नागरखण्डः - अध्याय ३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
ततः प्रणम्य भूयः स वसिष्ठं मुनिपुंगवम् ॥
ययौ तत्र सुतास्तस्य यत्र ते शतसंख्यकाः ॥१॥
तानपि प्राह नत्वा स तमेवार्थं नराधिपः ॥
वसिष्ठवचनं कृत्स्नं तस्य तैरपि शंसितम् ॥२॥
ततस्तान्स पुनः प्राह युष्माकं जनकोऽधुना ॥
अशक्तो मा दिवं नेतुं सशरीरं विसर्जितः ॥३॥
तस्माद्यदि न मां यूयं याजयिष्यथ सांप्रतम् ॥
परित्यज्य करिष्यामि शीघ्रमन्यं पुरोहितम् ॥४॥
यो मां यज्ञप्रभावेन नयिष्यति सुरालयम् ॥
अनेनैव शरीरेण सहितं गुरुपुत्रकाः ॥५॥
तस्य तद्वचनं श्रुत्वा सर्वे ते मुनिसत्तमाः ॥
परं कोपं समाविष्टास्तमूचुः परुषाक्षरैः ॥६॥
यस्मात्त्वया गुरुस्त्यक्तो हितकृत्पापवानसि ॥
तस्माद्भवाधुना पाप चंडालो लोकनिंदितः ॥७॥
अथ तद्वचनांते स तत्क्षणात्पृथिवीपतिः ॥
बभूवांत्यजरूपाढ्यो विकृताकारदेहभृत् ॥८॥
यवमध्यः कृशग्रीवः पिंगाक्षो भुग्ननासिकः ॥
कृष्णांगः शंकुवर्णश्च दुर्गंधेन समावृतः ॥९॥
अथात्मानं समालोक्य विकृतं स नराधिपः ॥
चण्डालधर्मिणं सद्यो लज्जयाऽधोमुखः स्थितः ॥१०॥
याहियाहीति विप्रैस्तैर्भर्त्स्यमानो मुहुर्मुहुः ॥
सर्वतः सारमेयैश्च क्लिश्यमानो निरर्गलैः ॥
काककोकिलसंकाशो जीर्णवस्त्रावगुंठितः ॥११॥
ततः स चिन्तयामास दुःखेन महता वृतः ॥
किं करोमि क्व गच्छामि कथं शांतिर्भविष्यति ॥१२॥
किं मयैतत्सुमूर्खेण वांछितं दुर्लभं पदम् ॥
तत्प्रभावेन विभ्रष्टः कुलधर्मोऽपि मे स्वकः ॥१३॥
किं जलं प्रविशाम्यद्य किं वा दीप्तं हुताशनम् ॥
भक्षयामि विषं किं वा कथं स्यान्मृत्युरद्य मे ॥१४॥
अनेन वपुषा दारान्वीक्षयिष्यामि तान्कथम् ॥
तादृशेन शरीरेण याभिः संक्रीडितं मया ॥१५॥
कथं पुत्रांस्तथा पौत्रान्सुहृत्संबंधिबांधवान् ॥
वीक्षयिष्यामि तान्भूयस्तथान्यं सेवकं जनम् ॥१६॥
ये मया निर्जिताः सर्वे रिपवः संगरे पुरा ॥१५॥
तेऽद्य मामीदृशं श्रुत्वा हर्षं यास्यंति निर्भयाः ॥१७॥
ये मया तर्पिता दानैर्ब्राह्मणा वेदपारगाः ॥
तेऽद्य मामीदृशं श्रुत्वा संभविष्यंति दुःखिताः ॥१८॥
तथा ये सुहृदोऽभीष्टा नित्यं मम हिते रताः ॥
कामवस्थां प्रयास्यन्ति दृष्ट्वा मां स्थितमीदृशम् ॥१९॥
भद्रजात्या गजा ये मे मदान्धाः षष्टिहायनाः ॥
मया विना मिथो युद्धे कस्तानद्य नियोक्ष्यति ॥२०॥
अश्वास्तित्तिरकल्माषाः सुदांताः सादिभिर्दृढैः ॥
कस्तांश्चित्रपदन्यासैर्नियाम्यति मया विना ॥२१॥
तथा मे भृत्यवर्गास्ते कुलीना युद्धदुर्मदाः ॥
मां विना कस्य यास्यंति समीपेऽद्य सुदुःखिताः ॥२२॥
संख्याहीनस्तथा कोशस्तादृङ्मे बहुरत्नभाक् ॥
कस्य यास्यति संभोगं मया हीनस्तु रक्षितः ॥२३॥
तथा मे संख्यया हीनं धान्यं गोजाविकं महत् ॥
भविष्यति कथं हीनं मयाभीष्टैस्तु रक्षितम् ॥२४॥
एवं बहुविधं राजा स विलप्य च दुःखितः ॥
जगाम नगराभ्याशं पद्भ्यामेव शनैःशनैः ॥२५॥
ततो रात्रौ समासाद्य स्वं पुरं जनवर्जितम् ॥
द्वारे स्थित्वा समाहूय पुत्रं मंत्रिभिरन्वितम् ॥२६॥
कथयामास वृत्तांतं सर्वं शापसमुद्भवम् ॥
दूरे स्थितः स पुत्राणां वसिष्ठस्य महात्मनः ॥२७॥
वज्रपातोपमं वाक्यं तेऽपि तस्य निशम्य तत् ॥
बाष्पपर्याकुलैरास्यै रुरुदुः शोकसंयुताः ॥२८॥
हा नाथ हा महाराज हा नित्यं धर्मवत्सल ॥
त्वया हीना भविष्यामः कथमद्य सुदुःखिताः ॥२९॥
किमेतद्युज्यते तेषां वासिष्ठानां दुरात्मनाम् ॥
शापं ददुः स्वयाज्यस्य विशेषाद्विनतस्य च ॥३०॥
ते वयं राजशार्दूल परित्यज्य गृहादिकम् ॥
अन्त्यजत्वं गमिष्यामस्त्वया सार्धमसंशयम् ॥३१॥
त्रिशंकुरुवाच ॥
भक्तिश्चेदस्ति युष्माकं ममोपरि निरर्गल ॥
तन्मे पुत्रस्य मंत्रित्वं सर्वे कुरुत सांप्रतम् ॥३२॥
हरिश्चंद्रः सुपुत्रोयं मम ज्येष्ठः सुवल्लभः ॥
नियोजयध्वमव्यग्राः पदव्यां मम सत्वरम् ॥३३॥
अहं पुनः करिष्यामि यन्मे मनसि संस्थितम् ॥
मृत्युं वा संप्रयास्यामि सदेहो वा सुरालयम् ॥३४॥
एवमुक्त्वा परित्यज्य सर्वांस्तान्स महीपतिः ॥
जगामारण्यमाश्रित्य पद्भ्यामेव शनैः शनैः ॥३५॥
तेपि सन्मंत्रिणस्तूर्णं पुत्रं तस्य सुसम्मतम् ॥
राज्ये नियोजयासमासुर्नादवादित्रनिःस्वनैः ॥३६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने हरिश्चन्द्रराज्योपलंभोनाम तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : December 18, 2024
TOP