नागरखण्डः - अध्याय १२५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
ततः कर्णोत्पलातीर्थं विख्यातं चास्ति शोभनम् ॥
यत्र स्नातो नरः सम्यङ्न वियोगमवाप्नुयात् ॥१॥
कथंचिदपि चेष्टेन धनेनालिजनेन च ॥
पराक्रमेण धर्मेण कलत्रेण विशेषतः ॥२॥
सत्यसंध इति ख्यातः पुरासीत्पृथिवीपतिः ॥
इक्ष्वाकुकुलसंभूतः सर्वरूपगुणैर्युतः ॥३॥
तस्य कर्णोत्पलानाम जाता कन्या सुशोभना ॥
बहुपुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥४॥
अथ तस्याः पिता नाम चक्रे द्वादशमे दिने ॥
संमंत्र्य ब्राह्मणैः सार्धं भृत्यामात्यैर्मुहुर्मुहुः ॥५॥
यस्मात्कर्णोत्पला चेयं जाता मम कुमारिका ॥
तस्मात्कर्णोत्पलानाम जाता कन्या सुशोभना ॥६॥
बहु पुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥
तस्मात्कर्णोत्पलानाम जायतां द्विजसत्तमाः ॥७॥
कृतनामाऽथ सा बाला वृद्धिं याति दिनेदिने ॥
आह्लादकारिणी नित्यं कला चांद्रमसी यथा ॥८॥
अथ सा क्रमशः प्राप्ता यौवनं बंधुलालिता ॥
हस्ताद्धस्तं प्रगच्छंती सर्वेषां द्विजसत्तमाः ॥९॥
अथ तां यौवनोपेतां दृष्ट्वा स पृथिवीपतिः ॥
चिंतयामास चित्तेन कस्येमां प्रददाम्यहम् ॥१०॥
न तस्याः सदृशः कश्चिद्वरोऽत्र धरणीतले ॥
न स्वर्गे न च पाताले किं कृत्यं मेऽधुना भवेत् ॥ ११॥
स एवं बहुधा ध्यात्वा तदर्थं पृथिवीपतिः ॥
निश्चयं प्राकरोच्चित्ते प्रष्टव्योऽत्र पितामहः ॥१२
मयाद्य विषये चास्मिन्स देवः प्रेरयिष्यति ॥
तस्मै पुत्रीं प्रदास्यामि नान्यस्मै वै कथंचन ॥१३॥
स एवं निश्चयं कृत्वा तामादाय ततः परम् ॥
ब्रह्मलोकं जगामाथ प्रष्टुं तस्याः कृते वरम् ॥१४॥
अथ यावत्स संप्राप्तो ब्रह्मलोकं नरेश्वरः ॥
तावत्संध्या समुत्पन्ना ब्राह्मी ब्राह्मणसत्तमाः ॥१५॥
एतस्मिन्नंतरे ब्रह्मा सायंतनक्रियोत्सुकः ॥
उपविष्टः समाधिस्थस्तत्कालं समपद्यत ॥१६॥
सत्यसंधोऽपि तं दृष्ट्वा समाधिस्थं पितामहम् ॥
समाध्यंतं प्रतीक्षन्स उपविष्टः समीपतः ॥१७॥
ततो विलोक्य चात्मानमात्मनि प्रपितामहः ॥
पद्मे प्रवर्तिते सम्यगष्टपत्रे हृदि स्थिते ॥१८॥
कर्णिकामध्यगं दीप्तं बहुवर्णमतिस्थिरम् ॥
आनंदाश्रुपरिक्लिन्नवदनः पुलकांकितः ॥१९॥
तत आचम्य प्रक्षाल्य चरणौ सर्वतोदिशम् ॥
अपश्यत्प्रणतः सर्वैर्ब्रह्मलोकनिवासिभिः ॥२०॥
एतस्मिन्नंतरे राजा तामादाय शुभाननाम् ॥
नमस्कृत्य तया सार्धं ततः प्रोवाच सादरम् ॥२१॥
अहं देव समायातो मर्त्यलोकात्तवांतिकम् ॥
सत्यसंधो महीपाल आनर्त भुवि विश्रुतः ॥२२॥
इयं कर्णोत्पलानाम मम कन्या सुशोभना ॥
अस्या भुवि मया लब्धो न समोऽत्र पतिः क्वचित् ॥२३॥
सदृशस्तेन चायातस्तव पार्श्वे सुरोत्तम ॥
तस्मान्मे ब्रूहि भर्त्तारमस्या येन ददाम्यहम् ॥२४॥
॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा ततः प्रोवाच पद्मजः ॥
विहस्य सर्वदेवानां समाजे द्विजसत्तमाः ॥ २५॥
यदि पृच्छसि मे भूप कन्याधर्मपतिं प्रति ॥
तन्नैषा कस्यचिद्देया सांप्रतं शृणु कारणम् ॥२६॥
आत्मश्रेणिप्रसूताय वयोज्येष्ठाय भूपते ॥
कन्या देया च धर्माय यशसे कुलवृद्धये ॥२७॥
सेयं तव सुता मर्त्ये ज्येष्ठभावं समाश्रिता ॥
सर्वेषां भूमिपालानां यत्तत्त्वं कारणं शृणु ॥२८॥
ममांतिकं प्रपन्नस्य तव जातं युगत्रयम् ॥
अतीता भूतले मर्त्या ये दृष्टाः प्राक्त्वया नृप ॥२९॥
अन्या सृष्टिः समुत्पन्ना सांप्रतं धरणीतले ॥
न त्वं जानासि माहात्म्यान्मम लोकसमुद्भवात् ॥३०॥
न देवा मानुषीं भार्यां कुर्वन्ति च कथंचन ॥
श्लेष्ममूत्रपुरीषाणां संस्थानं या विगर्हिता ॥३१॥
तस्मादत्रैव तिष्ठ त्वं सुतया सहितो नृप ॥
हस्त्यश्वादि च यत्किंचित्तत्सर्वं ते क्षयं गतम् ॥३२॥
पुत्राः पौत्रास्तथा भृत्या ये चान्ये बांधवास्तव ॥
ते सर्वे निधनं प्राप्ता ये चान्ये भवतेक्षिताः ॥३३॥
स तथेति प्रतिज्ञाय स्थितः पार्थिवसत्तमः ॥
यावत्तावत्सुदुःखार्ता रुदतीसाऽब्रवीत्सुता ॥३४॥
नाहं तात वसिष्यामि स्थानेस्मिन्ब्रह्मसंभवे ॥
सखीजनपरित्यक्ता बंधुवर्गविनाकृता ॥३५॥
तस्माद्यास्यामि तत्रैव यत्र सा जननी मम ॥
ताश्च सख्यः कृतानंदा याभिः संक्रीडितं मया ॥३६॥
भर्त्रा विनाकृता नाहं नयिष्ये कालसंस्थितिम् ॥
तस्मात्तत्र द्रुतं गच्छ यत्र मे जननी स्थिता ॥३७॥
तस्यास्तद्वचनं श्रुत्वा स्नेहार्द्रेण स चेतसा ॥
तामादाय ततः प्राप्तः स्वं देशं पार्थिवोत्तमः ॥३८॥
यावत्पश्यति तावत्स स्थलस्थाने जलाशयान् ॥
जलस्थानेषु संजाताः स्थलसंघाः सुदुर्गमाः ॥३९॥
अन्ये लोकास्तथा धर्मास्तेषां मध्ये व्यवस्थिताः ॥
पृच्छन्नपि न जानाति संबंधं केनचित्सह ॥४०॥
तथा मर्त्यानिलस्पृष्टन्द्यतत्त्कणात्स महीपतिः ॥
सा च कन्या जराग्रस्ता संजाता श्वेतमूर्द्धजा ॥४१॥
वलिभिः पूर्णितांगी च शीर्णदंता कुचच्युता ॥
अमनोज्ञा विरूपांगी चिपिटाक्षी द्विजोत्तमाः ॥४२॥
सोपि राजा तथाभूतो वेपमानः पदेपदे ॥
पप्रच्छ भूपतिः कोत्र देशः कोयं पुरं च किम् ॥४३॥
अथ प्रोचुर्जनास्तस्य देश आनर्त इत्ययम् ॥
अयं भूपोत्र विख्यातः सुधर्मज्ञो बृहद्बलः ॥४४॥
एतत्प्राप्तिपुरंनाम एषा साभ्रमती नदी ॥
गर्तातीर्थमिदं पुण्यमेतस्याः परिकीर्तितम् ॥४९॥
यत्रैते मुनयः शांता दांताश्चाष्टगुणे रताः ॥
तपरता महाभागाः स्नानजप्ययपरायणाः ॥४६॥
ततः स तु समाकर्ण्य रुरोद कृतनिःस्वनः ॥
स्वसुतां तां समालिंग्य दुःखशोकसमन्वितः ॥४७॥
तौ च वृद्धतमौ दृष्ट्वा रुदतौ कृपयान्विताः ॥
सर्वे लोकाः समाजग्मुः पप्रच्छुश्च सुदुःखिताः ॥४८॥
किं त्वं वृद्ध सुदुःखार्तः प्ररोदिषि निरर्गलम् ॥
अनया वृद्धया सार्धं तस्मान्नः कारणं वद ॥४९॥
किं ते नष्टः प्रियः कश्चित्किं वा जातो धनक्षयः ॥
पराभूतोसि वा किं त्वं केनापि वद मा चिरम् ॥५०॥
धर्मज्ञो दुष्टहंता च साधूनां पालने रतः ॥
राजा बृहद्बलोस्माकं येन ते कुरुते सुखम् ॥५१॥
सत्यसंध उवाच ॥
आनर्त्ताधिपतिश्चाहं सत्यसंध इति स्मृतः ॥
मम कर्णोत्पलानाम सुतेयं दयिता सदा ॥५२॥
सोहमस्याः प्रदानार्थं ब्रह्मलोकमितो गतः ॥
प्रष्टुं पितामहं देवं स्थितस्तत्र मुहूर्तवत् ॥५३॥
ततो भूयः समायातो यावत्पश्यामि भूतलम् ॥
तावद्विलोमतां प्राप्तं सर्वं नो वेद्मि किञ्चन ॥५४॥
तच्छ्रुत्वा ते जना गत्वा विस्मयोत्फुल्ललोचनाः ॥
बृहद्बलाय तत्सर्वमाचख्युस्तुष्टिसंयुताः ॥५५॥
सोऽपि तत्सर्वमाकर्ण्य ततः शीघ्रतरं गतः ॥
पद्भ्यामेव स्थितो यत्र सत्यसन्धो महीपतिः ॥५६॥
ततस्तं प्रणिपत्योच्चैः कृतांजलिपुटः स्थितः ॥
स्वागतं ते महीपाल भूयः सुस्वागतं च ते ॥५७॥
इदं राज्यं निजं भूयो मया भृत्येन सादरम् ॥
कुरुष्व स्वेच्छया देहि दानानि विविधानि च ॥५८॥
ततस्तं च समालिंग्य शिरस्याधाय चासकृत् ॥
उवाचाश्रुपरिक्लिन्नवदनो गद्गदाक्षरम् ॥५९॥
वत्स चीर्णं मया राज्यं दानं दत्तं पृथग्विधम् ॥
वाजिमेधमुखैर्यज्ञैरिष्टं संपूर्णदक्षिणैः ॥६०॥
तस्मात्तपश्चरिष्यामि सुतया चानया सह ॥
यथैषा लभते भूयस्तारुण्यं प्राक्तनं शुभम् ॥६१॥
॥ बृहद्बल उवाच ॥
पारंपर्येण राजेंद्र मयैतत्सकलं श्रुतम् ॥
सत्यसंधो महीपालः कन्यामादाय निर्गतः ॥६२॥
कुत्रचिन्न समायातः स भूयोऽपि पुरोत्तमे ॥
ततस्तत्सचिवै राज्यं प्रतिपाल्य चिरं नृप ॥
अभिषिक्तस्ततः पुत्रः सुहयोनाम विश्रुतः ॥६३॥
तस्याहं क्रमशो जातः सप्तसप्ततिमो विभो ॥
पुरुषस्तव वंशस्य समुद्भूतो महापतिः ॥६४॥
तस्मादत्रैव कल्याणे स्थानेऽस्मिन्मेध्यतां गते ॥
गर्तातीर्थे कुरु विभो तपस्त्वमनया सह ॥६५॥
येन ते चरणौ नित्यं प्रणिपत्य त्रिसंधिजम् ॥
श्रेयः प्राप्नोम्यसंदिग्धं प्रसादः क्रियतामिति ॥६६॥
॥ सत्यसंध उवाच ॥
हाटकेश्वरजे क्षेत्रे मयासीत्स्थापितं पुरा ॥
लिंगं वृषभनाथस्य तावदस्ति सुपुत्रक ॥६७॥
तत्तस्याराधनं नित्यं करिष्यामि दिवानिशम् ॥
तस्मात्प्रापय मां तत्र अनया सुतया सह ॥६८॥
एवं तयोः प्रवदतोरन्योन्यं भूमिपालयोः ॥
गर्त्तातीर्थात्समायाता ब्राह्मणाः कौतुकान्विताः ॥
श्रुत्वा भूमिपतिं प्राप्तं चिरंतनगुरुं शुभम् ॥६९॥
ततः स पार्थिवस्तेषां दत्त्वार्घं प्रांजलिः स्थितः ॥
प्रोवाच स्वर्गवृत्तांतमास्यतामिति सादरम् ॥७०॥
अथ ते ब्राह्मणाः सर्वे यथाज्येष्ठं यथासुखम् ॥
उपविष्टा नरेंद्रस्य चतुर्दिक्षु सुविस्मिताः ॥
पप्रच्छुस्तं च भूपालं वार्तां ब्रह्मगृहोद्भवाम् ॥७१॥
यथा स तत्र निर्यात आगतश्च यथा पुरा ॥
आलापाः पद्मयोनेश्च यथा जातास्त्वनेकशः ॥७२॥
ततः कथांतमासाद्य सत्यसंधो महीपतिः ॥
किंचिदासाद्य तं प्राह समीपस्थं बृहद्बलम् ॥७३॥
मया इष्टं मखैश्चित्रैरनेकैर्भूरिदक्षिणैः ॥
दानानि च विचित्राणि येषां संख्या न विद्यते ॥७४॥
एकदाहं गतः पुत्र चमत्कारपुरोत्तमे ॥
दृष्टं मया पुरं तच्च समंताद्ब्राह्मणैवृतम् ॥७५॥
जपस्वाध्यायसंपन्नैरग्निहोत्रपरायणैः ॥
गृहस्थधर्मसंपन्नैर्लोकद्वयफलान्वितैः ॥७६॥
ततश्च चिंतितं चित्ते स वन्यो मम पूर्वजः ॥
येनैषोपार्जिता कीर्तिः शाश्वती क्षयवर्जिता ॥७७॥
तस्मादहमपि स्थाप्य पुरमीदृक्समुच्छ्रितम् ॥
ब्राह्मणेभ्यः प्रदास्यामि तत्कीर्तिपरिवृद्धये ॥७८॥
एवं चितयमानस्य मम नित्यं महीपते ॥
अवांतरेण संजातं ब्रह्मलोकप्रयाणकम् ॥७९॥
एतदेकं हि मे चित्ते पश्चात्तापकरं स्थितम् ॥
नान्यत्किंचिन्महीपाल कृतकृत्यस्य सर्वतः ॥८०॥
तस्मात्प्रार्थय विप्रेंद्रान्कांश्चिदेषां महात्मनाम् ॥
येन यच्छामि सुस्थानं कृत्वा तेभ्यस्तवाज्ञया ॥८१॥
ततः स प्रार्थयामास तदर्थं ब्राह्मणोत्तमान् ॥
ममोपरि दयां कृत्वा क्रियतां भोः परिग्रहः ॥८२॥
अस्य भूपस्य सद्भक्त्या यच्छतः पुरमुत्तमम् ॥
अहं वः पालयिष्यामि सर्वे मद्वंशजाश्च ते ॥८३॥
ततः कांश्चित्सुकृच्छ्रेण समानीय बृहद्बलः ॥
राज्ञे निवेदयामास एतेभ्यो दीयतामिति ॥८४॥
ततः प्रक्षाल्य सर्वेषां पादान्स पृथिवीपतिः ॥
सत्यसंधो ददौ तेभ्यः पुरार्थं भूमिमुत्तमाम् ॥८५॥
बृहद्बलस्य चादेशं ददौ संप्रस्थितः स्वयम् ॥
त्वयैतद्योग्यतां नेयं पुरं परपुरंजय ॥८६॥
गत्वा च स तया सार्धं तत्क्षेत्रं हाटकेश्वरम् ॥
तल्लिंगं प्राप्य संहृष्टश्चिरं तेपे तपस्ततः ॥८७॥
सापि कर्णोत्पला प्राप्य किंचित्पुण्यं जलाशयम् ॥
तपस्तेपे प्रतिष्ठाप्य गौरीं श्रद्धासमन्विता ॥८८॥
एतस्मिन्नंतरे राजा कालधर्ममुपागतः ॥
आनर्ताधिपतिर्युद्धे हतः पुत्रैः समन्वितः ॥८९॥
ततस्ते ब्राह्मणाः सर्वे गर्तातीर्थसमुद्भवाः ॥
सत्यसंधं समभ्येत्य प्रोचुर्दुःखसमन्विताः ॥९०॥
परिग्रहः कृतोऽस्माभिः केवलं पृथिवीपते ॥
न च किंचित्फलं जातं वृत्तिजं नः पुरोद्भवम् ॥९१॥
तस्मात्कुरु स्थितिं त्वं च स्वधर्मपरिवृद्धये ॥
येन तद्वर्तनोपायो ह्यस्माकं नृपसत्तम ॥९२॥
राजा बृहद्बलो युद्धे कालधर्ममुपागतः ॥
यस्त्वया दर्शितोऽस्माकं वृत्त्यर्थं नृपसत्तम ॥९३॥
॥ सत्यसन्ध उवाच ॥
संन्यस्तोऽहं द्विजश्रेष्ठा वृत्तिं कर्तुं न च क्षमः ॥
यदि मे स्यात्पुमान्कश्चिदन्वयेऽपि न संशयः ॥९४॥
तस्माद्व्रजथ हर्म्यं स्वं प्रसादः क्रियतां मम ॥
अभाग्यैर्भवदीयैश्च हतो राजा बृहद्बलः ॥९५॥
एवमुक्ताश्च ते विप्रा मत्वा तथ्यं च तद्वचः ॥
स्वस्थानं त्वरिता जग्मुः सोऽपि चक्रे तपश्चिरम् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सत्यसन्धनृपतिवृत्तान्तवर्णनंनाम पंचविंशत्यधिकशततमोऽध्यायः ॥१२५॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP