नागरखण्डः - अध्याय २
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
तस्मिन्नुत्पाटिते लिंगे भूतलाद्द्विजसत्तमाः ॥
पातालाज्जाह्नवीतोयं तेन मार्गेण निःसृतम् ॥
सर्वपापहरं नॄणां सर्वकामप्रदायकम् ॥१॥
तत्र स्वयमभूत्पूर्वं यत्तद्द्विजवरोत्तमाः ॥
शृणुध्वं वदतो मेऽद्य लोकविस्मयकारकम् ॥२॥
त्रिशंकुर्नाम राजेंद्रश्चंडालत्वं समागतः ॥
तत्र स्नातः पुनर्लेभे शरीरं पार्थिवोचितम् ॥३॥
ऋषयः ऊचुः ॥
चंडालत्वं कथं प्राप्तस्त्रिशंकुर्नृपसत्तमः ॥
एतत्त्वं सर्वमाचक्ष्व विस्तरात्सूतनन्दन ॥४॥
सूत उवाच ॥
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् ॥
सर्वपापहरां मेध्यां त्रिशंकुनृपसंभवाम् ॥५॥
सूर्यवंशोद्भवः पूर्वं त्रिशंकुरिति विश्रुतः ॥
आसीत्पार्थिवशार्दूलः शार्दूलसमविक्रमः ॥६॥
वसिष्ठस्य मुनेः शिष्यो यज्वा दानपतिः प्रभुः ॥
तेनेष्टं च मखैः सर्वैरग्निष्टोमादिभिः सदा ॥७॥
संपूर्णदक्षिणैरेव वत्सरं वत्सरं प्रति ॥
तथा दानानि सर्वाणि प्रदत्तानि महात्मना ॥८॥
ब्राह्मणेभ्यो विशिष्टेभ्यो दीनेभ्यश्च विशेषतः ॥
व्रतानि च प्रचीर्णानि रक्षिताः शरणागताः ॥९॥
पुत्रवल्लालिता लोकाः शत्रवश्च निषूदिताः ॥
भ्रांतानि भूतले यानि तीर्थान्यायतनानि च ॥
तपस्विभ्यो यथाकामं यच्छता वांछितं धनम् ॥१०॥
कस्यचित्त्वथ कालस्य वसिष्ठो भगवान्मुनिः ॥
तेन प्रोक्तः सभामध्ये संस्थितो नतिपूर्वकम् ॥११॥
त्रिशंकुरुवाच ॥
भगवन्यष्टुमिच्छामि तेन यज्ञेन सांप्रतम् ॥
गम्यते त्रिदिवं येन सशरीरेण सत्वरम् ॥१२॥
तस्मात्कुरु प्रसादं मे संभारानाहर द्रुतम् ॥
तस्य यज्ञस्य सिद्ध्यर्थं यथार्हान्ब्राह्मणांस्तथा ॥१३॥
वसिष्ठ उवाच ॥
न स कश्चित्क्रतुर्येन गम्यते त्रिदिवं नृप ॥
अनेनैव शरीरेण सत्यमेतद्ब्रवीम्यहम् ॥१४॥
अग्निष्टोमादयो यज्ञा ये प्रोक्ताः प्राक्स्वयंभुवा ॥
अन्यदेहांतरे स्वर्गः प्राप्यते तैः कृतैर्नृप ॥१५॥
यदि वा पृथिवीपाल त्वया यज्ञप्रभावतः ॥
पार्थिवो वा द्विजो वाथ वैश्यो वान्यतरोऽपि वा ॥१६॥
स्वयं दृष्टः श्रुतो वापि संजातोऽत्र धरातले ॥
स्वर्गं गतः शरीरेण सहितस्तत्प्रकीर्तय ॥१७॥
त्रिशंकुरुवाच ॥
नासाध्यं विद्यते ब्रह्मंस्तवाहं वेद्मि तत्त्वतः ॥
तस्मात्कुरु प्रसादं मे यथा स्यान्मनसेप्सितम् ॥१८॥
वसिष्ठ उवाच ॥
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि हि जिह्वया ॥
तस्मान्नास्ति मखः कश्चित्सत्यं त्वं यष्टुमिच्छसि ॥१९॥
त्रिशंकुरुवाच ॥
यदि मां विप्रशार्दूल न त्वं याजयितुं क्षमः ॥
स्वर्गप्रदेन यज्ञेन वपुषानेन वै विभो ॥२०॥
तत्किं ते तपसः शक्त्या ब्राह्मणस्य विचक्षण ॥
अपरं शृणु मे वाक्यं यद्ब्रवीमि परिस्फुटम् ॥
शृण्वतां मुनिवृन्दानां तथान्येषां द्विजोत्तम ॥२१॥
यदि मे न करोषि त्वं वचनं वदतोऽसकृत् ॥
तेन यज्ञेन यक्ष्येऽहं तत्कृत्वान्यं द्विजं गुरुम् ॥२२॥
सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवांस्ततः ॥
तमुवाच विहस्योच्चैः कुरुष्वैवं महीपते ॥२३॥
इति श्रीस्कान्दे महापुराण ेकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये त्रिशंकूपाख्याने त्रिशंकुवसिष्ठसंवादवर्णनं नाम द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : December 18, 2024
TOP