संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ६९

नागरखण्डः - अध्याय ६९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
ततो निःक्षत्रिये लोके क्षत्त्रिण्यो वंशकारणात् ॥
क्षेत्रजान्ब्राह्मणेभ्यश्च सुषुवुस्तनया न्वरान् ॥
ते वृद्धिं च समासाद्य क्षेत्रजाः क्षत्रियोपमाः ॥
जगृहुर्मेदिनीं वीर्यात्संनिरस्य द्विजोत्तमान् ॥२॥
ततस्ते ब्राह्मणाः सर्वे परिभूतिपदं गताः ॥
प्रोचुर्भार्गवमभ्येत्य दुःखेन महतान्विताः ॥३॥
रामराम महाबाहो या त्वया वसुधा च नः ॥
वाजिमेधे मखे दत्ता क्षत्रियैः सा हता बलात् ॥४॥
तस्मान्नो देहि तां भूयो हत्वा तान्क्षत्रियाधमान् ॥
कुरु श्रेयोऽभिवृद्धिं तां यद्यस्ति तव पौरुषम् ॥५॥
ततो रामः क्रुधाविष्टो भूयस्तैः शवरैः सह ॥
पुलिन्दैर्मेदकैश्चैव क्षत्रियांताय निर्ययौ ॥६॥
तत्रैव क्षत्रियान्हत्वा रक्तमादाय तद्बहु ॥
तां गर्तां पूरयामास चकार पितृतर्पणम् ॥७॥
प्रददौ ब्राह्मणेभ्यश्च वाजिमेधे धरां पुनः ॥
तैश्च निर्वासितस्तत्र जगामोदधिसंनिधौ ॥८॥
एवं तेन कृता पृथ्वी सर्वक्षत्त्रविवर्जिता ॥
त्रिःसप्तवारं विप्रेंद्रा द्विजेभ्यश्च निवेदिता ॥९॥
तर्पिताः पितरश्चैव रुधिरेण महात्मना ॥
प्रतिज्ञा पालिता तस्माद्विकोपश्च बभूव सः ॥१०॥
एकविंशतिमे प्राप्ते ततश्च पितृतर्पणे ॥
अशरीराऽभवद्वाणी खस्था पितृसमुद्भवा ॥११॥
रामराम महाभाग त्यजैतत्कर्म गर्हितम् ॥
वयं ते तुष्टिमापन्नाः स्ववाक्यपरिपाल नात् ॥१२॥
यत्त्वया विहितं कर्म नैतदन्यः करिष्यति ॥
न कृतं केनचित्पूर्वं पितृवैरसमुद्भवम् ॥१३॥
तस्मात्तुष्टा वयं वत्स दास्यामश्चित्त वांछितम् ॥
प्रार्थयस्व द्रुतं तस्माद्दुर्लभं त्रिदशैरपि ॥१४॥
राम उवाच ॥
पितरो यदि तुष्टा मे यच्छंति यदि वांछितम् ॥
तस्मात्तीर्थमिदं पुण्यं मन्नाम्ना लोकविश्रुतम् ॥
रक्तदोषविनिर्मुक्तं सेवितं वरतापसैः ॥१५॥
पितर ऊचुः ॥
पितृतर्पणजा गर्ता त्वया येयं विनिर्मिता ॥
रामह्रद इति ख्यातिं प्रयास्यति जगत्त्रये ॥१६॥
यत्र भक्तियुता लोकास्तर्पयिष्यंति वै पितॄन् ॥
तेऽश्वमेधफलं प्राप्य प्रयास्यंति परां गतिम् ॥१७॥
कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नरः ॥
करिष्यति च यः श्राद्धं भक्त्या शस्त्रहतस्य च ॥१८॥
अपि प्रेतत्वमापन्नं नरके वा समाश्रितम् ॥
उद्धरिष्यति स प्रेतमपि पापसमन्वितम् ॥१९॥
सूत उवाच ॥
एवमुक्त्वा तु रामं ते विरेमुस्तदनंतरम् ॥
रामोऽपि च तपस्तेपे तत्रैव क्रोधवर्जितः ॥२०॥
तस्मात्सर्वप्रयत्नेन तत्र शस्त्रहतस्य च ॥
तस्मिन्दिने प्रकर्तव्यं श्राद्धं श्रद्धासमन्वितैः ॥२१॥
उपसर्ग मृतानां च सर्पाग्निविषबन्धनैः ॥
तत्र मुक्तिप्रदं श्राद्धं दिने तस्मिन्नुदाहृतम् ॥२२॥
यः पितॄंस्तर्पयेत्तत्र प्रेतपक्षे जलैरपि ॥
स तेषामनृणो भूत्वा पितृलोके महीयते ॥२३॥
एतद्वः सर्वमाख्यातं रामह्रदसमुद्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥२४॥
श्राद्धकाले नरो भक्त्या यश्चैतत्पठति स्वयम् ॥
स गयाश्राद्धजं कृत्स्नं फलमाप्नोत्यसंशयम् ॥२५॥
पर्वकाले ऽथवा प्राप्ते पठेद्ब्राह्मणसंनिधौ ॥
पितृमेधस्य यज्ञस्य स फलं लभते ऽखिलम् ॥२६॥
शृणुयाद्वापि यो भक्त्या कीर्त्यमानमिदं नरः ॥
सौत्रामणौ कृते कृत्स्नं फलमाप्नोत्यसंशयम् ॥२७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामह्रदोत्पत्तिवृत्तान्तवर्णनंनामैकोनसप्ततितमोऽ ध्यायः ॥६९॥

N/A

References : N/A
Last Updated : December 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP