नागरखण्डः - अध्याय २६४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
ब्रह्मोवाच ॥
कार्तिकेयश्च पार्वत्याः प्राणेभ्यश्चातिवल्लभः ॥
संक्रीडति समीपस्थो नानाचेष्टाभिरुद्यतः ॥१॥
रक्तकांतिर्महातेजाः षण्मुखोऽद्भुत विक्रमः ॥
क्वचिद्गायति चात्यर्थं क्वचिन्नृत्यति स्वेच्छया ॥२॥
मातरं पितरं दृष्ट्वा विनयावनतः क्वचित् ॥
क्वचिच्च गंगापुलिने सिकतालेपनाकृतिः ॥३॥
गणैः सह विचिन्वानो विविधान्वनभूरुहान् ॥
एवं प्रक्रीडितस्तस्य दिवसाः पंच जज्ञिरे ॥४॥
ततो देवा महेन्द्राद्यास्तारकत्रासविद्रुताः ॥
स्तुवन्तः शंकरं सर्वे तारकस्य जिघृक्षया ॥५॥
चक्रुः कुमारं सेनान्यं जाह्नव्यां स्वगणैः सुराः ॥
सस्वनुर्देववाद्यानि पुष्पवर्षं पपात ह ॥६॥
वह्निस्तु स्वां ददौ शक्तिं हिमवान्वाहनं ददौ ॥
सर्वदेवसमुद्भूतगणकोटिसमावृतः ॥७॥
प्रणम्य मुनिसंघेभ्यः प्रययौ रिपुविग्रहे ॥
ताम्रवत्यां नगर्यां च शंखं दध्मौ प्रतापवान् ॥८॥
ततस्तारकसैन्यस्य दैत्यदानवकोटयः ॥
समाजग्मुस्तस्य पुराच्छंखनादभयातुराः ॥९॥
स्ववाहनसमारूढाः संयता बलदर्पिताः ॥
देवाः सर्वेऽपि युयुधुः स्कन्दतेजोपबृंहिताः ॥१०॥
तदा दानवसैन्यानि निजघान च सर्वशः ॥
विष्णुचक्रेण ते छिन्नाः पेतुरुर्व्यां सहस्रशः ॥११॥
ततो भग्नाश्च शतशो दानवा निहतास्तदा ॥
नद्यः शोणितसंभूता जाता बहुविधामुने ॥१२॥
तद्भग्नं दानवबलं दृष्ट्वा स युयुधे रणे ॥
बभंज सद्यो देवेशो बाणजालैरनेकधा ॥१३॥
शक्तिनायुध्य गंगिन्याश्चिक्षेप कृष्णप्रेरिताः ॥
सरथं च सयंतारं चक्रे तं भस्मसात्क्षणात् ॥१४॥
शेषाः पातालमगमन्हतं दृष्ट्वाऽथ तारकम् ॥
ततो देवगणाः सर्वे शसंसुस्तस्य विक्रमम् ॥१५॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिस्तथाऽभवत् ॥
ते लब्धविजयाः सर्वे महेश्वरपुरोगमाः ॥१६॥
सिषिचुः सर्वदेवानां सेनापत्ये षडाननम् ॥
ततः स्कंदं समालिंग्य पार्वती हर्षगद्गदा ॥१७॥
मांगल्यानि तदा चक्रे स्वसखीभिः समावृता ॥
एवं च तारकं हत्वा सप्तमेऽहनि बालकः ॥१८॥
मंदराचलमासाद्य पितरौ संप्रहर्षयन् ॥
उवाच सकलं स्कन्दः परमानंदनिर्भरः ॥१९॥
काले दारक्रियां तस्य चिन्तयामास शंकरः ॥
स उवाच प्रसन्नात्मा गांगेयममितद्युतिम् ॥२०॥
प्राप्तः कालस्तव विभो पाणिग्रहणसंमतः ॥
कुरु दारान्समासाद्य धर्मस्ते पुंससंमतः ॥२१ ॥
क्रीडस्व विविधैर्भोगैर्विमानैः सह कामिकैः ॥
तच्छ्रुत्वा भगवान्स्कन्दः पितरं वाक्यमब्रवीत् ॥
अहमेव हि सर्वत्र दृश्यः सर्वगणेषु च ॥
दृश्यादृश्यपदार्थेषु किं गृह्णामि त्यजामि किम् ॥२३॥
याः स्त्रियः सकला विश्वे पार्वत्या ताः समा हि मे ॥
नराः सर्वेऽपि देवेश भवद्वत्तान्विलोकये ॥२४॥
त्वं गुरुर्मां च रक्षस्व पुनर्नरकमज्जनात् ॥
येन ज्ञातमिदं ज्ञानं त्वत्प्रसादादखंडितम् ॥२५॥
पुनरेव महाघोरसंसाराब्धौ निमज्जये ॥
दीपहस्तो यथा वस्तु दृष्ट्वा तत्करणं त्यजेत् ॥२६॥
तथा ज्ञानमधिप्राप्य योगी त्यजति संसृतिम् ॥
ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञ परमेश्वर ॥
निवर्त्तंते क्रियाः सर्वा यस्य तं योगिनं विदुः ॥
विषये लुब्धचित्तानां वनेऽपि जायते रतिः ॥२८॥
सर्वत्र समदृष्टीनां गेहे मुक्तिर्हि शाश्वती ॥
ज्ञानमेव महेशान मनुष्याणां सुदुर्लभम् ॥२९॥
लब्धं ज्ञानं कथमपि पंडितो नैव पातयेत् ॥
नाहमस्मि न माता मे न पिता न च बांधवः ॥३०॥
ज्ञानं प्राप्य पृथक्भावमापन्नो भुवनेष्वहम् ॥
प्राप्यं भागमिदं दैवात्प्रभावात्तव नार्हसि ॥३१॥
वक्तुमेवंविधं वाक्यं मुमुक्षोर्मे न संशयः ॥
यदाग्रहपरा देवी पुनःपुनरभाषत ॥३२॥
तदा तौ पितरौ नत्वा गतोऽसौ क्रौञ्चपर्वतम् ॥
तत्राश्रमे महापुण्ये चचार परमं तपः ॥३३॥
जजाप परमं ब्रह्म द्वादशाक्षरबीजकम् ॥
पूर्वं ध्यानेन सर्वाणि वशीकृत्येन्द्रियाणि च ॥३४॥
ममतां संवियुज्याथ ज्ञानयोगमवाप्तवान् ॥
सिद्धयस्तस्य निर्विघ्ना अणिमाद्या यदाऽऽगताः ॥३५॥
तदा तासां गणा क्रुद्धो वाक्यमेतदुवाच ह ॥
ममापि दु्ष्टभावेन यदि यूयमुपागताः ॥३६॥
तदास्मत्समशांतानां नाभिभूतिं करिष्यथ ॥
एवं ज्ञात्वा महेशोऽपि यतो ज्ञानमहोदयम् ॥३७॥
मत्तोऽपि ज्ञानयोगेनस्कन्दोऽप्यधिकभावभृत् ॥
विस्मयाविष्टहृदयः पार्वतीमनुशिष्टवान् ॥३८॥
पुत्रशोकपरां चोमां शुभैर्वाक्यामृतैर्हरः ॥
चातुर्मासस्य माहात्म्यं सर्वपापप्रणाशनम् ॥३९॥
महेश्वरो वा मधुकैटभारिर्हृद्याश्रितो ध्यानमयोऽद्वितीयः ॥
अभेदबुद्ध्या परमार्तिहंता रिपुः स एवातिप्रियो भवेत्ततः ॥४०॥
सूत उवाच ॥
एतद्वः कथितं विप्राश्चातुर्मास्यसमुद्भवम् ॥
माहात्म्यं विस्तरेणैव किमन्यच्छ्रोतुमिच्छथ ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तारकासुरवधो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६४॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP