प्रोवाच तं पुत्रमतीव मलिनांबरः ॥४४॥
त्वया पुत्रेण पुत्राहं क्षुत्पिपासासमाकुलः ॥
स्वर्गस्थोऽपि हि तिष्ठामि तस्मादन्नं प्रयच्छ वै ॥
मन्नाम्ना तोयसंयुक्तं यदि त्वं मत्समुद्भवः ॥४५॥
ततः शोकसमायुक्तः स नृपः स्वप्नदर्शनात् ॥
अन्नाभावात्समं मंत्रं मंत्रिभिः स तदाकरोत् ॥४६॥
अहमाराधयिष्यामि सस्यार्थे वृषभध्वजम् ॥
राज्ये रक्षा विधातव्या भवद्भिः सादरं सदा ॥४७॥
ततोऽत्रैव समागत्य स्थापयित्वा महेश्वरम् ॥
सम्यगाराधयामास व्रतैश्च नियमैस्तथा ॥४८॥
अथ तस्य गतस्तुष्टिं वर्षांते भगवाञ्छिवः ॥
अब्रवीद्वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥४९॥
राजोवाच ॥
अन्नार्थं देवदेवेश मयायं विहितो विधिः ॥
तस्मात्त्वं यच्छ मे शीघ्रमसंख्यं वृषवाहन ॥५०॥
तथा संजायता वृष्टिः समस्ते धरणीतले ॥
येन सस्यानि जायंते सलिलानि च सांप्रतम् ॥५१॥
जायतां मम तातस्य स्वर्गस्थस्य महात्मनः ॥
प्रसादात्तव संतृप्तिरक्षया सुरसत्तम ॥५२॥
 ॥ श्रीभगवानुवाच ॥
भविता न चिराद्वृष्टिः प्रभूता धरणीतले ॥
भविष्यंति तथान्नानि यानि कानि महीतले ॥५३॥
तस्मात्त्वं गच्छ राजेंद्र स्वगृहं प्रति सांप्रतम् ॥
मम वाक्यादसंदिग्धमेतदेव भविष्यति ॥५४॥
तच्चैतन्मामकं लिंगं यत्त्वया स्थापितं नृप ॥
प्रातरुत्थाय यः कश्चित्सम्यक्तद्वीक्षयिष्यति ॥५५॥
मिष्टान्नममृतस्वादु स हि नूनमवाप्स्यति ॥
मम वाक्यान्नृपश्रेष्ठ सदा जन्मनिजन्मनि ॥५६॥
स एवं भगवानुक्त्वा ततश्चादर्शनं गतः ॥
सोऽपि राजा निजं स्थानं हर्षेण महतान्वितः ॥
आजगाम चकाराथ राज्यं निहतकंटकम् ॥५७॥
 ॥ सूत उवाच ॥
अद्यापि कलिकालेऽत्र संप्राप्ते दारुणे युगे ॥
यस्तं मिष्टान्नदं पश्येत्प्रातरुत्थाय भक्तितः ॥५८॥
स मिष्टान्नमवाप्नोति यदि कामयते द्विजाः ॥
निष्कामो वा समभ्येति स्थानं देवस्य शूलिनः ॥५९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मिष्टान्नदेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४१॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP