संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ७५

नागरखण्डः - अध्याय ७५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
पुरा कल्पे भगवता एतत्क्षेत्रमनुत्तमम् ॥
रुद्रेण ब्रह्मणे दत्तं तुष्टेन द्विजसत्तमाः ॥१॥
यदा तु स्थापितं लिंगं हाटकेश्वरसंज्ञितम् ॥
देवैः प्रीतेन रुद्रेण प्रदत्तं ब्रह्मणे पुनः ॥२॥
एतत्क्षेत्रं तदा दत्तं शंभुना षण्मुखस्य ह ॥
रक्षणार्थं हि विप्राणां कलिकालादिदोषतः ॥३॥
ब्रह्मणा प्रार्थितेनेदं स्वयमादिममुत्तमम् ॥
पित्रादिष्टस्तु गांगेयस्तत्र वासमथाकरोत् ॥४॥
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ॥
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥५॥
महासेनस्य देवस्य प्रासादं सुमनोहरम् ॥
उच्चैः स्थितं सर्वलोके पातुकाममिवांबरम् ॥६॥
तच्छ्रुत्वा विबुधाः सर्वे कौतुकादेत्य सत्वरम् ॥
वीक्षांचक्रुस्ततो गत्वा दृष्ट्वा मेध्यतमं पुरम् ॥७॥
प्रासादस्योत्तरे देशे प्राच्ये देशे तथा द्विजाः ॥
यज्ञक्रियासमारंभांश्चकुर्विप्रैर्यथोदितान् ॥८॥
इष्ट्वा च विबुधाः सर्वे दत्त्वा तेभ्यश्च दक्षिणाम् ॥
जग्मुस्त्रिविष्टपं हृष्टा लब्ध्वा तत्स्थानजं फलम् ॥९॥
ततस्तु देवयजनंनाम तस्य बभूव ह ॥
यदन्यत्र शतं कृत्वा क्रतूनां फलमाप्नुयात् ॥
तदत्रैकेन लभते क्रतुना दक्षिणावता ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये यज्ञ भूमिमाहात्म्यवर्णनंनाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP