संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २४३

नागरखण्डः - अध्याय २४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
शूद्रः पैजवनोनाम गार्हस्थ्याच्छुद्धिमाप्तवान् ॥
धर्ममार्गाविरोधेन तन्निबोध महामते ॥१॥
आसीत्पैजवनः शूद्रः पुरा त्रेतायुगे किल ॥
स्वधर्मनिरतः ख्यातो विष्णुब्राह्मणपूजकः ॥२॥
न्यायागतधनो नित्यं शांतः सर्वजनप्रियः ॥
सत्यवादी विवेकज्ञस्तस्य भार्या च सुन्दरी ॥३॥
धर्मोढा वेदविधिना समानकुलजा शुभा ॥
पतिव्रता महाभागा देवद्विजहिते रता ॥४॥
काश्यां संबंधिता बाला वैजयंत्यां विवाहिता ॥
सा धर्माचरणे दक्षा वैष्णवव्रतचारिणी ॥५॥
भर्त्रा सह तथा सम्यक्चिक्रीडे सुविनीतवत् ॥
सोऽपि रेमे तया काले हस्तिन्येव महागजः ॥६॥
अर्थाप्तिः पूर्वपुण्येन जाता तस्य महात्मनः ॥
वाणिज्यं स्वजनैर्नित्यं स्वदेशपरदेशजम् ॥७॥
कारयत्यर्थजातैश्च परकीयस्वकीयजैः ॥
एवमर्थश्च बहुधा संजातो धर्मदर्शिनः ॥८॥
पुत्रत्रयं च संजातं पितुः शुश्रूषणे रतम् ॥
तस्य पुत्राः पितुर्भक्ता द्रव्यादिमदवर्जिताः ॥९॥
पितृवाक्यरताः श्रेष्ठाः स्वधर्माचारशोभनाः ॥
पित्रोः शुश्रूषणादन्यन्नाभिनंदंति किंचन ॥१०॥
ते सम्बन्धैः सुसंबद्धाः पित्रा धर्मार्थदर्शिना ॥
तत्पत्न्यो मातृपित्रर्चां कारयंत्यनिवारितम् ॥११॥
ऋद्धिमद्भवनं तस्य धनधान्यसमन्वितम् ॥
सोऽपि धर्मरतो नित्यं देवतातिथिपूजकः ॥१२॥
गृहागतो न विमुखो यस्य जातु कदाचन ॥
शीतकाले धनं प्रादादुष्णकाले जलान्नदः ॥१३॥
वर्षा काले वस्त्रदश्च बभूवान्नप्रदः सदा ॥
वापीकूपतडागादिप्रपादेवगृहाणि च ॥१४॥
कारयत्युचिते काले शिवविष्णुव्रतस्थितः ॥
इष्टधर्मस्तु वर्णानां समाचीर्णो महाफलः ॥१५॥
अन्येषां पूर्तधर्माणां तेषां पूर्तकरः सदा ॥
स बभूव धनाढ्योपि व्यसनैर्न समाश्रितः ॥१६॥
विष्णुभक्तिरतो नित्यं चातुर्मास्ये विशेषतः ॥
एकदा गालवमुनिः शिष्यैर्बहुभिरावृतः ॥१७॥
ब्रह्मज्ञानरतः शांतस्तपोनिष्ठो महावशी ॥
अभ्याजगाम शूद्रस्य गेहे पैजवनस्य सः ॥१८॥
स वाग्भिर्मधुभिस्तस्य अभ्युत्थानासनादिभिः ॥
उपचारैः पुनर्युक्तः कृतार्थ इव मानयन् ॥१९॥
अद्य मे सफलं जन्म जातं जीवितमुत्तमम् ॥
अद्य मे सफलो धर्मः कुशलश्चोद्धृतस्त्वया ॥२०॥
मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने ॥
गृहं मम गृहस्थस्य सकलं पावितं त्वया ॥२१॥
तस्य भक्त्या प्रसन्नोऽभूद्गतमार्गपरिश्रमः ॥
उवाच मुनिशार्दूलः सच्छूद्रं तं कृतांजलिम् ॥२२॥
कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते ॥
अर्थानुबंधाः सततं बन्धुदारसुतादयः  ॥ २३॥
गोविन्दे सततं भक्तिस्तथा दाने प्रवर्तते ॥
धर्मार्थकाम कार्येषु सप्रभावं मनस्तव ॥२४॥
विष्णुपादोदकं नित्यं शिरसा धार्यते न वा ॥
पादोद्भवं च गंगोदं द्वादशाब्दफलप्रदम् ॥२५॥
चातुर्मास्ये विशेषेण तत्फलं द्विगुणं भवेत् ॥
हरिभक्तिर्हरिकथा हरिस्तोत्रं हरेर्नतिः ॥२६॥
हरिध्यानं हरेः पूजा सुप्ते देवे च मोक्षकृत् ॥
एवं ब्रुवाणं स मुनिं पुनराह नतिं गतः ॥२७॥
भवद्दृष्ट्याश्रमफलमेतज्जातं न संशयः ॥
तथापि श्रोतुमिच्छामि तव वाणीमनामयीम् ॥२८॥
भवादृशानां गमनं सर्वार्थेषु प्रकल्पते ॥
ततस्तौ सुमुदा युक्तौ संजातौ हृष्टचेतसौ ॥२९॥
मुनिं पैजवनोनाम सच्छूद्रः प्राह संमतः ॥
किमागमनकृत्यं ते कथयस्व प्रसादतः ॥३०॥
को वा तीर्थप्रसंगश्च चातुर्मास्ये समीपगे ॥
गालवः प्राह सच्छूद्रं धार्मिकं सत्यवादिनम् ॥३१॥
मम तीर्थावसिक्तस्य मासा बहुतरा गताः ॥
इदानीमाश्रमं यास्ये चातुर्मास्ये समागते ॥३२॥
आषाढशुक्लैकादश्यां करिष्ये नियमं गृहे ॥
नारायणस्य प्रीत्यर्थं श्रेयोऽर्थं चात्मनस्तथा ॥
प्रत्युवाच मुनिर्धर्मान्विनयानतकन्धरम् ॥३३॥
 ॥ पैजवन उवाच ॥
मामनुग्रहजां बुद्धिं ब्रूहि त्वं द्विजपुंगव ॥
वेदेऽधिकारो नैवास्ति वेदसारजपस्य वा ॥३४॥
पुराणस्मृतिपाठस्य तस्मात्किंचिद्वदस्व मे ॥
तत्त्वात्मसदृशं किंचिद्भाति रूपं महाफलम् ॥३५॥
चातुर्मास्ये विशेषेण मुक्तिसंसाधकं वद ॥३६॥
 ॥ गालव उवाच ॥
शालिग्रामगतं विष्णुं चक्रांकित पुटं सदा ॥
येऽर्चयन्ति नरा नित्यं तेषां भुक्तिस्त्वदूरतः ॥३७॥
शालिग्रामे मनो यस्य यत्किंचित्क्रियते शुभम् ॥
अक्षय्यं तद्भवेन्नित्यं चातुर्मास्ये विशेषतः ॥३८॥
शालिग्रामशिला यत्र यत्र द्वारावती शिला ॥
उभयोः संगमः प्राप्तो मुक्तिस्तस्य न दुर्लभा ॥३९॥
शालिग्रामशिला यस्यां भूमौ संपूज्यते नृभिः ॥
पञ्चक्रोशं पुनात्येषा अपि पापशतान्वितैः ॥४०॥
तैजसं पिंडमेतद्धि ब्रह्मरूपमिदं शुभम् ॥
यस्याः संदर्शनादेव सद्यः कल्मषनाशनम् ॥४१॥
सर्वतीर्थानि पुण्यानि देवतायतनानि च ॥
नद्यः सर्वा महाशूद्र तीर्थत्वं प्राप्नुवंति हि ॥४२॥
सन्निधानेन वै तस्याः क्रिया सर्वत्रशोभनाः ॥
व्रजंति हि क्रियात्वं च चातुर्मास्ये विशेषतः ॥४३॥
पूज्यते भवने यस्य शालिग्राम शिला शुभा ॥
कोमलैस्तुलसीपत्रैर्विमुखस्तत्र वै यमः ॥४४॥
ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा ॥
शालिग्रामाधिकारोऽस्ति न चान्येषां कदाचन ॥४५॥
 ॥ सच्छूद्र उवाच ॥
ब्रह्मन्वेदविदां श्रेष्ठ सर्वशास्त्रविशारद ॥
स्त्रीशूद्रादिनिषेधोऽयं शालिग्रामे हि श्रूयते ॥४६॥
मादृशस्त्वं कथं शालिग्रामपूजाविधिं वद ॥४७॥
 ॥ गालव उवाच ॥
असच्छूद्रगतं दास निषेधं विद्धि मानद ॥
स्त्रीणामपि च साध्वीनां नैवाभावः प्रकीर्तितः ॥४८॥
मा भूत्संशयस्तेनात्र नाऽऽप्नुषे संशयात्फलम् ॥
शालिग्रामार्चनपराः शुद्धदेहा विवेकिनः ॥४९॥
न ते यमपुरं यांति चातुर्मास्ये च पूजकाः ॥
शालिग्रामार्पितं माल्यं शिरसा धारयंति ये ॥५०॥
तेषां पापसहस्राणि विलयं यांति तत्क्षणात् ॥
शालिग्राम शिलाग्रे तु ये प्रयच्छंति दीपकम् ॥५१॥
तेषां सौरपुरे वासः कदाचिन्नैव हीयते ॥
शालिग्रामगतं विष्णुं सुमनोभिर्मनोहरैः ॥
येऽर्चयंति महाशूद्र सुप्ते देवे हरौ तथा ॥५२॥
पंचामृतेन स्नपनं ये कुर्वंति सदा नराः ॥
शालिग्रामशिलायां च न ते संसारिणो नराः ॥५३॥
मुक्तेर्निदानममलं शालिग्रामगतं हरिम् ॥
हृदि न्यस्य सदा भक्त्या यो ध्यायति स मुक्तिभाक् ॥५४॥
तुलसीदलजां मालां शालिग्रामोपरि न्यसेत् ॥
चातुर्मास्ये विशेषेण सर्वकामानवाप्नुयात् ॥५५॥
न तावत्पुष्पजा माला शालिग्रामस्य वल्लभा ॥
सर्वदा तुलसी देवी विष्णोर्नित्यं शुभा प्रिया ॥५६॥
तुलसी वल्लभा नित्यं चातुर्मास्ये विशेषतः ॥
शालिग्रामो महाविष्णुस्तुलसी श्रीर्न संशयः ॥५७॥
अतो वासितपानीयैः स्नाप्यं चंदनचर्चितैः ॥
मंजरीभिर्युतं देवं शालग्रामशिलाहरिम् ॥५८॥
तुलसीसंभवाभिश्च कृत्वा कामानवाप्नुयात् ॥
पत्रे तु प्रथमे ब्रह्मा द्वितीये भगवाञ्छिवः ॥५९॥
मंजर्यां भगवान्विष्णुस्तदेकस्थत्रया सदा ॥
मंजरी दलसंयुक्ता ग्राह्या बुधजनैः शुभा ॥६०॥
तां निवेद्य गुरौ भक्त्या जन्मादिक्षयकारणम् ॥
शालिग्रामे धूपराशिं निवेद्य हरितत्परः ॥६१॥
चातुर्मास्ये विशेषेण मनुष्यो नैव नारकी ॥
शालिग्रामं नरो दृष्ट्वा पूजितं कुसुमैः शुभैः ॥६२॥
सर्वपापविशुद्धात्मा याति तन्मयतां हरौ ॥
य स्तौत्यश्मगतं विष्णुं गंडकीजलसंभवम् ॥६३॥
श्रुतिस्मृतिपुराणैश्च सोऽपि विष्णुपदं व्रजेत् ॥
शालिग्रामशिलायाश्च चतुर्विंशतिसंख्यकाः ॥
भेदाः संति महाशूद्र ताञ्छृणुष्व महामते ॥६४॥
इमाः पूज्याश्च लोकेऽत्र चतुर्विंशतिसंख्यकाः ॥
तासां च दैवतं विष्णुं नामानि च वदाम्यहम् ॥६५॥
स एव मूर्त्तश्चतुरुत्तरासिर्विंशद्भिरेको भगवान्यथाऽऽद्यः ॥
स एव संवत्सरनामसंज्ञः स एव ग्रावागत आदिदेवः ॥६६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने शालिग्रामपूजनमाहात्म्यवर्णनंनाम त्रिचत्वारिंशत्युत्तरद्विशततमोऽध्यायः ॥२४३॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP