संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ४४

नागरखण्डः - अध्याय ४४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ मेनकोवाच ॥
नूनं हि कामधर्मे त्वं न प्रवीणो महाद्युते ॥
तेन मामीदृशैर्वाक्यैर्निवारयसि रागिणीम् ॥१॥
 ॥ सूत उवाच ॥
एवमुक्तस्ततो भूयो विश्वामित्रोऽब्रवीदिदम् ॥
कोपेन महता युक्तो निःस्पृहस्तत्परिग्रहे ॥२॥
 ॥ विश्वामित्र उवाच ॥
त्वं जीव गच्छ वा मृत्युं नाहं कर्तास्मि ते वचः ॥
व्रतनाशात्तु यत्पापमधिकं स्त्रीवधाद्भवेत् ॥३॥
प्रायश्चित्तं बुधैरुक्तं व्रतिनां स्त्रीवधे कृते ॥
न संगात्तु पुनस्तासां तस्मात्त्वं गन्तुमर्हसि ॥४॥
न केवलं व्रतोपेताः स्त्रीसंगात्पापमाप्नुयुः ॥
व्रतबाह्या अपि नराः सक्ताः स्त्रीषु पतंत्यधः ॥५॥
संसारभ्रमणं नारी प्रथमेपि समागमे ॥
वह्निप्रदक्षिणा व्याजन्यायेनैव प्रदर्शयेत् ॥६॥
तस्मात्स्त्रीभिः समं प्राज्ञः संभाषामपि वर्जयेत् ॥
आस्तां तावत्समासंगं य इच्छेच्छ्रेय आत्मनः ॥७॥
अंगार सदृशा नारी घृतकुंभसमः पुमान् ॥
अस्पर्शाद्दृढतामेति तत्संपर्काद्विलीयते ॥८॥
स्त्रियो मूलमनर्थानां सर्वेषां प्राणिनां भुवि ॥
तस्मात्त्याज्या सुदूरेण ताः स्वर्गस्य निरोधकाः ॥९॥
कुलीना वित्तवत्यश्च नाथवत्योऽपि योषितः ॥
एकस्मिन्नंतरे रागं कुर्वंत्येताः सुचञ्चलाः ॥१०॥
न स्त्रीभ्यः किंचिदन्यद्धि पापाय विद्यते भुवि ॥
यासां संगसमासाद्य संसारे भ्रमते जनः ॥११॥
नीचोऽपि कुरुते सेवां यस्तासां विजनेष्वथ ॥
विरूपं वापि नीचं वा तं सेवन्ते हि ताः स्त्रियः ॥१२॥
अनर्थत्वान्मनुष्याणां भयात्परिजनस्य च ॥
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥१३॥
 ॥सूत उवाच ॥
एवं संभर्त्सिता तेन मेनका कोपसंयुता ॥
शशाप तं मुनिश्रेष्ठं स्फुरमाणोष्ठसंपुटा ॥१४॥
यस्मात्त्वया परित्यक्ता सकामाहं सुदुर्मते ॥
त्यजता कामजं धर्मं तस्माच्छापं गृहाण मे ॥१५॥
अद्यैव भव दुबुर्द्धे वलीपलितसंयुतः ॥
जराजर्ज्जरितांगश्च तुच्छदृष्टिर्विरंगितः ॥१६॥
 ॥ सूत उवाच ॥
उक्तमात्रे तु वचने तत्क्षणान्मुनिसत्तमः ॥
बभूव तादृशः सद्यस्तया यादृक्प्रकीर्तितः ॥१७॥
ततः कोपपरीतात्मा सोऽपि तां शप्तुमुद्यतः ॥
कमण्डलोर्जलं गृह्य संतापाद्रक्तलोचनः ॥१८॥
निर्दोषोऽपि त्वया यस्माच्छप्तोऽहं गणिकाधमे ॥
तस्माद्भव त्वमप्याशु जराजर्जरितांगिका ॥१९॥
सापि तद्वचनात्सद्यस्तादृग्रूपा व्यजायत ॥
यादृशोऽसौ मुनिश्रेष्ठो वलीपलितगात्रभृत् ॥२०॥
अथ तादृक्स्वरूपेण स्नाता तत्र जला शये ॥
भूयोऽपि तादृशी जाता यादृशी संस्थिता पुरा ॥२१॥
तद्दृष्ट्वा परमाश्चर्यमतीव त्वरयान्वितः ॥
सोऽपि तत्राकरोत्स्नानं संजातश्च यथा पुरा ॥२२॥
ततस्तौ तीर्थमाहात्म्याद्रूपौदार्यगुणान्वितौ ॥
मिथ आमंत्र्य संहृष्टौ गतौ देशं यथेप्सितम् ॥२३॥
एवं तीर्थस्य माहात्म्यं विज्ञाय भगवानृषिः ॥
लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥२४॥
तपश्चकार सुमहत्तस्मिंस्तीर्थवरे तदा ॥
कुशस्तम्बेन कृतवांस्तत्सरो विपुलं विभुः ॥२५॥
तत्र स्नात्वा नरो यस्तु पूजयेल्लिंगमुत्तमम् ॥
विश्वामित्रेश्वरं ख्यातं स गच्छेच्छिवमंदिरम् ॥२६॥
अद्यापि दृश्यते तत्र गंगोदकसमं जलम् ॥
सर्वपापहरं पुण्यं सर्वकामप्रदायकम् ॥२७॥
यस्तत्र कुरुते स्नानं श्रद्धापूतेन चेतसा ॥
स देवलोकमासाद्य पितृभिः सह मोदते ॥२८॥
ततःप्रभृति तत्तीर्थं ख्यातिं प्राप्तं महीतले ॥
पाताले स्वर्गलोके च रूपौदार्यप्रदं नृणाम् ॥२९॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
विश्वामित्रेश माहात्म्यं सर्वपातकनाशनम् ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेवरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्ति विश्वामित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP