नागरखण्डः - अध्याय १५०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
शुक्रस्तस्य वचः श्रुत्वा चित्ते कृत्वा दयां ततः ॥
हाटकेश्वरजं क्षेत्रं गत्वा सिद्धिप्रदायकम् ॥१॥
चकार विधिवद्धोमं स्वमांसेन हुताशने ॥
मंत्रैराथर्वणै रौद्रैः कुण्डं कृत्वा त्रिकोणकम् ॥२॥
एवं संजुह्वतस्तस्य तेन वै विधिना तदा ॥
यथा रुद्रेण संतुष्टा देवी केलीश्वरी तदा ॥३॥
तं प्रोवाच समेत्याशु शुक्रं दैत्यपुरोहितम् ॥
मा त्वं भार्गवशार्दूल कुरु मांसपरिक्षयम् ॥४॥
भाविताऽहं त्रिनेत्रेण तत्किं ब्रूहि करोमि ते ॥५॥
॥ शुक्र उवाच ॥
यथा रुद्रस्य साहाय्यं त्वयात्र विहितं शुभे ॥
अंधकस्याऽपि कर्तव्यं तथैवैष वरो मम ॥६॥
ये केचिद्दानवा युद्धे भक्षिताश्च विनाशिताः ॥
अस्य सैन्यस्य ते सर्वे पुनर्जीवंतु सत्वरम् ॥७॥
॥ देव्युवाच ॥
जीवयिष्यामि तान्सर्वान्दानवान्निहतान्रणे ॥
नवसंभक्षितान्विप्र प्रविष्टान्योगिनीमुखे ॥८॥
एवमुक्त्वा ददौ तस्मै सा देवी हर्षितानना ॥
नाम्नाऽमृतवतीं विद्यां यया जीवंति ते मृताः ॥९॥
ततः शुक्रः प्रहृष्टात्मा गत्वांधकमुवाच ह ॥
सिद्धा केलीश्वरी देवी यथा शम्भोस्तथा मम ॥१०॥
तया दत्ता शुभा विद्या मम दैत्या मृताश्च ये ॥
तान्सर्वांस्तत्प्रभावेन योजयिष्यामि जीविते ॥११॥
त्वयाऽस्याः सततं भक्तिः कार्या दानव सत्तम ॥
अष्टम्यां च विशेषेण चतुर्दश्यां च सर्वदा ॥१२॥
एषा सा परमा शक्तिर्यया व्याप्तमिदं जगत् ॥
केवलं भक्तिसाध्या सा न दण्डेन कथंचन ॥१३॥
एवमुक्तस्तु शुक्रेण स तदा दानवाधिपः ॥
तां देवीं पूजयामास भावभक्तिसमन्वितः ॥१४॥
स्तुत्वा च विविधैः स्तोत्रैस्ततः प्रोवाच सादरम् ॥
तथान्या मातरः सर्वा यथाज्येष्ठं यथाक्रमम् ॥१५॥
अज्ञानाद्यन्मया देवि कृतः कोपस्तवोपरि ॥
मर्षणीयस्तथा सोऽद्य दीनस्य प्रणतस्य च ॥१६॥
॥ श्रीदेव्युवाच ॥
परितुष्टाऽस्मि ते वत्स प्रभावाद्भार्गवस्य च ॥
वरं वरय तस्मात्त्वं न वृथा दर्शनं मम ॥१७॥
॥ अन्धक उवाच ॥
अनेनैव तु रूपेण ये त्वां ध्यायंति देहिनः ॥
पूजयंति च सद्भक्त्या संस्थाप्य प्रतिमां तव ॥
तेषां सिद्धिः प्रदातव्या त्वया हृदयवांछिता ॥१८॥
देव्युवाच ॥
यो मामनेन रूपेण स्थापयिष्यति मानवः ॥
तस्य मोक्षं प्रदास्यामि पापस्यापि न संशयः ॥१९॥
योऽष्टम्यां च चतुर्दश्यां मम पूजां करिष्यति ॥
तस्मै स्वर्गं प्रदास्यामि पापस्यापि दनूत्तम ॥२०॥
केवलं दर्शनं यश्च ध्यानं वा मे करिष्यति ॥
तस्य राज्यं प्रदास्यामि भोगान्मानुषसंभवान् ॥२१॥
एवमुक्त्वाऽथ सा देवी ततश्चादर्शनं गता ॥
तैश्च मातृगणैः सार्धं पश्यतस्तस्य तत्क्षणात् ॥२२॥
शक्रोऽपि दानवान्सर्वांस्तया संसिद्धया ततः ॥
मृतान्संजीवयामास दैतेयान्नवभक्षितान् ॥२३॥
तैः समेत्य स दैत्येन्द्रः प्रहृष्टेनांतरात्मना ॥
तां पुरीं प्राप्य शक्रस्य राज्यं चक्रे दिवानिशम् ॥२४॥
तां देवीं ध्यायमानस्तु पूजयानो दिवानिशम् ॥
अष्टम्यां च चतुर्दश्यां विशेषेण महाबलः ॥२५॥
अथ तस्याः प्रभावं तं ज्ञात्वा व्याससमुद्भवः ॥
स्थानेऽत्र स्थापयामास संसिद्धिं प परां गतः ॥२६॥
॥ सूत उवाच ॥
एवं केलीश्वर देवी संजाता परमेश्वरी ॥
तस्मात्स्थाप्या च पूज्या च ध्येया चैव विशेषतः ॥२७॥
एवं देव्या नरो यश्च पठते वा शृणोति वा ॥
वाच्यमानं स मुच्येत व्यसनेन गरीयसा ॥२८॥
भ्रष्टराज्योऽथवा राजा यः शृणोत्यष्टमीदिने ॥
स राज्यं लभते भूयो निखिलं हतकंटकम् ॥२९॥
युद्धकाले च संप्राप्ते यश्चैतच्छृणुयान्नरः ॥
स हत्वा शत्रुसंघातं विजयं च समाप्नुयात् ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये केलीश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरशततमोऽध्यायः ॥१५०॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP