संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २६८

नागरखण्डः - अध्याय २६८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


आनर्त उवाच ॥
कर्मणा केन मर्त्ये च नराणां जायते वद ॥
चक्रवर्तित्वमखिलं सर्वशत्रुविमर्दनम् ॥१॥
भर्तृयज्ञ उवाच ॥
दुर्लभं भूमिपालत्वं सर्वपापैर्नराधिप ॥
तपोभिर्नियमैर्दानैस्तथान्यैश्च शुभैर्व्रतैः ॥२॥
यः पुनर्भूपतिर्भूत्वा पृथ्वीं दद्याद्धिरण्मयीम् ॥
गौतमेश्वरदेवस्य पुरतः श्रद्धयान्वितः ॥
चक्रवर्ती भवेन्नूनमेवमाह पितामहः ॥३॥
मांधाता धुन्धुमारश्च हरिश्चंद्रः पुरूरवाः ॥
भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः ॥४ ॥
पृथ्वीदानं पुरा कृत्वा गौतमेश्वरसंनिधौ ॥
दत्त्वा हिरण्मयीं पृथ्वीं सार्वभौमास्ततः स्थिताः ॥५॥
आनर्त उवाच ॥
भगवन्केन विधिना दातव्या सा वसुन्धरा ॥
अहं दास्यामि तां नूनं श्रद्धा मे महती स्थिता ॥६॥
भर्तृयज्ञ उवाच ॥
कार्या पलशतेनोर्वी वृत्ताकारा नृपोत्तम ॥
तदर्धेनाथवा शक्त्या पंचविंशत्पलात्मिका ॥७॥
धरादाने महाराज वित्तशाठ्यं विवर्जयेत् ॥
नैव पंचपलादर्वाक्प्रदातव्या कथञ्चन ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलोद्भवाः ॥
समुद्राः सप्त चैतांस्तु कक्षायां तत्र दर्शयेत् ॥९॥
जंबूप्लक्षकुशक्रौंचशाकशाल्मलिपुष्कराः ॥
समुद्रान्सरितः सप्त द्वैगुण्येन प्रकल्पयेत् ॥१०॥
महेन्द्रो मलयः सह्यो हिमवान्गंधमादनः ॥
विंध्यः शृंगी च सप्तैव कल्पयेत्कुलपर्वतान् ॥११॥.
मध्ये प्रकल्पयेन्मेरुं दिक्षु विष्कम्भपर्वतान् ॥
जंबून्यग्रोधनीपांश्च प्लक्षश्चैव तथा द्रुमान् ॥१२॥
गंगाद्याः सरितस्तत्र प्राधान्येन प्रकल्पयेत् ॥
एवं निर्माप्य वसुधां सर्वां हेममयीं नृप ॥१३ ॥.
मंडपं कारयेत्पश्चाद्यथापूर्वं प्रकल्पितम् ॥१४॥
कुण्डानि तोरणान्येव ब्राह्मणग्रहपूजने ॥
पूर्ववत्सकलं कृत्वा मध्ये वेदिं प्रकल्पयेत् ॥१५॥
तत्र संस्थापयेत्पृथ्वीं पंचगव्येन पार्थिव ॥
यथोक्तमंत्रैस्तल्लिंगैस्ततः शुद्धोदकेन तु ॥१६॥
इमं मे गंगे यमुने पंचनद्यस्त्रिपुष्करम् ॥
श्रीसूक्तं पावमानं च हैमीं च तदनंतरम् ॥१७॥
स्नानकर्मणि योग्यांश स्वादिष्ठायनमुत्तमम् ॥१८॥
एवं संस्नाप्य विधिवद्वासांसि परिधापयेत् ॥
 युवा सुवासा मंत्रेण सूक्ष्माणि विविधानि च ॥१९॥
ये भूतानामधीत्येवं ततः प्रोच्य प्रपूजयेत् ॥
धूरसीति च मंत्रेण धूपं दद्यात्समाहितः ॥२०॥
अग्निर्ज्योतीति मंत्रेण कुर्यादारार्तिकं ततः ॥
अहमस्मीति मंत्रेण सप्तधान्यं प्रकल्पयेत् ॥२१॥
एवं कृत्वाऽखिलं तस्या यजमानः सितांबरः ॥
पुरः स्थितोंजलिं बद्ध्वा मंत्रानेतानुदाहरेत् ॥२२॥
त्वया संधार्यते विश्वं जगदेतच्चराचरम् ॥
तव दानं करिष्यामि सांनिध्यं कुरु मेदिनि ॥२३॥
शरीरेष्वपि भूतानां त्वं देवि प्रथमं स्थिता ॥
ततश्चान्यानि भूतानि जलादीनि वसुन्धरे ॥२४॥
ये त्वां यच्छंति ते भूयस्त्वां लभंते न संशयः ॥
इह लोके परे चैव पार्थिवं रूपमाश्रिता ॥२५॥
एवं स्तुत्वा समादाय तोयं हेमाकृतिं नृप ॥
वासुदेवं हृदि स्थाप्य मंत्रेणानेन कल्पयेत् ॥२६॥
पातालादुद्धृता येन पृथ्वी सा लोककारिणा ॥
अस्या दानेन च सदा प्रीयतां मे जनार्दनः ॥
एवमुच्चार्य तत्तोयं तोयमध्ये परिक्षिपेत् ॥
न भूमौ नैव हस्ते च ब्राह्मणस्य नृपोत्तम ॥२८॥
ततो विसर्जयेद्देवीं मन्त्रेणानेन भागशः ॥
आगता च यथान्यायं पूजिता च यथाविधि ॥२९॥
अस्माकं त्वं हितार्थाय यत्रेष्टं तत्र गम्यताम् ॥
उस्रा वेदेति मंत्रेण समुच्चार्य ततः परम् ॥
ब्राह्मणेभ्यः प्रदातव्या संविभज्य नराधिप ॥३०॥
एवं ते सर्वमाख्यातं पृथिवीदानमुत्तमम् ॥
शृणुयात्पार्थिवो भावी दाता जन्मनिजन्मनि ॥३१॥
यो राजा पृथिवीं दद्याद्विधिनानेन पार्थिव ॥
राज्यभ्रंशो न वंशेऽपि तस्य संजायते क्वचित् ॥३२॥
राज्यभ्रंशसमोपेता ये दृश्यंते महीभुजः ॥
न तैर्वसुन्धरा दत्ता ब्राह्मणानां धृतात्मनाम् ॥३३॥
तस्मात्सर्वप्रयत्नेन पृथ्वीदानं समाचरेत् ॥
न हरेत्परदत्तां च कथंचिदपि मेदिनीम् ॥३४॥
एतत्पुण्यं प्रशस्यं च पृथिवीदानमुत्तमम् ॥
शृण्वतामपि राजेंद्र तद्देहाद्यघनाशनम् ॥३५॥
आस्तां तावत्प्रदानं च पृथिव्याः पृथिवीपतेः ॥
दातुः संप्रेरणं यस्या अज्ञानौघविनाशनम् ॥३६॥
रूपवान्सुभगश्चैव तथा च प्रियदर्शनः ॥
आधिव्याधिविनिर्मुक्तः पुत्रपौत्रसमन्वितः ॥३७॥
मेधावी जायते मर्त्यो दानस्यास्य प्रभावतः ॥
इत्थंभूता महाराज कृत्वा राज्यमकण्टकम् ॥३८॥
प्रीता विष्णोः पदं यांति शाश्वतं यन्निरामयम् ॥
अन्यत्रापि धरादानात्प्रकुर्याच्चक्रवर्तिताम् ॥३९॥
एकजन्मांतरं यावत्सम्यग्दत्तं नृपोत्तमः ॥
गौतमेश्वरदेवस्य यत्पुरा पुरतः कृतम् ॥४०॥
सप्तजन्मांतरं यावत्प्रकरोति न संशयः ॥
तस्मात्सर्वप्रयत्नेन तत्र देया मही नृप ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्ये पृथ्वीदानमाहात्म्यवर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६८॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP