नागरखण्डः - अध्याय ७१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
तास्तथेति प्रतिज्ञाय चक्रुस्तच्छक्रशासनम् ॥
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः ॥१॥
अथान्यदिवसे बालो द्वादशार्कसमद्युतिः ॥
संजज्ञे तेन वीर्येण द्विभुजैक मुखः शुभः ॥२॥
यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः ॥
तच्छ्रुत्वा रुदितं सर्वाः कृत्तिकास्तमुपागताः ॥३॥
महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः ॥
सोत्कण्ठः षण्मुखो जातो द्वादशाक्षभुजस्तथा ॥४॥
एकैकस्याः पृथक्तेन प्रपपौ प्रयतः स्तनम् ॥
द्वाभ्यामालिंगयामास भुजाभ्यां स्नेहपूर्वकम् ॥५॥
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुशिवादयः ॥
सर्वे देवाः सहेन्द्रेण गन्धर्वाप्सरसस्तथा ॥६॥
महोत्सवोऽथ संजज्ञे तस्मिन्स्थाने निरर्गलः ॥
गीतवाद्यप्रणादेन येनविश्वं प्रपूरितम् ॥७॥
रंभाद्या ननृतुस्तस्य विलासिन्यो दिवौकसाम् ॥
जगुश्च मुख्यगन्धर्वा श्चित्रांगदमुखाश्च ये ॥८॥
ततस्तु देवताः सर्वास्तस्य नाम प्रचक्रिरे ॥
स्कन्दनाद्रेतसो भूमौ स्कन्द इत्येव सादरम् ॥९॥
अथ तस्य कुमा रस्य तदा तत्राभिषेचनम् ॥
सेनापत्यं कृतं साक्षाद्देवानां शंभुना स्वयम् ॥१०॥
तस्य शक्तिः स्वयं दत्ता विधिनाऽद्भुतदर्शना ॥
अमोघा विजयार्थाय दैत्यपक्षक्षयाय च ॥११॥
मयूरो वाहनार्थाय त्र्यंबकेण सुशीघ्रतः ॥
दिव्यास्त्राणि महेन्द्रेण विष्णुनाथ महात्मना ॥१२॥
ततोऽभीष्टानि शस्त्राणि देवैः सर्वैः पृथक्पृथक् ॥
तस्य दत्तानि संतुष्टैस्तथा मातृगणैरपि ॥१३॥
ततस्तमग्रतः कृत्वा सेनानाथं सुरेश्वराः ॥
जग्मुः ससैनिकास्तत्र तारको यत्र संस्थितः ॥१४॥
तारकोऽपि समालोक्य देवान्स्वयमुपागतान् ॥
युद्धार्थं हर्षसंयुक्तः सम्मुखः सत्वरं ययौ ॥१५॥
ततोऽभूत्सुमहद्युद्धं देवानां दानवैः सह ॥
कोपसंरक्तनेत्राणां मृत्युं कृत्वा निवर्तनम् ॥१६॥
अथ स्कन्देन संवीक्ष्य दूरस्थं तारकं रणे ॥
समाहूय ततो मुक्ता सा शक्तिस्तस्य मृत्यवे ॥१७॥
अथासौ हृदयं भित्त्वा तस्य दैत्यस्य दारुणा ॥
चमत्कारपुरोपांते पतिता रुधिरोक्षिता ॥१८॥
तारकस्तु गतो नाशं मुक्तः प्राणैश्च तत्क्षणात् ॥
ततो देवगणाः सर्वे संहृष्टास्तं महाबलम् ॥१९॥
स्तोत्रैर्बहुविधैः स्तुत्वा प्रोचुस्तस्मिन्हते सति ॥
गताश्च त्रिदिवं तूर्णं सह शक्रेण निर्भयाः ॥२०॥
स्कन्दोऽपि तां समादाय शक्तिं तत्र पुरोत्तमे ॥
स्थापयामास येनैव रक्तशृंगोऽभवद्दृढः ॥२१॥
ऋषय ऊचुः ॥
रक्तशृंगः कथं तेन निश्चलोऽपि दृढीकृतः ॥
कस्य वाक्येन नो ब्रूहि विस्तरेण महामते ॥२२॥
॥ सूत उवाच ॥
यदा वै भूमिकम्पस्तु संप्रजातः सुदारुणः ॥
रक्तशृङ्गः प्रचलितः स्वस्थानादतिवेगतः ॥२३॥
तस्य दैत्यस्य पातेन यथान्ये पर्व तोत्तमाः ॥
अथ हर्म्याणि सर्वाणि चमत्कारपुरे तदा ॥२४॥
शीर्णानि चलिते तस्मिन्पर्वते व्यथिता द्विजाः ॥
प्रायशो निधनं प्राप्तास्तथाऽन्ये मूर्छयार्दिताः ॥२५॥
हतशेषास्ततो विप्रा गत्वा स्कन्दं क्रुधान्विताः ॥
प्रोचुश्च किमिदं पाप त्वया कृतमबुद्धिना ॥२६॥
नाशं नीता वयं सर्वे सपुत्रपशुबाधवाः ॥
तस्माच्छापं प्रदास्यामो वयं दुःखेन दुःखिताः ॥२७॥
॥ स्कन्द उवाच ॥
हिताय सर्वलोकानां मयैतत्समनुष्ठितम् ॥
यद्धतो दानवो रौद्रो नान्यथा द्विजसत्तमाः ॥२८॥
प्रसादः क्रियतां तस्मान्मान्या मे ब्राह्मणाः सदा ॥
मृतानपि द्विजान्सर्वानहं तानमृताश्रयात् ॥२९॥
पुनर्जीवितसंयुक्तान्करिष्यामि न संशयः ॥
तथा सुनिश्चलं शैलं करिष्यामि स्वशक्तितः ॥३०॥
एवमुक्त्वा समादाय तां शक्तिं रुधिरोक्षिताम् ॥
चक्रे स्थापनमस्यास्तु रक्तशृङ्गस्य मूर्धनि ॥३१॥
ततः प्रोवाच संहृष्टो देवतानां चतुष्टयम् ॥
आंबवृद्धां तथैवाम्रां माहित्थां च चमत्करीम् ॥३२॥
युष्माभिर्निश्चलः कार्यो भूयोऽयं नगसत्तमः ॥
प्रलयेऽपि यथा स्थानाद्रक्तशृङ्गश्चलेन्नहि ॥३३॥
सदैव ख्यातिमायातु मन्नाम्ना पुरमुत्तमम् ॥
युष्माकं ब्राह्मणाः सर्वे पूजां दास्यंति सर्वदा ॥३४॥
बाढमित्येव ताः प्रोच्य चतुर्दिक्षु ततश्च तम् ॥
शूलाग्रैः सुदृढं चक्रुः स्कन्दवाक्येन हर्षिताः ॥३५॥
ततश्चामृतमादाय मृतानपि द्विजोत्तमान् ॥
स्कन्दो जीवापयामास द्विजभक्तिपरायणः ॥३६॥
ततस्ते ब्राह्मणास्तत्र संहृष्टा वरमुत्तमम् ॥
ददुस्तस्य स च प्राह मन्नामैतत्पुरोत्तमम् ॥
सदैव ख्यातिमायातु एतन्मे हृदि वांछितम् ॥३७॥
॥ ऋषय ऊचुः ॥
एतत्स्कन्दपुरंनाम तव नाम्ना भविष्यति ॥
चमत्कारपुरं तद्वत्सांप्रतं सुरसत्तम ॥३८॥
पूजां तव करिष्यामः कृत्वा प्रासादमुत्त मम् ॥
तथैव देवताः सर्वाश्चतस्रोऽपि त्वया धृताः ॥३९॥
सर्वाः संपूजयिष्यामः सर्वकृत्येषु सादरम् ॥
एतां चं तावकीं शक्तिं सदा सुरवरोत्तम ॥
विशेषात्पूजयिष्यामः षष्ठ्यां श्रद्धासमन्विताः ॥४०॥
॥ सूत उवाच ॥
एवं स ब्राह्मणैः प्रोक्तो महासेनो महाबलः ॥
स्थितस्तत्रैव तद्वा क्याज्ज्ञात्वा तत्क्षेत्रमुत्तमम् ॥४१॥
यस्तं पूजयते भक्त्या चैत्रषष्ठ्यां सुभावतः ॥
शुक्लायां तस्य संतुष्टिं कुरुते बर्हिवाहनः ॥४२॥
तस्यां शक्तौ नरो यश्च कुर्यात्पृष्ठिनिघर्षणम् ॥
पूजयित्वा तु पुष्पाद्यैः सम्यक्छ्रद्धासमन्वितः ॥
स न स्याद्रोगसंयुक्तो यावत्संवत्सरं द्विजाः ॥४३॥
एवं तत्र धृता शक्तिस्तेन स्कन्देन धीमता ॥
रक्तशृंगस्य रक्षार्थं तत्पुरस्य विशेषतः ॥४४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये स्कन्दस्थापितशक्तिमाहात्म्यवर्णनंनामैकसप्ततितमोऽध्यायः ॥७१॥
N/A
References : N/A
Last Updated : December 26, 2024
TOP