संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ९३

नागरखण्डः - अध्याय ९३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


सूत उवाच ॥
अथान्यदपि तत्रास्ति गोमुखाख्यं सुशोभनम् ॥
यद्गोवक्त्रात्पुरा लब्धं सर्वपातकनाशनम् ॥१॥
पुरासीदत्र गोपालः कश्चित्कुष्ठसमावृतः ॥
चमत्कारपुरं विप्र अतीव क्षामतां गतः ॥२॥
कस्यचित्त्वथ कालस्य तेन मार्गेण गोकुलम् ॥
मध्याह्नसमये प्राप्तं चंद्रे चित्रासमन्वितः ॥३॥
एकादश्यां तृषार्त्तं च भास्करे वृषसंस्थिते ॥
एकयापि ततो धेन्वा तृणस्तम्बमतीव हि ॥
नीलमालोकितं तत्र दूरादेत्य प्रहर्षिता ॥४॥
दन्तैर्द्रुतं समुत्पाट्य यावदाकर्षति द्विजाः ॥
तावत्तज्जडमार्गेण तोयधारा विनिर्गता ॥५॥
अथास्वाद्य तृणं तस्मात्तृषार्ता च शनैःशनैः ॥
पपौ तोयं सुविश्रब्धा सुस्वादु क्षीरसंनिभम् ॥६॥
तस्या वेगेन तत्तोयं पिबन्त्यास्तत्रभूतले ॥
गर्ता जाता सुविस्तीर्णा सलिलेन समावृता ॥७॥
ततोऽन्याः शतशो गावः पपुस्तोयं मुनिर्मलम् ॥
तृषार्त्तास्तद्द्विजश्रेष्ठाः पीयूषरससंनिभम् ॥८॥
यथायथा गता गावस्तत्र तोयं पिबंति ताः ॥
सा गर्ता वक्त्रसंस्पर्शाद्वृद्धिं याति तथा तथा ॥९॥
ततश्च गोकुले कृत्स्ने जाते तृष्णाविवर्जिते ॥
गोपालोऽपि तृषार्तस्तु तस्मिंस्तोये विवेश च ॥१०॥
अंगं प्रक्षाल्य पीत्वापो यावन्निष्क्रामति द्रुतम् ॥
तावत्पश्यति गात्रं स्वं द्वादशार्कसमप्रभम् ॥११॥
ततो विस्मयमापन्नो गत्वा स्वीयं निकेतनम् ॥
वृतांतं कथयामास लोकानां पुरतोऽखिलम् ॥१२॥
तृणस्तम्बं यथा धेन्वा तत्रोत्पाट्य प्रशक्तितः ॥
यथा विनिर्गतं तोयं यथा तेनावगाहितम् ॥१३॥
तद्दृष्ट्वा मानवाः सर्वे गत्वा दिव्यं जलं च तत् ॥
व्याधिग्रस्ता विशेषेण स्नानं चक्रुः समाहिताः ॥१४॥
भवंति च विनिर्मुक्ता रोगैः पापैश्च तत्क्षणात् ॥
अपापाश्च पुनर्यांति तत्क्षणात्त्रिदिवालयम् ॥१५॥
ततःप्रभृति तत्ख्यातं तीर्थं गोमुखसंज्ञितम् ॥
गोमुखाद्भूतले जातं यतश्चैवं द्विजोत्तमाः ॥१६॥
अथ भीतः सहस्राक्षस्तद्दृष्ट्वा स्वर्गदायकम् ॥
अक्लेशेन मनुष्याणां पूरयामास पांसुभिः ॥१७॥
 ॥ ऋषय ऊचुः ॥
किं तत्कारणमादिष्टं येन तत्तादृशं जलम् ॥
तस्मात्स्थानाद्विनिष्क्रांतं सूतपुत्र वदस्व नः ॥१८॥
 ॥ सूत उवाच ॥
अत्र पूर्वं तपस्तप्तमम्बरीषेण भूभुजा ॥
पुत्र शोकाभिभूतेन तोषितो गरुडध्वजः ॥१९॥
तस्य पुत्रः सुविख्यातः सुवर्चा इति विश्रुतः ॥
एको बभूव वृद्धत्वे कथंचिद्द्विजसत्तमाः ॥२०॥
पूर्वकर्मविपाकेन स बालोऽपि च तत्सुतः ॥
कुष्ठव्याधिसमाक्रांतः पितृमातृसुदुःखदः ॥२१॥
अथ तत्कामिकं क्षेत्रं स गत्वा पृथिवीपतिः ॥
चकार रोगनाशाय स्वपुत्रार्थं महत्तपः ॥२२॥
ततस्तुष्टिं गतस्तस्य स्वयमेव जनार्दनः ॥
प्रदाय दर्शनं वाक्यं ततः प्रोवाच सादरम् ॥२३॥
परितुष्टोऽस्मि ते वत्स तस्माच्चित्तेऽभिवांछितम् ॥
प्रार्थयस्व प्रयच्छामि वरं पुत्र न संशयः ॥२४॥
 ॥ राजोवाच ॥
ममायं संमतः पुत्रो ग्रस्तः कुष्ठेन केशव ॥
बालोऽपि तत्कुरुष्वास्य कुष्ठव्याधिपरिक्षयम् ॥२५॥
 ॥ श्रीभगवानुवाच ॥
एष आसीत्पुरा राजा मेघवाहनसंज्ञितः ॥
ब्रह्मण्यश्च कृतज्ञश्च सर्वशास्त्रार्थपारगः ॥२६॥
कस्यचित्त्वथ कालस्य ब्राह्मणोऽनेन घातितः ॥
अंतःपुरे निशाकाले प्रविष्टो जारकर्मकृत ॥२७॥
अथ पश्यति यावत्स प्रभातेऽभ्युदिते रवौ ॥
यज्ञोपवीतसंयुक्तस्तावत्स द्विजरूपधृक् ॥२८॥
अथ तं ब्राह्मणं मत्वा घृणाविष्टः सुदुःखितः ॥
गत्वा काशीपुरीं पश्चात्तपश्चक्रे समाहितः ॥२९॥
राज्ये पुत्रं समाधाय वैराग्यं परमं गतः ॥
नियतो नियताहारो भिक्षान्नकृतभोजनः ॥३०॥
ततः कालेन संप्राप्तो यमस्य सदनं प्रति ॥
विपाप्मापि च चिह्नेन युक्तोऽयं पृथिवीपतिः ॥३१॥
ब्रह्मघातोद्भवेनैव बालभावेऽपि संस्थिते ॥
येऽत्र कुष्ठसमायुक्ता दृश्यंते मानवा भुवि ॥
तैर्नूनं ब्राह्मणाघातो विहितश्चान्यजन्मनि ॥३२॥
हाटकेश्वरजे क्षेत्रे यो गत्वा श्राद्धमाचरेत् ॥
पितॄणां चैव सर्वेषामनृणः स प्रजायते ॥३३  ॥
न ब्राह्मणवधाद्बाह्यं कुष्ठव्याधिः प्रजायते ॥
एतत्सत्यं विजानीहि वदतो मम भूपते ॥३४॥
 ॥ अंबरीष उवाच ॥
एतदर्थं सुराधीश मया त्वं पूजितः प्रभो ॥
प्रसन्ने त्वयि देवेश नासाध्यं विद्यते भुवि ॥३५॥
एवमुक्तस्ततस्तेन भगवान्मधुसूदनः ॥
पातालजाह्नवीतोयं स सस्मार समाधिना ॥३६॥
सा ध्याता सहसा तेन विष्णुना प्रभविष्णुना ॥
कृत्वा तु विवरं सूक्ष्मं विनिष्क्रांताऽथ तत्क्षणात् ॥३७॥
ततः प्रोवाच वचनमंबरीषं चतुर्भुजः ॥
निमज्जतु सुतस्तेऽत्र सुपुण्ये जाह्नवीजले ॥३८॥
येन कुष्ठविनिर्मुक्तस्तत्क्षणादेव जायते ॥
तथा ब्रह्मवधोद्भूतैः पातकैरुपपातकैः ॥३९॥
एतस्मिन्नेव काले तु समानीय सुतं नृपः ॥
स्नापयामास तत्तोयैः प्रत्यक्षं शार्ङ्गधन्वनः ॥४०॥
ततः स बालकः सद्यः स्नातमात्रो द्विजोत्तमाः ॥
कुष्ठव्याधिविनिर्मुक्तो जातो बालार्कसंनिभः ॥४१॥
ततः प्रणम्य तं देवं हर्षेण महताऽन्वितः ॥
पित्रा समं जगामाथ स्वकीयं भवनं द्विजाः ॥४२॥
तस्मिन्गते महीपाले सपुत्रे तत्क्षणाद्धरिः ॥
तद्रंध्रं पूरयामास यथा नो वेत्ति कश्चन ॥४३॥
एतस्मात्कारणात्पूर्वं तत्तोयं सर्वपापहृत् ॥
यद्गोमुखेन भूयोऽपि भूतले प्रकटीकृतम् ॥४४॥
अद्यापि तज्जलस्पर्शात्सुपवित्रो धरातले ॥
यः स्नानं सूर्यवारेण कुरुतेऽर्कोदयं प्रति ॥
तस्य नाशं द्रुतं यांति गलगंडादिका इह ॥४९॥
व्याधयोपि महारौद्रा दद्रुपामा समुद्भवाः ॥
उपसर्गोद्भवाश्चैव विस्फोटकविचर्चिका ॥४६॥
निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र भक्तितः ॥
कुरुते याति लोकं स देवदेवस्य चक्रिणः ॥४७॥
यस्मिन्दिने समानीता सा गंगा तत्र विष्णुना ॥
तस्मिन्दिने वृषे सूर्यः स्थितश्चित्रासु चंद्रमाः ॥४८॥
तिथिश्चैकादशी चैव देवदेवस्य शार्ङ्गिणः ॥
गोवक्त्रेण तृणस्तंबं यस्मिंश्चैव तु वासरे ॥
समाकृष्टं च तत्रैव योग एवं व्यवस्थितः ॥४९॥
तथान्येऽपि दिने तस्मिन्यदि तोयमवाप्य च ॥
स्नानं करोति सद्भक्त्या तत्फलं सोऽपि चाप्नुयात् ॥५०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोमुखतीर्थमाहात्म्यवर्णनंनाम त्रिनवतितमोऽध्यायः ॥९३॥  

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP