नागरखण्डः - अध्याय १५५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
तथाऽन्ये तत्र तिष्ठंति वसवोऽष्टौ द्विजोत्तमाः ॥
स्थानमेकं समाश्रित्य सर्वदैव प्रपूजिताः ॥१॥
एकादश तथा रुद्रा आदित्या द्वादशैव तु ॥
देववैद्यौ तथा चान्यावश्विनौ तत्र संस्थितौ ॥२॥
देवतास्तत्र तिष्ठंति कोटिकोटिप्रनायकाः ॥
एकैका ब्राह्मणश्रेष्ठाः कलिकालभयाकुलाः ॥३॥
हाटकेश्वरजे क्षेत्रे यज्ञभागाप्तये सदा ॥
अष्टम्यां शुक्लपक्षे तु मधुमासे व्यवस्थिते ॥४॥
यस्तान्वसूञ्छुचिर्भूत्वा स्नात्वा धौतांबरो नरः ॥
तर्पयित्वा द्विजश्रेष्ठान्पश्चात्संपूजयेन्नरः ॥५॥
वसवस्त्वा कृण्वन्निति मन्त्रेणानेन भक्तितः ॥
नैवेद्यं च ततो दद्याद्वसवश्छंदसाविति ॥६॥
ततो धूपं सुगन्धं च यो यच्छति समाहितः ॥
वसवस्त्वां जेतु तथा मन्त्रमेतमुदीरयेत् ॥७॥
आरार्तिकं ततो भूयो यः करोति द्विजोत्तमाः ॥
वसवस्त्वां जेतु तथा श्रूयतां यत्फलं हि तत् ॥८॥
कन्याभिः कोटिभिर्यच्च पूजिताभिर्भवेत्फलम् ॥
वसूनां चैव तत्सर्वमष्टभिस्तैः प्रपूजितैः ॥९॥
तथा ये द्वादशादित्यास्तस्मिन्क्षेत्रे व्यवस्थिताः ॥
तान्स्थाप्य पूजयित्वा च सप्तम्यामर्कवासरे ॥
सम्यक्छ्रद्धासमोपेतः पुष्पगन्धानुलेपनैः ॥१०॥
पश्चात्तत्पुरतस्तेषां समस्तान्येकविंशतिः ॥
आदित्यव्रत संज्ञानि तस्य पुण्यफलं शृणु ॥११॥
कोटिद्वादशकं यस्तु सूर्याणां पूजयेन्नरः ॥
तत्फलं प्राप्नुयात्कृत्स्नं पूजयन्नात्र संशयः ॥१२॥
तथैकादशरुद्रा ये तत्र क्षेत्रे द्विजोत्तमाः ॥
एकस्थाने स्थितास्तेषां पूजया श्रूयतां फलम् ॥१३॥
यस्तान्पूजयते भक्त्या स्थापयित्वा सुरेश्वरान् ॥
चैत्रशुक्लचतुर्दश्यां जपेच्च शतरुद्रियम् ॥१४॥
एकादशप्रमाणेन कोटयस्तेन पूजिताः ॥
भवंति नात्र संदेहः सत्यमेतन्मयोदितम् ॥१५॥
यथा तावश्विनौ तत्र देववैद्यौ व्यवस्थितौ ॥
आश्विने मासि चाश्विन्यां पूर्णिमायां तथा तिथौ ॥१६॥
यस्तौ संपूजयित्वा तु ह्यश्विनीसूक्तमुच्चरेत् ॥
द्विकोटि गुणितं पुण्यं सम्यक्तेन समाप्यते ॥१७॥
एतद्वः सर्वमाख्यातं माहात्म्यं वसुसंभवम् ॥
आदित्यानां च रुद्राणामश्विनोर्द्विजसत्तमाः ॥१९८॥
॥ सूत उवाच ॥
तथाऽन्योऽपि च तत्रास्ति याज्ञवल्क्यप्रतिष्ठितः ॥
पुष्पादित्य इति ख्यातः सर्वकामप्रदो नृणाम् ॥१९॥
यो यं काममभिध्याय तं पूजयति मानवः ॥
स तं कृत्स्नमवाप्नोति यद्यपि स्यात्सुदुर्लभम् ॥२०॥
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥
बहुवैरोऽरिनाशं च विद्यार्थी शास्त्रविद्भवेत् ॥२१॥
सप्तम्यामर्कवारेण यस्तं पश्यति मानवः ॥
मुच्येद्दिनोद्भवात्पापान्महतोऽपिद्विजोत्तमाः ॥२२॥
पूजया हि प्रणश्येत पापं वर्षसमुद्भवम् ॥
नाशं याति न संदेहस्तमः सूर्योदये यथा ॥२३॥
अष्टोत्तरशतं चैव यः करोति प्रदक्षिणाम् ॥
फलहस्तः स मुच्येत ह्याजन्ममरणादघात् ॥२४॥
प्रदक्षिणां प्रकुवाणो यो यं काममभीप्सति ॥
स तमाप्नोत्यसंदिग्धं निष्कामो मोक्षमाप्नुयात् ॥२५॥
संक्रांतौ सूर्यवारेण यः कुर्यात्स्नापनक्रियाम् ॥
अभीष्टं सिध्यते तस्य मेषे वा यदि वा तुले ॥२६॥
तस्मिन्सर्वप्रयत्नेन वांछद्भिरीप्सितं फलम् ॥
स देवो वीक्षणीयश्च पूजनीयो विशेषतः ॥२७॥
यद्देवैः सकलैर्दृष्टैश्चमत्कारपुरोद्भवैः ॥
फलमाप्नोति तद्दृष्टौ तेन तत्फलमाप्नुयात् ॥२८॥
॥ ऋषय ऊचुः ॥
याज्ञवल्क्येन देवोऽसौ यदि तावत्प्रतिष्ठितः ॥
पुष्पादित्यः कथं प्रोक्त एतन्नो वक्तुमर्हसि ॥२९॥
॥ सूत उवाच ॥
अत्र वः कीर्तयिष्यामि चेतिहासं पुरातनम् ॥
पुष्पादित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः ॥३०॥
अस्त्यत्र मेदिनीपृष्ठे सुपुरं वैदिशं महत् ॥
नानासौध समाकीर्णं वरप्राकारशोभितम् ॥३१॥
उद्यानशतसंकीर्णं तडागैरुपशोभितम् ॥
तत्रासीत्पार्थिवश्रेष्ठश्चित्रवर्मेति विश्रुतः ॥३२॥
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥
तस्मिञ्छासति धर्मज्ञे सततं धर्मवत्सले ॥३३॥
तत्पुरे क्षत्रियो जात्या मणिभद्र इति स्मृतः ॥
स वै धनेन संयुक्तः पितृपैतामहेन च ॥३४॥
तत्पुरं सकलं चैव स राजा मंत्रिभिः सह ॥
कुसीदाहृतवित्तेन वर्तते कार्य उत्थिते ॥३५॥
स च कायेन कुब्जः स्याज्जराव्याप्तस्तथैव च ॥
वलीपलितगात्रश्च ह्यत्यंतं च विरूपधृक् ॥३६॥
तथा चैव कुकीनाशः प्रभूतेऽपि धने सति ॥
न ददाति स पापात्मा कस्यचित्किञ्चिदेव हि ॥
न भक्षयति तृष्णार्तः स्वयमेव कथंचन ॥३७॥
एवंविधोऽपि सोऽतीवविरूपोऽपि सुदुर्मतिः ॥
प्रार्थयामास वै कन्यां स्वजात्यां वीक्ष्य सुंदरीम् ॥३८॥
बिंबोष्ठीं चारुदेहां च मुष्टिग्राह्यकृशोदरीम् ॥
पद्मपत्रविशालाक्षीं गूढगुल्फां सुकेशिकाम् ॥३९॥
रक्तां सप्तसु गात्रेषु त्रिगंभीरां तथा पुनः ॥
सर्वलक्षणसंपूर्णां जातीयां सुमनोरमाम् ॥४०॥
क्षत्रियाद्द्विजशार्दूला दरिद्रेण च पीडितात् ॥
तेन तत्सकलं वृत्तं भार्यायै संनिवेदितम् ॥४१॥
तच्छ्रुत्वा सा च दुःखेन मूर्च्छिता संबभूव ह ॥
संबोधिता ततस्तेन वाक्यैर्दृष्टांतसंभवैः ॥४२॥
॥ क्षत्रिय उवाच ॥
न सा विद्या न तच्छिल्पं न तत्कार्यं न सा कला ॥
अर्थार्थिभिर्न तज्ज्ञानं धनिनां यन्न दीयते ॥४३॥
इह लोके च धनिनां परोऽपि स्वजनायते ॥
स्वजनोऽपि दरिद्राणां कार्यार्थे दुर्जनायते ॥४४॥
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ॥
प्रवर्तंते क्रियाः सर्वाः पर्वतेभ्यो यथापगाः ॥४५॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ॥
वंद्यते यदवन्द्योऽपि ह्यनुबंधो धनस्य सः ॥४६॥
अशनादिंद्रिया णीव स्युः कार्याण्यखिलानिह ॥
सर्वस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥४७॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वः संयाति दूरतः ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादि त्यमाहालये मणिभद्रवृत्तांते मणिभद्राय कन्याप्रदानार्थं क्षत्रियकृतनिजभार्यासंबोधनवर्णनंनाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥१५५॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP