नागरखण्डः - अध्याय ११४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
सोऽपि विप्रो द्विजश्रेष्ठा विस्फोटकपरिप्लुतः ॥
लज्जया परया युक्तो गत्वा किंचिद्वनांतरम् ॥१॥
ततो वैराग्यमापन्नो रौद्रे तपसि संस्थितः ॥
त्यक्त्वा गृहादिकं सर्वं स्नेहं दारसुतोद्भवम् ॥२॥
नियमैः संयमैश्चैव शोषयन्नात्मनस्तनुम् ॥
किंचिज्जलाश्रयं गत्वा स्थापयित्वा महेश्वरम् ॥३॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
प्रोवाच दर्शनं गत्वा प्रार्थयस्व यथेप्सितम् ॥४॥
॥ त्रिजात उवाच ॥
मातृदोषादहं देव वैलक्ष्यं परमं गतः ॥
मध्ये ब्राह्मणमुख्यानामानर्त्ताधिपतेस्तथा ॥५॥
अहं शक्नोमि नो वक्तुं कस्यचिद्दर्शितुं विभो ॥
त्रिजातोऽस्मीति विज्ञाय भूरिविद्यान्वितोऽपि च ॥६॥
तस्मात्सर्वोत्तमस्तेषामहं चैव द्विजन्मनाम् ॥
यथा भवामि देवेश तथा नीतिर्विधीयताम् ॥७॥
॥ श्रीभगवानुवाच ॥
चमत्कारपुरे विप्रा ये वसंति द्विजोत्तम ॥
तेषां सर्वोत्तमो नूनं मत्प्रसादाद्भविष्यसि ॥८॥
तस्मात्कालं प्रतीक्षस्व कञ्चित्त्वं ब्राह्मणोत्तम ॥
समये समनुप्राप्ते त्वां च नेष्यामि तत्र वै ॥९॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
ब्राह्मणोऽपि तपस्तेपे तथा संपूजयन्हरम् ॥१०॥
कस्यचित्त्वथ कालस्य मत्कारपुरे द्विजाः ॥
मौद्गल्यान्वयसंभूतो देवरातोऽभवद्द्विजः ॥११॥.
तस्य पुत्रः क्रथोनाम यौवनोद्धतविग्रहः ॥
सदा गर्वसमायुक्तः पौरुषे च व्यवस्थितः ॥१२॥
स कदाचिद्ययौ विप्रो नागतीर्थं प्रति द्विजाः ॥
श्रावणस्यासिते पक्षे पंचम्यां पर्यटन्वने ॥१३॥
अथापश्यत्स नागेन्द्रतनयं भूरिवर्च्चसम् ॥
रुद्रमालमिति ख्यातं जनन्या सह संगतम् ॥१४॥
अथाऽसौ तं समालोक्य सुलघुं सर्प पुत्रकम् ॥
जलसर्पमिति ज्ञात्वा लगुडेन व्यपोथयत् ॥१५॥
हन्यमानेन तेनाथ प्रमुक्तः सुमहान्स्वनः ॥
हा मातस्तात तातेति विपन्नोऽस्मि निरागसः ॥१६॥
सोऽपि श्रुत्वाऽथ तं शब्दं ब्राह्मणो मानुषोद्भवम् ॥
सर्पस्य भयसंत्रस्तः सत्वरं स्वगृहं ययौ ॥१७॥
अथ सा जननी तस्य निष्क्रांता सलिलाश्रयात् ॥
यावत्पश्यति तीरस्थं तावत्पुत्रं निपातितम् ॥१८॥
ततो मूर्च्छामनुप्राप्ता दृष्ट्वा पुत्रं तथाविधम् ॥
यष्टिप्रहारनिर्भिन्नं सर्वांगरुधिरोक्षितम् ॥१९॥
अथ लब्ध्वा पुनः संज्ञां प्रलापानकरोद्बहून् ॥
करुणं शोकसंतप्ता वाष्पपर्याकुलेक्षणा ॥२०॥
हाहा पुत्र परित्यक्त्वा मां च क्वासि विनिर्गतः ॥
अनावृत्तिकरं स्थानं किं स्नेहो नास्ति ते मयि ॥२१॥
केन त्वं निहतः पुत्र पापेन च दुरात्मना ॥
निष्पापोऽपि च पुत्र त्वं कस्य क्रुद्धोऽद्यवै यमः ॥२२॥
सपुरस्य सराष्ट्रस्य सकुटुंबस्य दुर्मतेः ॥
येन त्वं निहतोऽद्यापि पंचम्यां पूजितो न च ॥२३॥
रजसा क्रीडयित्वाऽद्य समागत्य चिरादथ ॥
कामेनोत्संगमागत्य ग्लानिं नैष्यति चांबरम् ॥२४॥
गद्गदानि मनोज्ञानि जनहास्यकराणि च ॥
त्वया विनाऽद्य वाक्यानि को वदिष्यति मे पुरः ॥२५॥
पितुरुत्संगमाश्रित्य कूर्चाकर्षणपूर्वकम् ॥
कः करिष्यति पुत्राऽद्य सतोषं भवता विना ॥२६॥
निषिद्धोऽसि मया वत्स त्वमायातोऽनुपृष्ठतः ॥
मर्त्यलोकमिमं तात बहुदोषसमाकुलम् ॥२७॥
एवं विलप्य नागी सा संक्रुद्धा शोककर्षिता ॥
तं मृतं सुतमादाय जगामानंतसंनिधौ ॥२८॥
ततस्तदग्रतः क्षिप्त्वा तं मृतं निजबालकम् ॥
प्रलापानकरोद्दीना वियुक्ता कुररी यथा ॥२९॥
नागराजोऽपि तं दृष्ट्वा स्वपुत्रं विनिपातितम् ॥
जगाम सोऽपि मूर्च्छां च पुत्रशोकेन पीडितः ॥३०॥
ततः सिक्तो जलैः शीतैः संज्ञां लब्ध्वा स कृच्छ्रतः ॥
प्रलापान्कृपणांश्चक्रे प्राकृतः पुरुषो यथा ॥३१॥
एतस्मिन्नंतरे नागाः सर्वे तत्र समागताः ॥
रुरुदुर्दुःखिताः संतो बाष्पपर्याकुलेक्षणाः ॥३२॥
वासुकिः पद्मजः शंखस्तक्षकश्च महाविषः ॥
शंखचूडः सचूडश्च पुंडरीकश्च दारुणः ॥३३॥
अञ्जनो वामनश्चैव कुमुदश्च तथा परः ॥
कम्बलाश्वतरौ नागौ नागः कर्कोटकस्तथा ॥३४॥
पुष्पदंतः सुदंतश्च मूषको मूषकादनः ॥
एलापत्रः सुपत्रश्च दीर्घास्यः पुष्पवाहनः ॥३५॥
एते चान्ये तथा नागास्तत्राऽऽयाताः सहस्रशः ॥
पुत्रशोकाभिसतप्तं ज्ञात्वा तं पन्नगाधिपम् ॥३६॥
ततः संबोध्य ते सर्वे तमीशं पवनाशनम् ॥
पूर्ववृत्तैः कथोद्भेदैर्दृष्टांतैर्विविधैरपि ॥३७॥
एवं संबोधितस्तैस्तु चिरात्पन्नगसत्तमः ॥
अग्निदाह्यं ततश्चक्रे तस्य पुत्रस्य दुःखितः ॥३८॥
जलदानस्य काले च सर्पान्सर्वानुवाच सः ॥
सर्वान्नागान्प्रदानार्थं तोयस्य समुपस्थितान् ॥३९॥
नाहं तोयं प्रदास्यामि स्वपुत्रस्य कथंचन ॥
भवद्भिः प्रेरितोऽप्येवं तथान्यैरपि बांधवैः ॥४०॥
यावत्तस्य न दुष्टस्य मम पुत्रांतकारिणः ॥
सदारपुत्रभृत्यस्य विहितो न परिक्षयः ॥४१॥
एवमुक्त्वा ततः शेषः शोधयामास तं द्विजम् ॥
येन संसूदितः पुत्रो दंडकाष्ठेन पाप्मना ॥४२॥
ततः प्रोवाच तान्नागान्पार्श्वस्थान्पन्नगाधिपः ॥
हाटकेश्वरजे क्षेत्रे यांतु मे सुहृदुत्तमाः ॥४३॥
पुत्रघ्नं तं निहत्याऽऽशु सकुटुम्बपरिग्रहम् ॥
चमत्कारपुरं सर्वं भक्षणीयं ततः परम् ॥४४॥
तत्रैव वसतिः कार्या समस्तैः पन्नगोत्तमैः ॥
यथा भूयो वसेन्नैव तथा कार्यं च तत्पुरम् ॥४५॥
एवमुक्तास्ततस्तेन नागाः प्राधान्यतः श्रुताः ॥
गत्वाथ सत्वरं तत्र प्रथमं तं द्विजोत्तमम् ॥४६॥
देवरातसुतं सुप्तं भक्षयित्वा ततः परम् ॥
तत्कुटुंबं समग्रं च क्रोधेन महतान्विताः ॥४७॥
ततोऽन्यानपि संक्रुद्धा बालान्वृद्धान्कुमारकान् ॥
भक्षयामासुः सर्वे ते तिर्यग्योनिगता अपि ॥४८॥
एतस्मिन्नंतरे जातः पुरे तत्र सुदारुणः ॥
आक्रंदो ब्राह्मणेंद्राणां सर्पभक्षणसंभवः ॥४९॥
तत्र भूमौ तथाऽन्यच्च यत्किंचिदपि दृश्यते ॥
तत्सर्वं पन्नगैर्व्याप्तं रौद्रैः कृष्णवपुर्धरैः ॥५०॥
एतस्मिन्नंतरे प्राप्ताः केचिन्मृत्युवशं गताः ॥
विषसं घूर्णिताः केचित्पतिता धरणीतले ॥५१॥
अन्ये गृहादिकं सर्वं परित्यज्य सुतादि च ॥
वित्रस्ताः परिधावंति वनमुद्दिश्य दूरतः ॥५२॥
अन्ये मंत्रविदो विप्राः प्रयतंते समंततः ॥
मंदं धावंति संत्रस्ता गृहीत्वौषधयः परे ॥५३॥
एवं तत्पुरमुद्दिश्य सर्वे ते पन्नगोत्तमाः ॥
प्रचरंति यथा कश्चिन्न तत्र ब्राह्मणो वसेत् ॥५४॥
अथ शून्यं पुरं कृत्वा सर्वे ते पन्नगोत्तमाः ॥
व्यचरन्स्वेच्छया तत्र तीर्थेष्वायतनेषु च ॥५५॥
न कश्चित्पन्नगः क्षेत्रात्त्यक्त्वा निर्याति बाह्यतः ॥
प्रविशेन्न परः कश्चित्तत्र क्षेत्रे च मानवः ॥५६॥
व्यवस्थैवं समुद्भूता सर्पाणां मानुषैः सह ॥
वधभक्षणजा न्योन्यं बाह्याभ्यंतरसंभवा ॥५७॥
एतस्मिन्नंतरे शेषो मुक्त्वा दुःखं सुतोद्भवम् ॥
प्रहृष्टः प्रददौ तोयं तस्य जातिभिरन्वितः ॥५८॥
अथ ते ब्राह्मणाः केचित्सर्पेभ्यो भयविह्वलाः ॥
सशोका दिङ्मुखान्याशु ते सर्वे संगता मिथः ॥५९॥
ततो वनं समाजग्मुस्त्रिजातो यत्र संस्थितः ॥
हरलब्धवरो हृष्टः सुमहत्तपसि स्थितः ॥६०॥
स दृष्ट्वा ताञ्जनान्सर्वांस्तथा दुःखपरिप्लुतान् ॥
पुत्रदारादिकं स्मृत्वा रुदतः करुणं बहु ॥६१॥
सोऽपि दुःखसमायुक्तो दृष्ट्वा तान्स्वपुरोद्भवान् ॥
ब्राह्मणेंद्रांस्ततः प्राह बाष्पव्याकुललोचनः ॥६२॥
शृण्वंतु ब्राह्मणाः सर्वे वचनं मम सांप्रतम् ॥
मया विनिर्गतेनैव तत्पुरात्तोषितो हरः ॥६३॥
तेन मह्यं वरो दत्तो वांछितो द्विजसत्तमाः ॥
गृहीतो न मयाद्यापि प्रार्थयिष्यामि सांप्रतम् ॥६४॥
यथा स्यात्संक्षयस्तेषां नागानां सुदुरात्मनाम् ॥
यैः कृतं नः पुरं कृत्स्नमुद्रसं पापकर्मभिः ॥६५॥
एवमुक्त्वाऽथ विप्रः स त्रिजातः परमेश्वरम् ॥
प्रार्थयामास मे देव तं वरं यच्छ सांप्रतम् ॥६६॥
ततः प्रोवाच देवेशः प्रार्थयस्व द्रुतं द्विज ॥
येनाभीष्टं प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥६७॥
॥ त्रिजात उवाच ॥
नागैरस्मत्पुरं कृत्स्नं कृतं जनविवर्जितम् ॥
तत्तस्मात्ते क्षयं यांतु सर्वे वृषभवाहन ॥६८॥
येन तत्पूर्यते विप्रैर्भूयोऽपि सुरसत्तम ॥
ममापि जायते कीर्तिः स्वस्थानोद्धरणोद्भवा ॥६९॥
॥ श्रीभगवानुवाच ॥
नायुक्तं विहितं विप्र पन्नगैस्तैर्महात्मभिः ॥
निर्दोषश्चापि पुत्रोऽत्र येषां विप्रेण सूदितः ॥७०॥
विशेषेण द्विजश्रेष्ठ संप्राप्ते पंचमीदिने ॥
तत्राऽपि श्रावणे मासि पूज्यंते यत्र पन्नगाः ॥७१॥
तस्मात्तेऽहं प्रवक्ष्यामि सिद्धमंत्रमनुत्तमम् ॥
यस्योच्चारणमात्रेण सर्प्पाणां नश्यते विषम् ॥७२॥
तं मंत्रं तत्र गत्वा त्वं तद्विप्रैरखिलैर्वृतः ॥
श्रावयस्व महाभाग तारशब्देन सर्वशः ॥७३॥
तं श्रुत्वा ये न यास्यंति पातालं पन्नगाधमाः ॥
युष्मद्वाक्याद्भविष्यंति निर्विषास्ते न संशयः ॥७४॥
॥ त्रिजात उवाच ॥
ब्रूहि तं मे महामंत्रं सर्वतीक्ष्णविनाशनम् ॥
येन गत्वा निजं स्थानं सर्पानुत्सादयाम्यहम् ॥७५॥
॥ श्रीभगवानुवाच ॥
गरं विषमिति प्रोक्तं न तत्रास्ति च सांप्रतम् ॥
मत्प्रसादात्त्वया ह्येतदुच्चार्यं ब्राह्मणोत्तम ॥७६॥
न गरं न गरं चैतच्छ्रुत्वा ये पन्नगाधमाः ॥
तत्र स्थास्यंति ते वध्या भविष्यंति यथासुखम् ॥७७॥
अद्यप्रभृति तत्स्थानं नगराख्यं धरातले ॥
भविष्यति सुविख्यातं तव कीर्तिविवर्धनम् ॥७८॥
तथान्योपि च यो विप्रो नागरः शुद्धवंशजः ॥
नगराख्येन मंत्रेण अभिमंत्र्य त्रिधा जलम् ॥७९॥
प्राणिनं काल संदष्टमपि मृत्युवशंगतम् ॥
प्रकरिष्यति जीवाढ्यं प्रक्षिप्य वदने स्वयम् ॥८०॥
अन्यत्रापि स्थितो मर्त्यो मंत्रमेतं त्रिरक्षरम् ॥
यः स्मरिष्यति संसुप्तो न हिंस्यः स्यादहेर्हि सः ॥८१॥
स्थावरं जंगमं वापि कृत्रिमं वा गरं हि तत् ॥
तदनेन च मंत्रेण संस्पृष्टं त्वमृतायितम् ॥८२॥
अजीर्णप्रभवा रोगा ये चान्ये जठरोद्भवाः ॥
मंत्रस्यास्य प्रभावेन सर्वे यांति द्रुतं क्षयम् ॥८३॥
एवमुक्त्वाऽथ तं विप्रं भगवान्वृषभध्वजः ॥
जगामादर्शनं पश्चाद्यथा दीपो वितैलकः ॥८४॥
त्रिजातोऽपि समं विप्रैर्हतशेषैस्तु तैर्द्रुतम् ॥
जगाम संप्रहृष्टात्मा चमत्कारपुरं प्रति ॥८५॥
एवं ते ब्राह्मणाः सर्वे त्रिजातेन समन्विताः ॥
न गरं न गरं प्रोच्चैरुच्चरंतः समाययुः ॥८६॥
हाटकेश्वरजं क्षेत्रं यत्तद्व्याप्तं समंततः ॥
रौद्रैराशीविषैः क्रूरैः शेषस्यादेशमाश्रितेः ॥८७॥
अथ ते पन्नगाः श्रुत्वा सिद्धमंत्र शिवोद्भवम् ॥
निर्विषास्तेजसा हीनाः समन्तात्ते प्रदुद्रवुः ॥८८॥
वल्मीकान्केचिदासाद्य चित्ररंध्रांतरोद्भवान् ॥
अन्ये चापि प्रजग्मुश्च पातालं दंदशूककाः ॥८९॥
ये केचिद्भयसंत्रस्ता वार्द्धक्येन निपीडिताः ॥
वालत्वेन तथा चान्ये शक्नुवंति न सर्पितुम् ॥९०॥
ते सर्वे ब्राह्मणेन्द्रैस्तैः कृतस्य प्रतिकारकैः ॥
निहताः पन्नगास्तत्र दंडकाष्ठैः सहस्रशः ॥९१॥
एवमुत्साद्य तान्सर्वान्ब्राह्मणास्ते गतव्यथाः ॥
तं त्रिजातं पुरस्कृत्य स्थानकृत्यानि चक्रिरे ॥९२॥
एवं तन्नगरं जातमस्मात्कालादनंतरम् ॥
देवदेवस्य भर्गस्य प्रसादेन द्विजोत्तमाः ॥९३॥
एतद्यः पठते नित्यमाख्यानं नगरोद्भवम् ॥
न तस्य सर्पजं क्वापि कथंचिज्जायते भयम् ॥९४॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नगरसंज्ञोत्पत्तिवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥११४॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP