नागरखण्डः - अध्याय ६१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
शर्मिष्ठातीर्थमित्युक्तं त्वया यच्च महामते ॥
कथं जातं महाभाग किंप्रभावं तु तद्वद ॥१॥
॥ सूत उवाच ॥
आसीद्राजा वृकोनाम सोमवंश समुद्भवः ॥
ब्रह्मण्यश्च शरण्यश्च सर्वलोकहिते रतः ॥२॥
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥
सर्वलक्षणसंपन्ना पतिव्रतपरायणा ॥३॥
अथ तस्यां समुत्पन्ना प्राप्ते वयसि पश्चिमे ॥
कन्यका दिवसे प्राप्ते सर्वशास्त्रविगर्हिते ॥४॥
तत आनीय विप्रान्स ज्योतिर्ज्ञानविचक्षणान् ॥
पप्रच्छ कीदृशी कन्या ममेयं संभविष्यति ॥५॥
॥ ब्राह्मणा ऊचुः ॥
या कन्या प्राप्नुयाज्जन्म चित्रासंस्थे दिवाकरे ॥
चंद्रे वापि चतुर्दश्यां सा भवेद्विषकन्यका ॥६॥
यस्तस्याः प्रतिगृह्णाति पाणिं पार्थिवसत्तम ॥
षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥७॥
यस्मिन्सा जायते हर्म्ये षण्मासाभ्यंतरे च तत् ॥
करोति विभवैर्हीनं धनदस्याप्यसंशयम् ॥८॥
सेयं तव सुता राजन्यथोक्ता विष कन्यका ॥
पैतृकं श्वाशुरीयं च हनिष्यति गृहद्वयम् ॥९॥
तस्मादिमां परित्यज्य सुखी भव नराधिप ॥
श्रद्दधासि वचोऽस्माकं हित मुक्तं यदि प्रभो ॥१०॥
॥ राजोवाच ॥
त्यक्ष्यामि यदि नामैतां धारयिष्यामि वा गृहे ॥
अन्यदेहोद्भवं कर्म फलिष्यति तथापि मे ॥११॥
शुभं वा यदि वा पापं न तु शक्यं प्ररक्षितुम् ॥
तस्मात्कर्म पुरस्कृत्य नैव त्यक्ष्यामि कन्यकाम् ॥१२॥
येनयेन शरीरेण यद्यत्कर्म करोति यः ॥
तेनतेनैव भूयः स प्राप्नोति सकलं फलम् ॥१३॥
यस्यां यस्यामवस्थायां क्रियतेऽत्र शुभाशुभम् ॥
तस्यां तस्यां ध्रुवं तस्य फलं तद्भुज्यते नरैः ॥१४॥
न नश्यति पुराकर्म कृतं सर्वेंद्रियैरिह ॥
अकृतं जायते नैव तस्मान्नास्ति भयं मम ॥१५॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ॥
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥१६॥
यथा वृक्षेषु वल्लीषु कुसुमानि फलानि च ॥
स्वकालं नातिवर्तंते तद्वत्कर्म पुराकृतम् ॥१७॥
येनैव यद्यथा पूर्वं कृतं कर्म शुभाशुभम् ॥
स एव तत्तथा भुंक्ते नित्यं विहितमात्मनः ॥१८॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
तथैवं कोटिमध्यस्थं कर्तारं कर्म विन्दति ॥१९॥
अन्यदेहकृतं कर्म न कश्चित्पुरुषो भुवि ॥
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ॥२०॥
अन्यथा शास्त्रगर्भिण्या धिया धीरो महीयते ॥
स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥२१॥
स्वकृतान्युपतिष्ठंति सुखदुःखानि देहिनाम् ॥
हेतुभूतो हि यस्तेषां सोऽहंकारेण बध्यते ॥२२॥
सुशीघ्रमभिधावन्तं निजं कर्मानुधावति ॥
शेते सह शयानेन तिष्ठन्तमनुतिष्ठति ॥२३॥
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ॥
तथा कर्म च कर्ता च नात्र कार्या विचारणा ॥२९॥
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥
नरः स बद्धो रज्ज्वेव बलात्तत्रैव नीयते ॥२५॥
प्रमाणं कर्मभूतानां सुखदुःखोपपादने ॥
सावधानतया यच्च जाग्रतां स्वपतामपि ॥२६॥
तैलक्षये यथा दीपो निर्वाणमधिगच्छति ॥
कर्मक्षये तथा जंतुर्निर्वाणमधिगच्छति ॥२७॥
न मन्त्रा न तपो दानं न तीर्थं न च संयमः ॥
समर्था रक्षितुं जंतुं पीडितं पूर्वकर्मभिः ॥२८॥
संगत्या जठरे न्यस्तो रेतोबिन्दुरचेतनः ॥
ऋतुकाले मनुष्येण वृद्धिं गच्छति कर्मतः ॥२९॥
अन्नपानानि जीर्यंति यत्र भक्ष्यं च भक्षितम् ॥
तस्मिन्नेवोदरे गर्भः कथं नाम न जीर्यति ॥३०॥
तस्मात्कर्मकृतं सर्वं देहिनामत्र जायते ॥
शुभं वा यदि वा पापमिति मे निश्चयः सदा ॥३१॥
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ॥
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये विषकन्यकोत्पत्तिवर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥
N/A
References : N/A
Last Updated : December 23, 2024
TOP