संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २३५

नागरखण्डः - अध्याय २३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
दानधर्मं प्रशंसंति सर्वधर्मेषु सर्वदा ॥
हरौ सुप्ते विशेषेण दानं ब्रह्मत्वकारणम् ॥१॥
अन्नं ब्रह्म इति प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ॥
तस्मादन्नप्रदो नित्यं वारिदश्च भवेन्नरः ॥२॥
वारिदस्तृप्तिमायाति सुखमक्षय्यमन्नदः ॥
वार्यन्नयोः समं दानं न भूतं न भविष्यति ॥३॥
मणिरत्नप्रवालानां रूप्यं हाटकवाससाम् ॥
अन्येषामपि दानानामन्नदानं विशिष्यते ॥४॥
अन्नोदकप्रदानं च गोप्रदानं च नित्यदा ॥
वेदपाठो वह्निहोमश्चातुर्मास्ये महाफलम् ॥९॥
वैकुण्ठपदवाञ्छा चेद्विष्णुना सह संगमे ॥
सर्वपापक्षयार्थाय चातुर्मास्येऽन्नदो भवेत् ॥६॥
सत्यंसत्यं हि देवर्षे मयोक्तं तव नारद ॥
जन्मांतरसहस्रेषु नादत्तमुपतिष्ठते ॥७॥
तस्मादन्नप्रदानेन सर्वे हृष्यंति जन्तवः ॥
देवाश्च स्पृहयंत्येनमन्नदानप्रदायिनम् ॥८॥
आज्यं देयं च पात्रेषु श्रद्धया वज्रमिश्रितम् ॥
वज्रदानकरो मर्त्यश्चातुर्मास्ये न मानवः ॥९॥
भोजनं गुरुविप्राणां घृतदानं च सत्क्रिया ॥
एतानि यस्य तिष्ठन्ति चातुर्मास्ये न मानवः ॥१०॥
सद्धर्मः सत्कथा चैव सत्सेवा दर्शनं सताम् ॥
विष्षुपूजा रतिर्दाने चातुर्मास्येषु दुर्लभाः ॥११॥
पितॄनुद्दिश्य यो मर्त्यश्चातुर्मास्येऽन्नदो भवेत् ॥
सर्वपापविशुद्धात्मा पितृलोकमवामुयात् ॥१२॥
देवाः सर्वेऽन्नदानेन तृप्ता यच्छन्ति वांछितम् ॥
पिपीलिकाऽपि यद्गेहाद्भक्ष्यमादाय गच्छति ॥१३॥
रात्रौ दिवाऽनिषिद्धान्नो ह्यन्नदानमनुत्तमम् ॥
हरौ सुप्ते हि पापघ्नं वार्य मपि शत्रुषु ॥१४॥
चातुर्मास्ये दुग्धदानं दधि तक्रं महाफलम् ॥
जन्मकाले येन बद्धः पिंडस्तद्दानमुत्तमम् ॥१५॥
शाकप्रदाता नरकं यमलोकं न पश्यति ॥
वस्त्रदः सोमलोकं च वसेदाभूतसंप्लवम् ॥१६॥
सुप्ते देवे यथाशक्ति ह्यन्यासु प्रतिमासु च ॥
पुष्पवस्त्रप्रदानेन सन्तानं नैव हीयते ॥१७॥
चन्दनागुरुधूपं च चातुर्मास्ये प्रयच्छति ॥
पुत्रपौत्रसमायुक्तो विष्णुरूपी भवेन्नरः ॥१८॥
सुप्ते देवे जगन्नाथे फलदानं प्रय च्छति ॥
विप्राय वेदविदुषे यमलोकं न पश्यति ॥१९॥
विद्यादानं च गोदानं भूमिदानं प्रयच्छति ॥
विष्णुप्रीत्यर्थमेवेह स तारयति पूर्वजान् ॥२०॥
गुडसैंधवतैलादिमधुतिक्ततिलान्नदः ॥
देवतायास्समुद्दिश्य तासां लोकं प्रयाति हि ॥२१॥
चातुर्मास्ये तिलान्दत्त्वा न भूयः स्तनपो भवेत् ॥
यवप्रदाता वसते वासवं लोकमक्षयम् ॥२२॥
हूयेत हव्यं वह्नौ च दानं दद्याद्द्विजातये ॥
गावः सुपूजिताः कार्याश्चातुर्मास्ये विशेषतः ॥२३॥
यत्किंचित्सुकृतं कर्म जन्मावधि सुसंचितम् ॥
चातुर्मास्ये गते पात्रे विमुखे यन्न दीयते ॥२४॥
प्रणश्यति क्षणादेव वचना द्यस्तु प्रच्युतः ॥
दिवसेदिवसे तस्य वर्द्धते च प्रतिश्रुतम् ॥२५॥
तस्मान्नैव प्रतिश्राव्यं स्वल्पमप्याशु दीयते ॥
तावद्विवर्द्धते दानं यावत्तन्न प्रयच्छति ॥२६॥
यो मोहान्मनुजो लोके यावत्कोटिगुणं भवेत् ॥
ततो दशगुणा वृद्धिश्चातुर्मास्ये प्रदातरि ॥
नरके पतनं तस्य याव दिंद्राश्चतुर्दश ॥
अतस्तु सर्वदा देयं नरैर्यत्तु प्रतिश्रुतम् ॥२८॥
अन्यस्मै न प्रदातव्यं प्रदत्तं नैव हारयेत्  ॥
चातुर्मास्येषु यः शय्यां द्विजाग्र्याय प्रयच्छति ॥२९॥
वेदोक्तेन विधानेन न स याति यमालयम् ॥
आसनं वारिपात्रं च भाजनं ताम्रभाजनम् ॥३०॥
चातुर्मास्ये प्रयत्नेन देयं वित्तानुसारतः ॥
सर्वदानानि विप्रेभ्यो ददत्सुप्ते जगद्गुरौ ॥३१॥
आत्मानं पूर्वजैः सार्द्धं स मोचयति पातकात् ॥
गौर्भूश्च तिलपात्रं च दीपदानमनुत्तमम् ॥३२॥
ददद्विजातये मुक्तो जायते स ऋणत्रयात् ॥३३॥
स विश्वकर्ता भुवनेषु गोप्ता स यज्ञभुक्सर्वफलप्रदश्च ॥
दानानि वस्तुष्वधिदैवतं च यस्मिन्समुद्दिश्य ददाति मुक्तः ॥३४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे चातुर्मास्यदानमहिमवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३५॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP