नागरखण्डः - अध्याय २०८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ विश्वामित्र उवाच ॥
एवं शक्रे दिवं प्राप्ते देवेषु सकलेषु च ॥
गौतमः स्वाश्रमं प्रापत्कोपेन महता ज्वलन् ॥१॥
ततः स कथयामास सर्वं देवविचेष्टितम् ॥
वरदानं च शक्राय शता नन्दस्य चाग्रतः ॥२॥
तच्छ्रुत्वा पितरं प्राह विनयावनतः स्थितः ॥
तातांबाया न कस्मात्त्वं प्रसादं प्रकरोषि मे ॥३॥
उत्थापने न ते किञ्चिदसाध्यं विद्यते विभो ॥
तस्मात्कुरु प्रसादं मे यथा स्यान्मम चांबया ॥४॥
समागमो मुनिश्रेष्ठ दीनस्योत्कण्ठितस्य च ॥
तस्मादुत्थाप्य तां तूर्णं प्रायश्चित्तविधिं ततः ॥
तस्मादादिश मे क्षिप्रं येन शुद्धिः प्रजायते ॥५॥
॥ गौतम उवाच ॥
मद्यावलिप्तभांडस्य यदि शुद्धिः प्रजायते ॥
तत्स्त्रीणां जायतेशुद्धिर्योनौ शुक्राभिषेचनात् ॥६॥
ब्राह्मणस्तु सुरां पीत्वा मौंजीहोमेन शुध्यति ॥
तिंगिनीं साधयित्वा च न तु नारी विधर्मिता ॥७॥
मद्यभांडमपि प्रायो यथावद्वह्निशोधितम् ॥
विशुध्यति तथा नारी वह्निदग्धा विशुध्यति ॥
यस्या रेतोऽथ संक्रांत मुदरांतेऽन्यसंभवम् ॥८॥
एतस्मात्कारणान्माता मया ते पुत्र सा शिला ॥
विहिता न हि तस्याश्च विशुद्धिस्तु कथञ्चन ॥९॥
॥ शतानन्द उवाच ॥
यद्येवं साधयिष्यामि तत्कृतेऽहं हुताशनम् ॥
विषं वा भक्षयिष्यामि पतिष्यामि जलाशये ॥१०॥
मातुर्वियोगतस्तात सत्यमेतन्मयोदितम् ॥
धर्मद्रोणाः स्थिताश्चान्ये मन्वाद्या मुनयस्तथा ॥११॥
इतिहासपुराणानि वेदांतानि बहूनि च ॥
संचिंत्य तात सर्वाणि देहि शुद्धिं ममापि ताम् ॥
मम मातुः करिष्यामि नो चेत्प्राणपरिक्षयम् ॥१२॥
॥ विश्वामित्र उवाच ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा गौतमः प्राह तं सुतम् ॥
परिष्वज्य स्वबाहुभ्यां मूर्ध्न्याघ्राय ततः परम् ॥१३॥
यद्येवं वत्स मा कार्षीः साहसं पापसंभवम् ॥
आत्मदेहविघातेन श्रूयतां वचनं मम ॥१४॥
मेध्यत्वे तव मातुश्च शुद्धिर्ज्ञाता मया पुरा ॥
यया सा मम हर्म्यार्हा भविष्यति न संशयः ॥१५॥
उत्पत्स्यते रवेर्वंशे रामरूपी जना र्दनः ॥
रावणस्य वधार्थाय मानुषं रूपमास्थितः ॥१६॥
तस्य पादस्य संस्पर्शाद्भूयः शुद्धा भविष्यति ॥
तस्मात्प्रतीक्ष्य तावत्त्वमौत्सुक्यं व्रज पुत्रक ॥१७॥
एतत्सम्यङ्मया ज्ञातं वत्स दिव्येन चक्षुषा ॥१८॥
एतच्छ्रुत्वा तथेत्युक्त्वा शतानन्दः प्रहर्षितः ॥
स्थितः प्रतीक्षमाणस्तु तं कालं मातृवत्सलः ॥१९॥
ततः कालेन महता रामरूपी जनार्दनः ॥
रावणस्य वधार्थाय जातो दशरथालये ॥२०॥
स मया भगवा विष्णुर्बालभावेन संस्थितः ॥
निजयज्ञस्यरक्षार्थं समानीतः स्वमाश्रमम् ॥
राक्षसानां विनाशाय यज्ञकर्मविनाशिनाम् ॥२१॥
हतैस्तै राक्षसै रौद्रैर्मम पूर्णोऽभवन्मखः ॥
अयोध्यायाः समानीतः स मया रघुनंदनः ॥२२॥
सीतायाश्च विवाहार्थं लक्ष्मणेन समन्वितः ॥
श्रुत्वा स्वयंवरं तस्याः पार्थिवानां समागमम् ॥२३॥
ततो मार्गे मया दृष्टा गौतमस्याश्रमे शुभे ॥
अहिल्या सा शिला रूपा प्रमाणेन महत्तमा ॥२४॥
ततः प्रोक्तो मया रामः स्पृशेमां वत्स पाणिना ॥
मानुषत्वं लभेद्येन गौतमस्य प्रिया मुनेः ॥
शापदोषेण संजाता शिलेयं तस्य सन्मुनेः ॥२५॥
अविकल्पं ततो रामो मम वाक्येन तां शिलाम् ॥
पस्पर्श पार्थिवश्रेष्ठ कौतू हलसमन्वितः ॥२६॥
अथ रामेण संस्पृष्टा सहसैवांगना मुनेः ॥
शुशुभे मानुषी जाता दिव्यरूपवपुर्धरा ॥२७॥
ततः सा लज्जयाऽऽविष्टा प्रणिपत्य च गौतमम् ॥
स्मरमाणाऽऽत्मनः कृत्यं यच्छक्रेण समन्वितम् ॥२८॥
प्रायश्चित्तं मम स्वामिन्देहि सर्वमशेषतः ॥
यन्नरस्य समायोगे परस्याह प्रजापतिः ॥२९॥
अहं दुष्करमप्येतत्करिष्यामि न संशयः ॥
येन शुद्धिर्भवेन्मह्यं पुरश्चरणसेवनात् ॥३०॥
ततः संचिंत्य सुचिरं प्रोवाच गौतमस्तदा ॥
कुरु चान्द्रायणशतं कृच्छ्राणां च सहस्रकम् ॥३१॥
प्राजापत्यायुतं चापि तीर्थयात्रापरायणा ॥
अष्टषष्टिषु तीर्थेषु यानि तीर्थानि भूतले ॥
तेषां संदर्शनात्सम्यक्ततः शुद्धिमवाप्स्यसि ॥३२॥
सा तथैति प्रतिज्ञाय नित्यं व्रतपरायणा ॥
अष्टषष्टिसु तीर्थेषु वाराणस्यादिषु क्रमात् ॥३३॥
बभ्राम तानि लिंगानि पूजयन्ती प्रभक्तितः ॥
क्रमेणैव तु संप्राप्ता हाटकेश्वरसंभवम् ॥३४॥
यावत्पश्यति सा साध्वी तावन्नागबिलो महान् ॥
पूरितो नागरेणैव मार्गः पातालसंभवः ॥३५॥
गच्छंति येन पूर्वं तु तीर्थयात्रापरायणाः ॥
हाटकेश्वरदेवस्य दर्शनार्थं मुनीश्वराः ॥३६॥
अथ सा चिन्तयामास न दृष्टे तु सुरेश्वरे ॥
हाटकेश्वरदेवे च न हि यात्राफलं लभेत् ॥३७॥
तस्मात्तपः करि ष्यामि स्थित्वा चैव सुदुष्करम् ॥
येनाहं तत्प्रभावेन तं पश्यामि सुरेश्वरम् ॥३८॥
एवं सा निश्चयं कृत्वा तपस्तेपे सुदुष्करम् ॥
दर्शनार्थं हि देवस्य पातालनिलयस्य च ॥३९॥
पंचाग्निसाधका ग्रीष्मे हेमन्ते सलिलाश्रया ॥
वर्षास्वाकाशशयना सा बभूव तपस्विनी ॥४०॥
हरलिंगं प्रतिष्ठाप्य स्वनाम्ना चांतिके तदा ॥
त्रिकालं पूजयामास गन्धपुष्पानुलेपनैः ॥४१॥
एवं तपसि संस्थायास्तस्याः कालो महान्गतः ॥
न च संदर्शनं जातं हाटकेश्वरसंभवम् ॥४२॥
कस्यचित्त्वथ कालस्य शतानन्दश्च तत्सुतः ॥
स तामन्वेषमाणस्तु तस्मिन्क्षेत्रे समागतः ॥
मातृस्नेह परीतात्मा तीर्थान्वेषणतत्परः ॥४३॥
अथ तां तत्र संवीक्ष्य दारुणे तपसि स्थिताम् ॥
प्रणिपत्य स्थितो दीनः सदुःखो वाक्यमब्रवीत् ॥४४॥
किमत्र क्लिश्यते कायस्तपः कृत्वा सुदारुणम् ॥
सप्तषष्टिषु तीर्थेषु यानि लिंगानि तेषु च ॥४५॥
माहेश्वराणि लिंगानि तानि दृष्टानि च त्वया ॥
एतत्पातालसंस्थं च हाटकेश्वरसंज्ञितम् ॥४६॥
न पश्यति नरः कश्चिद्दृष्टं क्षेत्रे न केनचित् ॥
तेन शुद्धिश्च संजाता स्वभर्त्रा विहिता तु या ॥४७॥
तस्मादागच्छ गच्छामस्ताताश्रामपदे शुभे ॥
त्वन्मार्गं वीक्षते तातः कर्षुको वर्षणं यथा ॥४८॥
॥ आहिल्योवाच ॥
यावत्पश्यामि नो देवं हाटकेश्वरसंज्ञितम् ॥
तावद्गच्छामि नो गेहं यदा पश्यामि तं हरम् ॥४९॥
तदा यास्ये गृहं पुत्र निश्चयोऽयं मया कृतः ॥५०॥
तच्छ्रुत्वा सोऽपि तां प्राह ह्येष चेन्निश्चयस्तव ॥
मयाऽपि तातपार्श्वे तु प्रगंतव्यं त्वया -प ॥५१॥
एवमुक्त्वा ततः सोपि स्थापयामास शांभ वम् ॥
लिंगं च पूजयामास त्रिकालं तपसि स्थितः ॥५२॥
शतानन्दस्तु राजर्षिः गन्धपुष्पानुलेपनैः ॥
नैवेद्यैर्विविधैः सूक्तैर्वेदोक्तैः पर्यतोषयत् ॥५३॥
षष्ठान्नकालभोज्यस्य व्रतचर्यारतस्य च ॥
एवं तस्याऽपि संस्थस्य गतः कालो महान्मुने ॥
न च तुष्यति देवेश स्ताभ्यां द्वाभ्यां कथञ्चन ॥५४॥
ततः कालेन महता गौतमोऽपि महामुनिः ॥
आजगाम स्वयं तत्र पुत्रदर्शनलालसः ॥५५॥
स दृष्ट्वा भार्यया सार्धं पुत्रं तपसि संस्थितम् ॥
तुतोष प्रथमं तावत्पश्चादुःखसमन्वितः ॥५६॥
अहो बत महत्कष्टं पुत्रो मे कृशतां गतः ॥
तपसः संप्रभावेन नयामि स्वगृहं कथम् ॥
भार्येयं च तथा मह्यं विवर्णा तु कृशा स्थिता ॥५७॥
एवं संचिंत्य मनसा तावुभौ प्रत्यभाषत ॥
गम्यतां स्वगृहं कृत्वा तपसः संनिवर्तनम् ॥५८॥
॥ शतानन्द उवाच ॥
तातांबा बहुधा प्रोक्ता तपसः संनिवर्तने ॥
नो गच्छति तथा हर्म्यमदृष्टे हाटकेश्वरे ॥५९॥
अहं तया विहीनस्तु नैव यास्यामि निश्चितम् ॥
एवं ज्ञात्वा महाभाग यद्युक्तं तत्समाचर ॥६०॥
॥ गौतम उवाच ॥
यद्येवं निश्चयो वत्स तव मातुश्च संस्थितः ॥
अहं ते दर्शयिष्यामि तपसा हाटकेश्वरम् ॥६१॥
एवमुक्त्वा ततः सोऽपि तपश्चक्रे महामुनिः ॥
एकांतरोपवासस्तु स्थितो वर्षशतं मुनिः ॥
षष्ठान्नकालभोजी च तावत्काले ततोऽभवत् ॥६२॥
त्रिरात्रभोजी पश्चाच्च स बभूव मुनीश्वरः ॥
तावत्कालं फलैर्निन्ये तावत्कालं जलाशनः ॥
वायुभक्षस्ततो भूयस्तावत्कालमभून्मुनिः ॥६३॥
ततो वर्षसहस्रांते परमे संव्यवस्थिते ॥
प्रभिद्य मेदिनीपृष्ठं निष्क्रांतं लिंगमुत्तमम् ॥६४॥
द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम ॥
एतस्मिन्नंतरे देवः शंभुः प्रत्यक्षतां गतः ॥६५॥
एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥
तस्य दृष्टिपथं गत्वा वाक्यमेतदुवाच ह ॥६६॥
गौतमाऽहं प्रतुष्टस्ते तपसाऽनेन सुव्रत ॥६७॥
एतच्च मामकं लिंगं हाटकेश्वरसंज्ञितम् ॥
पातालाच्च विनिष्क्रांतं तव भक्त्या महामुने ॥६८॥
एतदर्थं तपस्तप्तं सभार्येण त्वया हि तत् ॥
सपुत्रेणाखिलं जातं फलं तस्य यथेप्सितम् ॥६९॥
एतत्पश्यतु ते भार्या अहिल्या दिव्यरूपिणी ॥
अष्टषष्ट्युद्भवं येन यात्राफलमवाप्नुयात् ॥७०॥
त्वं चापि प्रार्थय वरं येन सर्वं ददामि ते ॥७१॥
॥ गौतम उवाच ॥
हाटकेश्वरसंज्ञे तु सकृद्दृष्टे च यत्फलम् ॥
पातालस्थे च यत्पुण्यं नराणां जायते फलम् ॥
दृष्टेनानेन तत्पुण्यं पूजितेन विशेषतः ॥७२॥
अन्येऽपि ये जनास्तच्च पूजयंति प्रभक्तितः ॥
चैत्रशुक्लचतुर्दश्यां ते प्रयांतु त्रिविष्टपम् ॥७३॥
एतल्लिंगं न जानंति नराः सिद्ध्यभिकांक्षिणः ॥
विशंति विवरं तेन हाटकेश्वरकांक्षया ॥७४॥
अपि पापसमोपेता लिंगस्यास्य प्रभावतः ॥
परदारोद्भवा त्पापादहिल्येश्वरदर्शनात् ॥७९॥
मुच्यंते मानवास्तद्वच्छतानंदेश्वरादपि ॥
तस्मिन्दिने विहितया ताभ्यां चैव प्रपूजया ॥७६॥
॥ विश्वामित्र उवाच ॥
एतस्मिन्नेव काले तु व्याप्तः स्वर्गोऽखिलो नृप ॥
मानुषैरपि पापाढ्यैः सर्वधर्मविवर्जितैः ॥७७॥
न कश्चित्कुरुते यज्ञं तीर्थ यात्रामथापरम् ॥
न व्रतं नियमं चैव दानस्यापि कथामपि ॥७८॥
तच्च लिंगत्रयं दृष्ट्वा स्पृष्ट्वा संपूज्य भक्तितः ॥७९॥
ततो भीताः सुराः सर्वे सस्पर्धैर्मानुषैर्वृताः ॥
प्रोचुः पुरंदरं गत्वा व्यथया प्रया युताः ॥८०॥
मर्त्यलोके सहस्राक्ष सर्वे धर्माः क्षयं गताः ॥
अपि पापसमाचारा अभ्येत्य पुरुषा इह ॥८१॥
अस्माभिः सह गर्वाढ्याः स्पर्धां कुर्वंति सर्वदा ॥
हाटकेश्वरजे क्षेत्रे लिंगत्रयमनुत्तमम् ॥८२॥
यत्स्थितं स्थापितं तत्र गौतमेन महात्मना ॥
सपुत्रेण सदारेण तस्य पूजाप्रभावतः ॥८३॥
अपि पापसमाचारा इहागच्छंति तेऽखिलाः ॥
यमस्य नरकाः सर्वे सांप्रतं शून्यतां गताः ॥८४॥
गौतमेन समानीतः पातालाद्धाटकेश्वरः ॥
तपसा तोषयित्वा तु तत्र स्थाने सुरेश्वरः ॥८५॥
तत्प्रभावादयं जातो व्यवहारो धरातले ॥८६॥
एवं ज्ञात्वा प्रवर्तंते यथा यज्ञास्तथा कुरु ॥
तैर्विना नैव तृप्तिः स्यादस्माकं च कथंचन ॥८७॥
तच्छ्रुत्वा वासवस्तत्र समाहूय च मन्मथम् ॥
क्रोधं लोभं तथा दंभं मत्सरं द्वेषसंयुतम् ॥९८॥
गत्वा धरातलं सर्वे ममादेशाद्द्रुतं ततः ॥
स्वशक्त्या वारयध्वं भो गौतमेश्वरपूजकान् ॥८९॥
अहिल्येश्वरदेवस्य शतानंदेश्वरस्य च ॥
शक्रादेशं तु संप्राप्य ते गता धरणीतले ॥९०॥
कामादिका नरान्भेजुर्गौतमेश्वरपूजकान् ॥
तथाऽहिल्येश्वरस्यापि शतानंदेश्वरस्य च ॥९१॥
ततो भूयो मखा जाताः समग्रे धरणीतले ॥
संपूर्णदक्षिणाः सर्वे वतानि नियमास्तथा ॥९२॥
तीर्थयात्रा जपो होमो याश्चान्याः सुकृतक्रियाः ॥
एतत्सर्वं मया ख्यातं यत्पृष्टोऽस्मि धराधिप ॥९३॥
गयाकूप्यनुषंगेण शक्रगौतमचेष्टितम् ॥
बालमण्डनमाहात्म्यं शक्रेश्वरसमन्वितम् ॥९४॥
इन्द्रस्य स्थापनं मर्त्ये अहिल्याख्यानमेव च ॥
गौतमेश्वरमाहात्म्यं तथाहिल्येश्वरस्य च ॥९५॥
यश्चैतच्छृणुयान्नित्यं श्रद्धया परया युतः ॥
स मुच्येत्पातकात्सद्यः परदारसमुद्भवात् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वराहिल्येश्वर शतानन्देश्वरमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमोऽध्यायः ॥२०८॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP