नागरखण्डः - अध्याय ९१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
एवमुक्त्वा स भगवान्विरराम पितामहः ॥
संतोष्य पावकं क्रुद्धं स्वयमेव द्विजोत्तमाः ॥१॥
ततः सर्वैः सुरैः सार्धं शक्रविष्णुशिवादिभिः ॥
जगाम ब्रह्मलोकं च देवास्ते च निजं पदम् ॥२॥
पावकोऽपि द्विजेंद्राणामग्निहोत्रेषु संस्थितः ॥
हविर्जग्राह विधिवद्वसोर्द्धारोद्भवं तथा ॥३॥
एवं तत्र समुद्भूतमग्नितीर्थमनुत्तमम् ॥
यत्र स्नातो नरः प्रातर्मुच्यते दिनजादघात् ॥४॥
अथ संप्रस्थितान्दृष्ट्वा तान्देवान्स्वाश्रमं प्रति ॥
गजेंद्रशुकमण्डूकास्ते प्रोचुर्दुःखसंयुताः ॥५॥
युष्मत्कृते वयं शप्ताः पावकेन सुरेश्वराः ॥
तस्माज्जिह्वाकृतेऽस्माकमुपायश्चिंत्यतामपि ॥६॥
॥ देवा ऊचुः ॥
विपरीतापि ते जिह्वा यथान्येषां गजोत्तम ॥
कार्यक्षमा न संदेहो भविष्यति विशेषतः ॥७॥
तथा यूयं नरेन्द्राणां मंदिरेषु व्यवस्थिताः ॥
बहु मानसमायुक्ता मृष्टान्नं भक्षयिष्यथ ॥८॥
यथा च शुक ते जिह्वा कृता मंदा हविर्भुजा ॥
तथापि भूमिपालानां शंसनीया भविष्यति ॥९॥
श्रीमतां च तथान्येषामस्मदीयप्रसादतः ॥
त्वं च मंडूक यत्तेन विजिह्वो वह्निना कृतः ॥
तद्भविष्यति ते शब्दो विजिह्वस्यापि दीर्घगः ॥१०॥
एवमुक्त्वाऽथ ते देवाः स्वस्थानं प्रस्थितास्ततः ॥
तेषामनुग्रहं कृत्वा कृपया परया युता ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागररखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽग्नितीर्थोत्पत्तिवर्णनंनामैकनवतितमोऽध्यायः ॥९१॥ छ ॥
N/A
References : N/A
Last Updated : December 26, 2024
TOP