संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १००

नागरखण्डः - अध्याय १००

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
एवं भुक्त्वा स विप्रर्षिर्वांछया राममंदिरे ॥
दत्ताशीर्निर्गतः पश्चादामंत्र्य रघुनंदनम् ॥१॥
अथ याते मुनौ तस्मिन्दुर्वाससि तदंतिकात् ॥
लक्ष्मणः खङ्गमादाय रामदेवमुवाच ह ॥२॥
एतत्खङ्गं गृहीत्वाशु मां प्रभो विनिपातय ॥
येन ते स्यादृतं वाक्यं प्रतिज्ञातं च यत्पुरा ॥३॥
ततो रामश्चिरात्स्मृत्वा तां प्रतिज्ञां स्वयं कृताम् ॥
वधार्थं संप्रविष्टस्य समीपे पुरुषस्य च ॥४॥
ततोऽतिचिंतयामास व्याकुलेनांतरात्मना ॥
बाष्पव्याकुलनेत्रश्च निःष्वसन्पन्नगो यथा ॥५॥
तं दीनवदनं दृष्ट्वा निःष्वसंतं मुहुर्मुहुः ॥
भूयः प्रोवाच सौमित्रिर्विनयावनतः स्थितः ॥६॥
एष एव परो धर्मो भूपतीनां विशेषतः ॥
यथात्मीयं वचस्तथ्यं क्रियते निर्विकल्पितम् ॥७॥
तस्मात्त्वया प्रभो प्रोक्तं स्वयमेव ममाग्रतः ॥
तस्यैव देवदूतस्य तारनादेन कोपतः ॥९॥
योऽत्रागच्छति सौमित्रे मम दूतस्य संनिधौ ॥
तं चेद्धन्मि स्वहस्तेन नाहं तस्मात्सुपापकृत् ॥९॥
तदहं चागतस्तात भयाद्दुर्वाससो मुनेः ॥
निषिद्धोऽपि त्वयातीव तस्माच्छीघ्रं तु घातय ॥१०॥
ततः संमंत्र्य सुचिरं मंत्रिभिः सहितो नृपः ॥
ब्राह्मणैर्धर्मशास्त्रज्ञैस्तथान्यैर्वेदपारगैः ॥११॥
प्रोवाच लक्ष्मणं पश्चाद्विनयावनतं स्थितम् ॥
वाष्पक्लिन्नमुखो रामो गद्गदं निःश्वसन्मुहुः ॥१२॥
व्रज लक्ष्मण मुक्तस्त्वं मया देशातरं द्रुतम् ॥
त्यागो वाथ वधो वाथ साधूनामुभयं समम् ॥१३॥
न मया दर्शनं भूयस्तव कार्यं कथंचन ॥
न स्थातव्यं च देशेऽपि यदि मे वांछसि प्रियम् ॥१४॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य ततः परम् ॥
निर्ययौ नगरात्तस्मात्तत्क्षणादेव लक्ष्मणः ॥१५॥
अकृत्वापि समालापं केनचिन्निजमंदिरे ॥
मात्रा वा भार्यया वाथ सुतेन सुहृदाथवा ॥१६॥
ततोऽसौ सरयूं गत्वाऽवगाह्याथ च तज्जलम् ॥
शुचिर्भूत्वा निविष्टोथ तत्तीरे विजने शुभे ॥१७॥
पद्मासनं विधायाथ न्यस्यात्मानं तथात्मनि ॥
ब्रह्मद्वारेण तं पश्चात्तेजोरूपं व्यसर्जयत् ॥१८॥
अथ तद्राघवो दृष्ट्वा महत्तेजो वियद्गतम् ॥
विस्मयेन समायुक्तोऽचिन्तयत्किमिदं ततः ॥१९॥
अथ मर्त्ये परित्यक्ते तेजसा तेन तत्क्षणात् ॥
वैष्णवेन तुरीयेण भागेन द्विजसत्तमाः ॥२०॥
पपात भूतले कायं काष्ठलोष्टोपमं द्रुतम् ॥
लक्ष्मणस्य गतश्रीकं सरय्वाः पुलिने शुभे ॥२१॥
ततस्तु राघवः श्रुत्वा लक्ष्मणं गतजीवितम् ॥
पतितं सरितस्तीरे विललाप सुदुःखितः ॥२२॥
स्वयं गत्वा तमुद्देशं सामात्यः ससुहृज्जनः ॥
लक्ष्मणं पतितं दृष्ट्वा करुणं पर्यदेवयत् ॥२३॥
हा वत्स मां परित्यज्य किं त्वं संप्रस्थितो दिवम् ॥
प्राणेष्टं भ्रातरं श्रेष्ठं सदा तव मते स्थितम् ॥२४॥
तस्मिन्नपि महारण्ये गच्छमानः पुरादहम् ॥?
अपि संधार्यमाणेन अनुयातस्त्वया तदा ॥२५॥
संप्राप्तेऽपि कबंधाख्ये राक्षसे बलवत्तरे ॥
त्वया रात्रिमुखे घोरे सभार्योऽहं प्ररक्षितः ॥२६॥
येनेन्द्रजिद्धतो युद्धे तादृग्रूपो निशाचरः ॥
स एष पतितः शेते गतासुर्धरणीतले ॥२७॥
येन शूर्पणखा ध्वस्ता राक्षसी सा च दारुणा ॥
लीलयापि ममादेशात्सोयमेवंविधः स्थितः ॥२८॥
यद्बाहुबलमाश्रित्य मया ध्वस्ता निशाचराः ॥
सोऽयं निपतितः शेते मम भ्राता ह्यनाथवत्  ॥२९॥
हा वत्स क्व गतो मां त्वं विमुच्य भ्रातरं निजम् ॥
ज्येष्ठं प्राणसमं किं ते स्नेहोऽद्य विगतः क्वचित् ॥३०॥
 ॥ सूत उवाच ॥
एवं बहुविधान्कृत्वा प्रलापान्रघुनन्दनः ॥
मातृभिः सहितो दीनः शोकेन महतान्वितः ॥३१॥
ततस्ते मंत्रिणस्तस्य प्रोचुस्तं वीक्ष्य दुःखितम् ॥
विलपंतं रघुश्रेष्ठं स्त्रीजनेन समन्वितम् ॥३२॥
 ॥ मंत्रिण ऊचुः ॥
मा शोकं कुरु राजेन्द्र यथान्यः प्राकृतः स्थितः ॥
कुरुष्व च यथेदं स्यात्सांप्रतं चौर्ध्वदैहिकम् ॥३३॥
नष्टं मृतमतीतं च ये शोचन्ति कुबुद्धयः ॥
धीराणां तु पुरा राजन्नष्टं नष्टं मृतं मृतम् ॥३४॥
एवं ते मन्त्रिणः प्रोच्य ततस्तस्य कलेवरम् ॥
लक्ष्मणस्य विलप्यौच्चैश्चन्दनोशीरकुंकुमैः ॥३५॥
कर्पूरागुरुमिश्रैश्च तथान्यैः सुसुगन्धिभिः ॥
परिवेष्ट्य शुभैर्वस्त्रैः पुष्पैः संभूष्य शोभनैः ॥३६॥
चन्दनागुरुकाष्ठैश्च चितिं कृत्वा सुविस्तराम् ॥
न्यदधुस्तस्य तद्गात्रं तत्र दक्षिणदिङ्मुखम् ॥३७॥
एतस्मिन्नंतरे जातं तत्राश्चर्यं द्विजोत्तमाः ॥
तन्मे निगदतः सर्वं शृण्वंतु सकलं द्विजाः ॥३८॥
यावत्तेंऽतः समारोप्य चितां तस्य कलेवरम् ॥
प्रयच्छंति हविर्वाहं तावन्नष्टं कलेवरम् ॥३९॥
एतस्मिन्नंतरे वाणी निर्गता गगनांगणात् ॥
नादयंती दिशः सर्वाः पुष्पवर्षादनंतरम् ॥४०॥
रामराम महाबाहो मा त्वं शोकपरो भव ॥
न चास्य युज्यते वह्निर्दातुं चैव कथंचन ॥४१॥
ब्रह्मज्ञानप्रयुक्तस्य संन्यस्तस्य विशेषतः ॥
अग्निदानं न युक्तं स्यात्सर्वेषामपि योगिनाम् ॥४२॥
तवायं बांधवो राम ब्रह्मणः सदनं गतः ॥
ब्रह्मद्वारेण चात्मानं निष्क्रम्य सुमहायशाः ॥४३॥
अथ ते मंत्रिणः प्रोचुस्तच्छ्रुत्वाऽऽकाशगं वचः ॥
अशोच्यो यं महाराज संसिद्धिं परमां गतः ॥
लक्ष्मणो गम्यतां शीघ्रं तस्मात्स्वभवने विभो ॥४४॥
चिन्त्यन्तां राजकार्याणि तथा यच्चौर्ध्वदैहिकम् ॥
कुरु स्नेहोचितं तस्य पृष्ट्वा ब्राह्मणसत्तमान् ॥४५॥
 ॥ राम उवाच ॥
नाहं गृहं गमिष्यामि लक्ष्मणेन विनाऽधुना ॥
प्राणानत्र विहास्यामि यथा तेन महात्मना ॥४६॥
एष पुत्रो मया दत्तः कुशाख्यो मम संमतः ॥
युष्मभ्यं क्रियतां राज्ये मदीये यदि रोचते ॥४७॥
एवमुक्त्वा ततो रामो गन्तुकामो दिवालयम् ॥
चिन्तयामास भूयोऽपि स्मृत्वा मित्रं विभीषणम् ॥४८॥
मया तस्य तदा दत्तं लंकायां राज्यमक्षयम् ॥
बहुभक्तिप्रतुष्टेन यावच्चन्द्रार्कतारकाः ॥४९॥
अतिक्रूरतरा जाती राक्षसानां यतः स्मृता ॥
विशेषाद्वरपुष्टानां जायतेऽत्र धरातले ॥५०॥
तच्चेद्राक्षसभावेन स महात्मा विभीषणः ॥
करिष्यति सुरैः सार्धं विरोधं रावणो यथा ॥५१॥
तं देवाः सूदयिष्यंति उपायैः सामपूर्वकैः ॥
त्रैलोक्यकण्टको यद्वत्तस्य भ्राता दशाननः ॥५२॥
ततो मे स्यान्मृषा वाणी तस्माद्गत्वा तदंतिकम् ॥
शिक्षां ददामि तस्याहं यथा देवान्न दूषयेत् ॥५३॥
तथा मे परमं मित्रं द्वितीयं वानरः स्थितः ॥
सुग्रीवाख्यो महाभागो जांबवांश्च तथाऽपरः ॥५४॥
सभृत्यो वायुपुत्रश्च वालिपुत्रसमन्वितः ॥
कुमुदाख्यश्च तारश्च तथान्येऽपि च वानराः ॥५५॥
तस्मात्तानपि संभाष्य सर्वान्संमंत्र्य सादरम् ॥
ततो गच्छामि देवानां कृतकृत्यो गृहं प्रति ॥५६॥
एवं संचिन्त्य सुचिरं समाहूय च पुष्पकम् ॥
तत्रारुह्य ययौ तूर्णं किष्किन्धाख्यां पुरीं प्रति ॥५७॥
अथ ते वानरा दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् ॥
विज्ञाय राघवं प्राप्तं सत्वरं सम्मुखा ययुः ॥५८॥
ततः प्रणम्य ते दूराज्जानुभ्यामवनिं गताः ॥
जयेति शब्दमादाय मुहुर्मुहुरितस्ततः ॥५९॥
ततस्तेनैव संयुक्ताः किष्किन्धां तां महापुरीम् ॥
विविशुः सत्पताकाभिः समंतात्समलंकृताम् ॥६०॥
अथोत्तीर्य विमानाग्र्यात्सुग्रीवभवने शुभे ॥
प्रविवेश द्रुतं रामः सर्वतः सुविभूषिते ॥६१॥
तत्र रामं निविष्टं ते विश्रांतं वीक्ष्य वानराः ॥
अर्घ्यादिभिश्च संपूज्य पप्रच्छुस्तदनन्तरम् ॥६२॥
 ॥ वानरा ऊचुः ॥
तेजसा त्वं विनिर्मुक्तो दृश्यसे रघुनन्दन ॥
कृशोऽस्यतीव चोद्विग्नः कच्चित्क्षेमं गृहे तव ॥६३॥
काये वाऽनुगतो नित्यं तथा ते लक्ष्मणोऽनुजः ॥
न दृश्यते समीपस्थः किमद्य तव राघव ॥६४॥
तथा प्राणसमाऽभीष्टा सीता तव प्रभो ॥
दृश्यते किं न पार्श्वस्था एतन्नः कौतुकं परम् ॥६५॥
 ॥ सूत उवाच ॥
तेषां तद्वचनं श्रुत्वा चिरं निःश्वस्य राघवः ॥
वाष्पपूर्णेक्षणो भूत्वा सर्वं तेषां न्यवेदयत् ॥६६॥
अथ सीता परित्यक्ता तथा भ्राता स लक्ष्मणः ॥
यदर्थं तत्र संप्राप्तः स्वयमेव द्विजोत्तमाः ॥६७॥
तच्छ्रुत्वा वानराः सर्वे सुग्रीवप्रमुखास्ततः ॥
रुरुदुस्ते सुदुःखार्ताः समालिंग्य ततः परम् ॥६८॥
एवं चिरं प्रलप्योच्चैस्ततः प्रोचू रघूत्तमम् ॥
आदेशो दीयतां राजन्योऽस्माभिरिह सिध्यति ॥६९॥
धन्या वयं धरापृष्ठे येषां त्वं रघुसत्तम ॥
ईदृक्स्नेहसमायुक्तः समागच्छसि मंदिरे ॥७०॥
 ॥ राम उवाच ॥
उषित्वा रजनीमेकां सुग्रीव तव मंदिरे ॥
प्रातर्लंकां गमिष्यामि यत्रास्ते स विभीषणः ॥७१॥
प्रधानामात्ययुक्तेन त्वयापि कपिसत्तम ॥
आगंतव्यं मया सार्धं विभीषणगृहं प्रति ॥७२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामेश्वरस्थापन प्रस्तावे लक्ष्मणनिर्वाणोत्तरं श्रीरामस्य सुग्रीवनगरींप्रति गमनवर्णनंनाम शततमोऽध्यायः ॥१००॥

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP