संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २४०

नागरखण्डः - अध्याय २४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
हरेर्दीपस्तु मद्दीपादधिकोऽयं प्रकुर्वतः ॥
वैकुण्ठवास एव स्यान्ममैश्वर्यमवांछितम् ॥१॥
 ॥ नारद उवाच ॥
दीपोऽयं विष्णुभवने मन्त्रवद्विहितो नरैः ॥
सदा विशेषफलदश्चातुर्मास्येऽधिकः कथम् ॥२॥
 ॥ ब्रह्मोवाच ॥
विष्णुर्नित्याधिदैवं मे विष्णुः पूज्यः सदा मम ॥
विष्णुमेनं सदा ध्याये विष्णुर्मत्तः परो हि सः ॥३॥
स विष्णु वल्लभो दीपः सर्वदा पापहारकः ॥
चातुर्मास्ये विशेषेण कामनासिद्धिकारकः ॥४॥
विष्णुर्दीपेन संतुष्टो यथा भवति पुत्रक ॥
तथा यज्ञसहस्रैश्च वरं नैव प्रयच्छति ॥५॥
स्वल्प व्ययेन दीपस्य फलमानंतकं नृणाम् ॥
अनंतशयने प्राप्ते पुण्यसंख्या न विद्यते ॥६॥
तस्मात्सर्वात्मभावेन श्रद्धया संयुतेन च ॥
दीपप्रदानं कुरुते हरेः पापैर्न लिप्यते ॥७॥
उपचारैः षोडशकैर्यतिरूपे हरौ पुनः ॥
दीपप्रदाने विहिते सर्वमुद्द्योतितं जगत् ॥८॥
दीपादनंतरं ब्रह्मन्नन्नस्य च निवेदनम् ॥
त्रयोदश्या भक्तियुक्तैः कार्यं मोक्षपदस्थितैः ॥९॥
अमृतं संपरित्यज्य यदन्नं देवता अपि ॥
स्पृहयंति गृहस्थस्य गृहद्वारगताः सदा ॥१०॥
हरौ सुप्ते विशेषेण प्रदेयः प्रत्यहं नरैः ॥
फलैरर्घ्यो विष्णुतुष्ट्यै तत्कालसमुदा हृतैः ॥११॥
तांबूलवल्लीपत्रैश्च तथा पूगफलैः शुभैः ॥
द्राक्षाजंब्वाम्रजफलैरक्रोडैर्दाडिमैरपि ॥१२॥
बीजपूरफलैश्चैव दद्यादर्घ्यं सुभक्तितः ॥
शंखतोयं समादाय तस्योपरि फलं शुभम् ॥१३॥
मंत्रेणानेन विप्रेन्द्र केशवाय निवेदयेत् ॥
पुनराचमनं देयमन्नदानादनंतरम् ॥१४॥
आर्तिक्यं च ततः कुर्यात्सर्वपापविनाशनम् ॥
चतुर्दश्या नमस्कुर्याद्विष्णवे यतिरूपिणे ॥१५॥
पंचदश्या भ्रमः कार्यः सर्वदिक्षु द्विजैः सह ॥
सप्तसागरजै स्तोयैर्दत्तैर्यत्फलमाप्यते ॥१६॥
तत्तोयदानाच्च हरेः प्राप्यते विष्णुवल्लभैः ॥
चतुर्वारभ्रमीभिश्च जगत्सर्वं चराचरम् ॥१७॥
क्रांतं भवति विप्राग्र्य तत्तीर्थगमनादिकम् ॥
षोडश्या देवसायुज्यं चिन्तयेद्योगवित्तमः ॥१८॥
आत्मनश्च हरेर्नित्यं न मूर्तिं भावयेत्तदा ॥
मूर्तामूर्तस्वरूप त्वाद्दृश्यो भवति योगवित् ॥१९॥
तस्मिन्दृष्टे निवर्तेत सदसद्रूपजा क्रिया ॥
आत्मानं तेजसां मध्ये चिन्तयेत्सूर्यवर्चसम् ॥२०॥
अहमेव सदा विष्णुरित्यात्मनि विचारयन् ॥
लभते वैष्णवं देहं जीवन्मुक्तो द्विजो भवेत् ॥२१॥
चातुर्मास्ये विशेषेण योगयुक्तो द्विजो भवेत् ॥
इयं भक्तिः समादिष्टा मोक्षमार्गप्रदे हरौ ॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्यु पाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये दीपदानादिसायुज्यचिन्तनान्तभक्तिनिरूपणं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४०॥ ॥छ ॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP