संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ३४

नागरखण्डः - अध्याय ३४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ऋषय ऊचुः ॥
यदेतद्भवता प्रोक्तं तं मुनिं प्रति सूतज ॥
त्वया पुरा सुरार्थाय प्रपीतः पयसांनिधिः ॥१॥
तत्त्वं सूतज नो ब्रूहि विस्तरेण महामते ॥
यथा तेन पुरा पीतो मुनिना पयसांनिधिः ॥२॥
 ॥सूत उवाच ॥
कालेया इति विख्याताः पुरा दानवसत्तमाः ॥
संभूताः सर्वदेवानां वीर्योत्साहप्रणाशकाः ॥३॥
ततस्तैः पीडितं दृष्ट्वा विष्णुना प्रभविष्णुना ॥
त्रैलोक्यं शक्तियोगेन प्रोक्तो देवो महेश्वरः ॥४॥
एतदीशान दैतेयैस्त्रैलोक्यं परिपीडितम् ॥
कालिकेयैर्महावीर्येस्तस्मात्कार्यो महाहवः ॥
अद्यैव तैः समं देव समासाद्य धरातलम् ॥५॥
ततो विष्णुश्च रुद्रश्च सहस्राक्षः सुरैः सह ॥
शितशस्त्रधराः सर्वे संप्राप्ता धरणीतलम् ॥६॥
अथ ते दानवाः सर्वे श्रुत्वा देवान्स- मागतान् ॥
युद्धार्थं सहसा जग्मुः संमुखाः कोपसंयुताः ॥७॥
ततोऽभवन्महायुद्धं देवानां दानवैः सह ॥
त्रैलोक्यं कंपितं येन समस्तं भय विह्वलम् ॥८॥
अथ कालप्रभोनाम दानवो बलगर्वितः ॥
स शक्रं पुरतो दृष्ट्वा वज्रोच्छ्रितकरं स्थितम् ॥
प्रोवाच प्रहसन्वाक्यं मेघगम्भीरनिःस्वनः ॥९॥
मुंच वज्र सहस्राक्ष पश्यामि तव पौरुषम् ॥
चिरात्प्राप्तोऽसि मे दृष्टिं दिष्ट्या त्वं त्रिदिवेश्वरः ॥१०॥
ततश्चिक्षेप संक्रुद्धस्तस्य वज्रं शतक्रतुः ॥
सोऽपि तल्लीलया धृत्वा जगृहे सव्यपाणिना ॥११॥
ततः शक्रं समुद्दिश्य गदां गुर्वीं मुमोच सः ॥
सर्वायसमयीं रौद्रां यमजिह्वामिवापराम् ॥१२॥
तया हतः सहस्राक्षो विसंज्ञो रुधिरप्लुतः ॥
ध्वजयष्टिं समाश्रित्य संनिविष्टो रथोपरि ॥१३॥
अथ तं मातलिर्दृष्ट्वा विसंज्ञं वलघातिनम् ॥
प्राङ्मुखं च रथं चक्रे संस्मरन्सारथेर्नयम् ॥१४॥
ततः पराङ्मुखीभूते रथे शक्रस्य संगरे ॥
दुद्रुवुर्भयसंत्रस्ताः सर्वे देवाः समंततः ॥१५॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥
व्रीडां विहाय विध्वस्ताः पृष्ठदेशे शितैः शरैः ॥१६॥
अथ भग्नं बलं दृष्ट्वा दानवैर्मधुसूदनः ॥
आरुह्य गरुडं तूर्णं कालप्रभमुपाद्रवत् ॥१७॥
ततस्ते दानवाः सर्वे परिवार्य शितैः शरैः ॥
सम्यगाच्छादयामासुर्गर्जमाना मुहुर्मुहुः ॥८॥
स तैराच्छादितो विष्णुः शुशुभे च समंततः ॥
सम्यक्पुलकितांगश्च रक्ताचल इवापरः ॥१९॥
ततः शार्ङ्गविनिर्मुक्तैः शरैः कंकपतत्रिभिः ॥
छेदयित्वेषुजालानि दैतेयान्निजघान सः ॥२०॥
ततो दैत्यगणाः सर्वे हन्यमाना सुरारिणा ॥
त्रातारं नाभ्यगच्छंत मृगाः सिंहार्दिता इव ॥२१॥
एतस्मिन्नंतरे दैत्यः कालखंज इति स्मृतः ॥
स कोपवशमापन्नो वासुदेवमुपाद्रवत् ॥२२॥
स हत्वा पञ्चभिर्बाणैर्वासुदेवं शिला शितैः ॥
जघान गरुडं क्रुद्धो दशभिर्नतपर्वभिः ॥२३॥
ततः सुदर्शनं चक्रं तस्य दैत्यस्य माधवः ॥
प्रमुमोच वधार्थाय ज्वालामालासमावृतम् ॥२४॥
सोऽपि तच्चक्रमालोक्य वासुदेवकराच्च्युतम् ॥
आगच्छंतं प्रसार्यास्यं ग्रस्तुं तत्संमुखो ययौ ॥२५॥
अग्रसच्च महादैत्यस्तिष्ठतिष्ठेति चाब्रवीत् ॥
वासुदेवं समुद्दिश्य ततश्चिक्षेप सायकान् ॥२६॥
ततश्चक्री स दैत्येन ग्रस्तचक्रेण ताडितः ॥
सुपर्णेन समायुक्तो जगाम विषमां व्यथाम् ॥२७॥
एतस्मिन्नंतरे क्रुद्धो भगवांस्त्रिपुरांतकः ॥
दृष्ट्वा हरिं तथाभूतं शक्रं चापि पराङ्मुखम् ॥२८॥
ततः शूलप्रहारेण तं निहत्य दनोः सुतम् ॥
शरैः पिनाकनिर्मुक्तैर्जघानोच्चैस्तथा परान् ॥२९॥
कालप्रभं प्रकालं च कालास्यं कालविग्रहम् ॥
जघान भगवाञ्छंभुस्तथान्यानपि नायकान् ॥३०॥
ततः प्रधानास्ते सर्वे दानवा अपिदारुणाः ॥
पलायनपरा जाता निरुत्साहा द्विषज्जये ॥३१॥
ततः शक्रश्च विष्णुश्च लब्धसंज्ञौ धृतायुधौ ॥
श्लाघयंतौ महादेवं संस्थितौ रणमूर्धनि ॥३२॥
एतस्मिन्नंतरे भग्नान्समुद्वीक्ष्य दनोः सुतान् ॥
जघ्नुः शरशतैः शस्त्रैः सर्वे देवाः सवासवाः ॥३३॥
अथ ते हतभूयिष्ठा दानवा बलवत्तराः ॥
हन्यमानाः शितैर्बाणैस्त्रिदशैर्जितकाशिभिः ॥३४॥
अगम्यं मनसा तेषां प्रविष्टा वरुणालयम् ॥
शस्त्रैश्च क्षतसर्वांगा हतनाथाः सुदुःखिताः ॥३५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमा हात्म्येऽगस्त्याश्रममाहात्म्येऽगस्त्यकृतसमुद्रप्राशनवृत्तान्ते देवासुरसंग्रामवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP