संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २७०

नागरखण्डः - अध्याय २७०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


आनर्त उवाच ॥
मूर्खत्वाद्वा प्रमादाद्वा कामाद्बालस्यतोऽपि वा ॥
यो नरः कुरुते पापं प्रायश्चित्तं करोति न ॥१॥
तस्य पापक्षयकरं पुण्यं ब्रूहि द्विजोत्तम ॥
येन मुक्तिर्भवेत्सद्यो यदि तुष्टोऽसि मे प्रभो ॥२॥
लोभमोहपरो योऽसौ पापपिंडं महामुने ॥
प्रददाति विधिं ब्रूहि येन यच्छाम्यहं द्रुतम् ॥३॥
भर्तृयज्ञ उवाच ॥
दद्यात्स्वपिंडं सौवर्णं पंचविंशत्पलात्मकम् ॥४॥
विधायापरपक्षे तु स्नापयित्वा विधानतः ॥
मंडपाद्यं च प्राक्कृत्वा स्नात्वा धौतांबरः शुचिः ॥५॥
तदा स्वरूपं पृथ्व्यादि पूजयेत्पापकृन्नरः ॥
तथा स मुच्यते पापात्तत्कृताद्धि न संशयः ॥६॥
चतुर्विंशतितत्त्वानि पृथिव्यादीनि यानि च ॥
तेषां नामभिस्तत्पिंडं पूजयेतन्नराधिपः ॥७॥
ॐ पृथिव्यै नमः ॥
ॐ अद्भ्यो नमः ॥
ॐ तेजसे नमः ॥
ॐ वायवे नमः ॥
ॐ आकाशाय नमः ॥
ॐ घ्राणाय नमः ॥
ॐ जिह्वायै नमः ॥
ॐ चक्षुषे नमः ॥
ॐ त्वचे नमः ॥
ॐ श्रोत्राय नमः ॥
ॐ गन्धाय नमः ॥
ॐ रसाय नमः ॥
ॐ रूपाय नमः ॥
ॐ स्पर्शाय नमः ॥
ॐ शब्दाय नमः ॥
ॐ वाचे नमः ॥
ॐ पाणिभ्यां नमः ॥
ॐ पादाभ्यां नमः ॥
ॐ पायवे नमः ॥
ॐ उपस्थाय नमः ॥
ॐ मनसे नमः ॥
ॐ बुद्ध्यै नमः ॥
ॐ चित्ताय नमः ॥
ॐ अहंकाराय नमः ॥
ॐ क्षेत्रात्मने नमः ॥
ॐ परमात्मने नमः ॥
धूपं धूरसि मंत्रेण अग्निर्ज्योतीति दीपकम् ॥
युवा सुवासेति च ततो वासांसि परिधापयेत् ॥८॥
ततो ब्राह्मणमानीय वेदवेदांगपारगम् ॥
प्रक्षाल्य चरणौ तस्य वासांसि परिधापयेत् ॥९॥
केयूरैः कंकणैश्चैव अंगुलीयकभूषणैः ॥०.१०॥
भूषयित्वा तनुं तस्य ततो मूर्तिं समानयेत् ॥
मंत्रेणानेन राजेंद्र ब्राह्मणाय निवेदयेत् ॥११॥
एष आत्मा मया दत्तस्तव हेममयो द्विज ॥
यत्किंचिद्विहितं पापं पूर्वं भूयात्तवाखिलम् ॥१२॥
इति दानमंत्रः ॥
ततस्तु ब्राह्मणो राजन्मंत्रमेतं समुच्चरेत् ॥१३॥
यत्किंचिद्विहितं पापं त्वया पूर्वंमया हि तत् ॥
गृहीतं मूर्तिरूपं तत्ततस्त्वं पापवर्जितः ॥
इति प्रतिग्रहमंत्रः ॥१४॥
एवं दत्त्वा विधानेन ततो विप्रं विसर्जयेत् ॥
एवं कृते ततो राजंस्तस्मै दत्त्वाथ दक्षिणाम् ॥१५॥
यथा तुष्टिं समभ्येति ततः पापं नयत्यसौ ॥
तस्मिन्कृते महाराज प्रत्ययस्तत्क्षणाद्भवेत् ॥१६॥
शरीरं लघुतामेति तेजोवृद्धिश्च जायते ॥
स्वप्ने च वीक्षते रात्रौ संतुष्टमनसः स्थितान् ॥१७॥
नरान्स्त्रियः सितैर्वस्त्रैः श्वेतमाल्यानुलेपनैः ॥
श्वेतान्गोवृषभानश्वांस्तीर्थानि विविधानि च ॥१८॥
एतत्ते सर्वमाख्यातं पापपिंडस्य दापनम् ॥
श्रवणादपि राजेंद्र यस्य पापैः प्रमुच्यते ॥१९॥
अन्यत्रापि महादानं पापपिण्डो हरेन्नृप ॥०.२० ॥
एकजन्मकृतं पापं निजकायेन निर्मितम् ॥
कपालेश्वरदेवस्य सहस्रगुणितं हरेत् ॥२१॥
पूर्ववच्चैव कर्तव्यो वेदिमंडपयोर्विधिः ॥
परं होमः प्रकर्तव्यो गायत्र्या केवलं नृप ॥२२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कपालेश्वरक्षेत्रमाहात्म्यप्रसंगेन पापपिंडप्रदानविधानवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः ॥०॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP