नागरखण्डः - अध्याय ९६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
एवं तस्मिन्गते भूपे ह्यजापाले रसातलम्॥
तत्पुत्रश्चाभवद्राजा मंत्रिभिस्तु पुरस्कृतः ॥१॥
यो नित्यमगमत्स्वर्गे वासवं रमते सदा॥
शनैश्चरो जितो येन रोहिणीं परिभेदयन् ॥२॥
गृहे यस्य स्वयं विष्णुर्भूत्वा चैव चतुर्विधः॥
रावणस्य विनाशार्थं जन्म चक्रे प्रहर्षितः ॥३॥
तेनागत्यात्र सत्क्षेत्रे तोषितो मधुसूदनः॥
प्रासादं शोभनं कृत्वा ततश्चैव प्रतिष्ठितः ॥४॥
तस्यापि विश्रुता वापी स्वयं तेन विनिर्मिता॥
राजवापीति लोकेऽस्मिन्विख्यातिं परमां गता ॥५॥
तस्यां यः कुरुते श्राद्धं संप्राप्ते पञ्चमीदिने॥
प्रेतपक्षे विशेषेण स नरः स्यात्सतां प्रियः ॥६॥
॥ ऋषय ऊचुः ॥॥
कथं तेन जितः सौरी रोहिणीशकटं च यत्॥
भिंदानस्तोषितस्तेन कथं नारायणो वद ॥७॥
॥ । सूत उवाच ॥॥
तस्मिञ्छासति धर्मज्ञे स्वधर्मेण वसुन्धराम्॥
अतिसौख्यान्वितो लोकः सर्वदैव व्यजायत ॥८॥
बहुक्षीरप्रदा गावः सस्यानि गुणवंति च॥
कामवर्षी च पर्जन्यो यथर्त्तुफलिता द्रुमाः ॥९॥
कस्यचित्त्वथ कालस्य दैवज्ञैस्तस्य भूपतेः॥
कथितं रोहिणीभेदं रविपुत्रः करिष्यति ॥।१०॥
तस्यानंतरमेवाशु दुर्भिक्षं संभविष्यति॥
अनावृष्टिश्च भविता रौद्रा द्वादश वार्षिकी॥
यया संपत्स्यते सर्वं भूतलं गतमानवम् ॥११॥
तेषां तद्वचनं श्रुत्वा स राजा कुपितोऽभ्यगात्॥
शनैश्चरं समुद्दिश्य विमानमधिरुह्य च ॥१२॥
तस्य तुष्टेन संदत्तं विमानं कामगं पुरा॥
शक्रेण तत्र संतिष्ठञ्छनैश्चरमुपाद्रवत् ॥१३॥
ततः सूर्यपथं मुक्त्वा ततश्चंद्रस्य पार्थिवः॥
नक्षत्रसरणिं प्राप्य सज्यं कृत्वा महद्धनुः ॥१४॥
तत्र बाणं समारोप्य शनैश्चरमुपाद्रवत्॥
प्रोवाच पुरतः स्थित्वा सूर्यपुत्रमधोमुखम् ॥१५॥
त्यजैनं रोहिणीमार्गं सांप्रतं त्वं शनैश्चर॥
मद्वाक्यादन्यथाऽहं त्वां नयिष्यामि यमक्षयम् ॥१६॥
एतेन निशिताग्रेग शरेणा नतपर्वणा॥
दिव्यास्त्रमंत्रयुक्तेन सत्यमेतद्ब्रवीम्यहम् ॥१७॥
तस्य तद्वचनं श्रुत्वा तादृग्रौद्रतमं महत्॥
मन्दो विस्मयमापन्नस्ततश्चेदमभाषत ॥१८॥
कस्त्वं ब्रूहि महाभाग मम मार्गं रुणत्सि यः॥
अगम्यं केनचिल्लोके सर्वैरपि सुरासुरैः ॥१९॥
राजोवाच ॥॥
अहं दशरथो नाम सूर्यवंशोद्भवो नृपः॥
अजस्य तनयः प्राप्तः कामं वारयितुं क्रुधा ॥२०॥
॥ मंद उवाच ॥
न त्वया सह संबंधः कश्चिदस्ति महीपते॥
मम यत्त्वं प्रकोपाढ्यो मन्मार्गं हंतुमिच्छसि ॥२१॥
॥ राजोवाच ॥
रोहिणीसंभवं त्वं हि शकटं भेदयिष्यसि॥
सांप्रतं मम दैवज्ञैर्वाक्यमेतदुदाहृतम् ॥२२॥
तस्मिन्मन्द त्वया भिन्ने न वर्षति शतक्रतुः॥
एतद्वदति दैवज्ञा ज्योतिःशास्त्रविचक्षणाः ॥२३॥
जाते वृष्टिनिरोधेऽथ जायंतेऽन्नानि न क्षितौ॥
अन्नाभावात्क्षयं यांति ततो भूभितले जनाः ॥२४॥
जनोच्छेदे ततो जाते अग्निष्टोमादिकाः क्रियाः॥
न भवंति धरा पृष्ठे ततः स्यादेव संक्षयः ॥२५॥
एतस्मात्कारणाद्रुद्धो मार्गस्ते सूर्यसंभव॥
रोहिणीं गंतुकामस्य सत्यमेतन्मयोदितम् ॥२६॥
॥ शनिरुवाच ॥
गच्छ पुत्र निजं गेहं ममापि त्वं च रोचसे॥
तुष्टोऽहं तव वीर्येण न त्वन्येन महीपते ॥२७॥
न केनचित्कृतं कर्म यदेतद्भवता कृतम्॥
न करिष्यति चैवान्यो देवो वा मानवोऽथ वा ॥२८॥
नाहं पश्यामि भूपाल कथंचिदपि तूर्ध्वतः॥
यतो दृष्टिविनिर्दग्धं भस्मसाज्जायतेऽखिलम् ॥२९॥
जातमात्रेण बालेन मया पादौ निरीक्षितौ॥
तातस्य सहसा दग्धौ ततोऽहं वारितोंऽबया ॥३०॥
न त्वया पुत्र द्रष्टव्यं किंचिदेव कथंचन॥
प्रमाणं यदि ते धर्मो मातृवाक्यसमुद्भवः ॥३१॥
तस्मात्त्वया महत्कर्म कृतमीदृक्सुदुष्करम्॥
प्रजानां पार्थिवश्रेष्ठ त्यक्त्वा दूराद्भयं मम ॥३२॥
तस्मा त्तव कृते नाहं भेदयिष्यामि रोहिणीम्॥
कथंचिदपि भूपाल युगांतररशतेष्वपि ॥३३॥
वरं वरय चास्माकं तस्मादद्य भविष्यति॥
हृतत्स्थितं दुर्लभं भूप सर्वेषामिह देहिनाम् ॥३४॥
॥ राजोवाच ॥
तव यो वासरे प्राप्ते तैलाभ्यंगं करोति वै॥
तस्याऽन्यदिवसं यावत्पीडा कार्या न च त्वया ॥३५॥
तिलदानं करोत्येवं लोहदानं च यस्तव॥
करोति दिवसे शक्त्या यावद्वर्षं त्वया हि सः ॥३६॥
रक्षणीयः सुकृच्छ्रेषु संकटेषु सदैव हि॥
त्वयि गोचरपीडायां संस्थिते चार्कसंभव ॥३७॥
यः कुर्याच्छांतिकं सम्यक्तिलहोमं च भक्तितः॥
वासरे तव संप्राप्ते समिद्भिश्च तथाऽक्षतैः ॥३८॥
तस्य सार्धानि वर्षाणि सप्त कार्या प्रयत्नतः॥
त्वया रक्षा महाभाग वरं चेन्मम यच्छसि ॥३९॥
॥ सूत उवाच ॥
एवमित्येव संप्रोच्य विरराम ततः परम्॥
शनैश्चरो महीपालवचनाद्द्विजसत्तमाः ॥६.९६.४०॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं सुविस्तरात्॥
भवद्भिः सूर्यपुत्रस्य राज्ञा दशरथेन हि॥
संवादं रोहिणीभेदे सञ्जातं समुपस्थिते ॥४१॥
यश्चैतत्पठते नित्यं शृणुयाद्यो विशेषतः॥
शनैश्चरकृता पीडा तस्य नाशं प्रगच्छति ॥४२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशरथशनैश्चरसंवादवर्णनंनाम षण्णवतितमोऽध्यायः ॥९६॥
N/A
References : N/A
Last Updated : December 26, 2024
TOP