संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ८५

नागरखण्डः - अध्याय ८५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ऋषय ऊचुः ॥
माधव्याः पद्मया दत्तो यः शापस्तस्य यत्फलम् ॥
परिणामोद्भवं सर्वं श्रुतमस्माभिरद्य तत् ॥१॥
तेन यत्कमला शप्ता ब्राह्मणेन महात्मना ॥
सा कथं गज वक्त्राऽथ पुनर्जाता शुभानना ॥२॥
 ॥ सूत उवाच ॥
शापेन तस्य विप्रस्य तत्क्षणादेव सा द्विजाः ॥
गजवक्त्रा समुत्पन्ना महाविस्मयकारिणी ॥३॥
सा प्रोक्ता हरिणा तिष्ठ किञ्चित्कालांतरे शुभे ॥
अनेनैव तु रूपेण यावत्स्याद्द्वापरक्षयः ॥४॥
ततोऽहं मेदिनीपृष्ठे ह्यवतीर्य समुद्रजे ॥
तपः शक्त्या करिष्यामि भूयस्त्वां तु शुभाननाम् ॥५॥
अवज्ञायाथ सा तस्य तद्वाक्यं शार्ङ्गधन्विनः ॥
शुभास्यत्वकृते तेपे तपस्तीव्रं सुहर्षिता ॥६॥
एतत्क्षेत्रं समासाद्य त्रिकालं स्नानमाचरत् ॥
ब्रह्माणं तोषयामास दिवारात्रिमतंद्रिता ॥७॥
तामुवाच ततो ब्रह्मा वर्षांते तुष्टिमागतः ॥
वरं प्रार्थय तुष्टोऽहं तव केशववल्लभे ॥८॥
 ॥ लक्ष्मीरुवाच ॥
गजास्याहं कृता देव शापं दत्त्वा सुदारुणम् ॥
ब्राह्मणेन सुक्रुद्धेन कस्मिश्चित्कारणांतरे ॥९॥
तस्मात्तद्रूपिणीं भूयो मां कुरुष्व पितामह ॥
यदि मे तुष्टिमापन्नो नान्यत्किंचिद्वृणोम्यहम् ॥१०॥
 ॥ ब्रह्मोवाच ॥
भविष्यति शुभं वक्त्रं मत्प्रसादादसंशयम् ॥
तव भद्रे विशेषेण तस्मात्त्वं स्वगृहं व्रज ॥११॥
महत्त्वं ते मया दत्तमद्यप्रभृति शोभने ॥
महालक्ष्मीति ते नाम तस्मादत्र भविष्यति ॥१२॥
गजवक्त्रां नरो यस्त्वां पूजयिष्यति भक्तितः ॥
स गजाधिपतिर्भूपो भविष्यति च भूतले ॥१३॥
द्वितीयादिवसे यस्त्वां महालक्ष्मीरिति ब्रुवन् ॥
श्रीसूक्तेन सुभक्त्याऽथ देवि संपूजयिष्यति ॥१४॥
सप्तजन्मांतराण्येव न भविष्यति सोऽधनः ॥
एवमुक्त्वा चतुर्वक्त्रो विरराम ततः परम् ॥१५॥
साऽपि हृष्टा गता देवी यत्र तिष्ठति केशवः ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महालक्ष्मीमाहात्म्यवर्णनंनाम पञ्चाशीतितमोऽध्यायः ॥८५॥

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP