नागरखण्डः - अध्याय १५१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
अन्धकोऽपि परां विद्यां ज्ञात्वा शुक्रार्जितां तदा ॥
केलीश्वर्याः प्रसादं च भक्तिजं बलवृद्धिदम् ॥१॥
अवध्यतामात्मनश्च पितामहवरोद्भवम् ॥
महेश्वरं समुद्दिश्य कोपं चक्रे ततः परम् ॥२॥
दूतं च प्रेषयामास कैलासं पर्वतं प्रति ॥
गच्छ दूत हरं ब्रूहि मम वाक्येन सांप्रतम् ॥३॥
शक्रमेनं परित्यज्य सुखं तिष्ठात्र पर्वते ॥
नो चेद्द्रुतं समागत्य सकैलासं सभार्यकम् ॥४॥
सगणं च रणे हत्वा सुखी स्थास्यामि नंदने ॥
त्वामहं नाशयिष्यामि सत्येनात्मानमालभे ॥५॥
एवमुक्तः स दैत्येन दूतो गत्वा द्रुतं ततः ॥
प्रोवाच शंकरं वाक्यैः परुषैः स विशेषतः ॥६॥
ततः कोपपरीतात्मा भगवान्वृषभध्वजः ॥
गणान्संप्रेषयामास वधार्थं तस्य दुर्मतेः ॥७॥
वीरभद्रं महाकालं नंदिं हस्तिमुखं तथा ॥
अघोरं घोरनादं च घोरघंटं महाबलम् ॥८॥
एतेषामनुगाश्चान्ये कोटिरेका पृथक्पृथक् ॥
सर्वान्संप्रेषयामास वधार्थं तस्य दुर्मतेः ॥९॥
अथ संप्रेषितास्तेन गणास्ते विकृताननाः ॥
हर्षेण महताविष्टा गर्जमाना यथा घनाः ॥१०॥
धृतायुधा गताः सर्वे युद्धार्थं यत्र सा पुरी ॥
शक्रस्यासादिता तेन दानवेन बलीयसा ॥११॥
अथ प्राप्तान्गणान्दृष्ट्वा दानवास्ते धृतायुधाः ॥
निश्चक्रमुर्वै सहसा युद्धार्थमतिगर्विताः ॥१२॥
ततः समभवद्युद्धं गणानां दानवैः सह ॥
परस्परं महारौद्रं मृत्युं कृत्वा निवर्तनम् ॥१३॥
ततो हरगणाः सर्वे दानवैस्तै रणाजिरे ॥
जिता जग्मुर्दिशो भीता हरवीक्षणतत्पराः ॥१४॥
हरोऽपि तान्गणान्भग्नान्दृष्ट्वा कोपाद्विनिर्ययौ ॥
हरं दृष्ट्वा ततो दैत्या दुद्द्रुवुस्ते दिशो दश ॥१५॥
अन्धकोऽपि हरं दृष्ट्वा युद्धार्थं संमुखो ययौ ॥
ततो युद्धं समभवदंधकस्य हरेण तु ॥
वृत्रवासवयोः पूर्वं यथा युद्धमभून्महत् ॥१६॥
चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः ॥
एवं न शक्यते हंतुं दानवो विविधायुधैः ॥१७॥
अस्त्रयुद्धं परित्यज्य बाहु युद्धमुपागतौ ॥
करं करेण संगृह्य मुष्टिप्रहरणौ तदा ॥१८ ॥
दानवेनाथ देवेशो बंधेनाक्रम्य पीडितः ॥
निष्पंदभावमापन्नस्ततो मूर्च्छामुपागतः ॥१९॥
मूर्छागतं तु तज्ज्ञात्वा ह्यन्धको निर्ययौ गृहात् ॥
तावत्स्थाणुः क्षणाल्लब्ध्वा चेतनामात्तकार्मुकः ॥२०॥
आयसीं लकुटीं गृह्य प्रभुर्भारसहसि काम् ॥
दानवेन्द्रं ततः प्राप्य ताडयामास मूर्धनि ॥२१॥
सोऽपि खड्गेन देवेशं ताडयामास वेगतः ॥
अथ देवोऽपि सस्मार कौबेरास्त्रं महाहवे ॥२२॥
अस्त्रेण तेन हृदये ताडयामास दानवम् ॥
ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन् ॥२३॥
पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः ॥
शूलाग्रसंस्थितः पापश्चक्रवद्भ्रमते ततः ॥२४॥
अन्धकोऽपि तदात्मानं तथावस्थमवेक्ष्य च ॥
ततो वाग्भिः सुपुष्टाभिरस्तौद्देवं महेश्वरम् ॥२५॥
॥ अन्धक उवाच ॥
नमस्ते जगतां धात्रे शर्वाय त्रिगुणात्मने ॥
वृषभासनसंस्थाय शशांककृतभूषण ॥२६॥
नमः खट्वांगहस्ताय नमः शूलधराय च ॥
नमो डमरुकोदण्डकपालानलधारिणे ॥२७॥
स्मरदेहविनाशाय मूर्त्यष्टकमयात्मने ॥
नमः स्वरूपदेहाय ह्यरूपबहुरू पिणे ॥२८॥
उत्तमांगविनाशाय विरिंचेः सृष्टिकारिणे ॥
स्मशानवासिने नित्यं नमो भैरवरूपिणे ॥२९॥
सर्वगः सर्वकर्ता च त्वं हर्ता नान्य एव हि ॥
त्वं भूमिस्त्वं रजश्चैव त्वं ज्योतिस्त्वं तमस्तथा ॥३०॥
त्वं वपुः सर्वभूतानां जीवभूतो महेश्वर ॥
अस्तौदेवं दानवेन्द्रो देवशूलाग्र संस्थितः ॥३१॥
॥ सूत उवाच ॥
एवं तस्य स्तुतिं श्रुत्वा परितुष्टो महेश्वरः ॥
ततः प्रोवाच तं हर्षाच्छूलाग्रस्थं दनूत्तमम् ॥३२॥
॥ श्रीभगवानुवाच ॥
नेदं वीरव्रतं दैत्य यच्छत्रुकरपीडनात् ॥
प्रोच्यन्ते सामवाक्यानि विशेषाद्दैत्यजन्मना ॥३३॥
॥ अन्धक उवाच ॥
निर्विण्णोऽस्मि सुरश्रेष्ठ त्रिशूलाऽग्रं समाश्रितः ॥
तस्मात्सूदय मां येन द्रुतं स्यान्मे व्यथाक्षयः ॥३४॥
॥ श्रीभगवानुवाच ॥
न तेऽस्ति मरणं दैत्य कथंचिच्चिंतितं मया ॥
तेनेत्थं विधृतं व्योम्नि भित्त्वा शूलेन वक्षसि ॥३५॥
तस्मात्त्वं गणतां गच्छ सांप्रतं पापवर्जितः ॥
त्यक्त्वा दानवजं भावं श्रद्धया परया युतः ॥३६॥
॥ अन्धक उवाच ॥
गतो मे दानवो भावः सांप्रतं तव किंकरः ॥
भविष्यामि न सन्देहः सत्येनात्मानमालभे ॥३७॥
॥ शंकर उवाच ॥
परितुष्टोऽस्मि ते वत्स ब्रूहि यत्तेऽभिवांछितम् ॥
प्रार्थयस्व प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥३८॥
॥ अन्धक उवाच ॥
अनेनैव तु रूपेण शृलाग्रस्थितमत्तनुम् ॥
यो मर्त्योर्च्चां प्रकृत्वा ते स्थापयिष्यति भूतले ॥३९॥
तस्य मोक्षस्त्वया देयो मद्वाक्यात्सुरसत्तम ॥
तथेत्युक्त्वा महेशस्तं शूलाग्रात्प्रमुमोच ह ॥
अस्थिशेषं कृशांगं च चामुण्डासदृशं द्विजाः ॥४०॥
ततः स गणतां प्राप्तो गीतं चक्रे मनोहरम् ॥
पुरतो देवदेवस्य पार्वत्याश्च विशेषतः ॥४१॥
भृंगवद्रटनं यस्मात्तस्य श्रोत्रसुखा वहम् ॥
भृंगीरिटि इति प्रोक्तस्ततः स त्रिपुरारिणा ॥४२॥
एवं स गणतां प्राप्तो देवदेवस्य शूलिनः ॥
विश्वास्यः सर्वकृत्येषु तत्परं समपद्यत ॥४३॥
ततःप्रभृति लोकेऽत्र देवदेवो महेश्वरः ॥
तादृशेनैव रूपेण स्थाप्यते भूतले जनैः ॥४४॥
प्राप्यतेऽत्र परा सिद्धिस्तत्प्रसादादलौ किकी ॥
कस्यचित्त्वथ कालस्य राज्याद्भ्रष्टो महीपतिः ॥४५॥
सुरथाख्यः प्रसिद्धोऽत्र सूर्यवंशसमुद्भवः ॥
ततो वसिष्ठमासाद्य स चात्मीयं पुरो हितम् ॥
प्रोवाच प्रणतो भूत्वा बाष्पव्याकुललोचनः ॥४६॥
त्वया नाथेन मे ब्रह्मन्संस्थितेनाऽपि शत्रुभिः ॥
बलाच्च यद्धृतं राज्यं मन्द भाग्यस्य सांप्रतम् ॥४७॥
तस्मात्कुरु प्रसादं मे येन मे राज्यसंस्थितिः ॥
भूयोऽपि त्वत्प्रसादेन नान्या मे विद्यते गतिः ॥४८॥
॥ वसिष्ठ उवाच ॥
यद्येवं ते महाराज मद्वाक्यात्सत्वरं व्रज ॥
हाटकेश्वरजं क्षेत्रं सर्वसिद्धिप्रदायकम् ॥४९॥
तत्र भैरवरूपेण स्थापयित्वा महेश्वरम् ॥
भुजोद्यतोग्रशूलाग्रविद्धान्धककलेवरम् ॥५०॥
नारसिंहेन मंत्रेण ततः पूजय तं नृप ॥
रक्तपुष्पैस्तथा धूपै रक्तैश्चैवानुलेपनैः ॥५१॥
ततः सद्वीर्य मासाद्य तेजोवीर्यसमन्वितः ॥
हनिष्यस्यखिलाञ्छत्रूंस्तत्प्रसादादसंशयम् ॥५२॥
परं शौचसमेतेन संपूज्यो भगवांस्त्वया ॥
अन्यथा प्राप्स्यसे विघ्नान्सत्यमेतन्मयोदितम् ॥५३॥
अथ तस्य वचः श्रुत्वा स राजा सत्वरं ययौ ॥
तत्र क्षेत्रे ततो देवं स्थापयामास भैरवम् ॥५४॥
ततः संपूजयामास नारसिंहेन भक्तितः ॥
मन्त्रेण प्रयतो भूत्वा ब्रह्मचर्यपरायणः ॥५५॥
ततो दशसहस्रांते तस्य मंत्रस्य संख्यया ॥
भैरवस्तुष्टिमापन्नः प्रोवा च तदनन्तरम् ॥५६॥
॥ श्रीभैरव उवाच ॥
परितुष्टोऽस्मि ते राजन्मंत्रेणानेन पूजितः ॥
तस्मात्प्रार्थय यच्चेष्टं येन सर्वं ददाम्यहम् ॥५७॥
॥ सुरथ उवाच ॥
शत्रुभिर्मे हृतं राज्यं त्वत्प्रसादात्सुरेश्वर ॥
तन्मे भवतु भूयोऽपि शत्रुभिः परिवर्ज्जितम् ॥५८॥
अन्योऽपि यः पुमानित्थं त्वामिहागत्य पूजयेत् ॥
अनेनैव तु मंत्रेण तस्य सिद्धिस्त्वया विभो ॥५९॥
देया देव सहस्रांते यथा मम सुरेश्वर ॥
तथेति तं प्रतिज्ञाय गतश्चादर्शनं हरः ॥६०॥
सुरथोऽपि निजं राज्यं प्राप हत्वा रणे रिपून् ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये भैरवक्षेत्रमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥१५१॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP