नागरखण्डः - अध्याय ११३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
ततस्ते ब्राह्मणाः सर्वे गतकोपा दधुर्मतिम् ॥
यज्ञकर्मसु गार्हस्थ्ये पुत्रपौत्रसमुद्भवे ॥१॥
एतस्मिन्नंतरे राजा स तान्प्राप्तान्द्विजोत्तमान् ॥
श्रुत्वा भक्ति समायुक्तः प्रणामार्थमुपागतः ॥२॥
श्रुत्वा कोपगतां वार्तामुपशामकृतां तथा ॥
गार्हस्थ्याप्रतिपन्नानां वाक्यैर्भार्यासमुद्भवैः ॥३॥
ततः प्रणम्य तान्सर्वान्साष्टांगं स महीपतिः ॥
ततः कृतांजलिपुटः प्रोवाच विनतः स्थितः ॥४॥
युष्मदीयप्रसादेन संप्राप्तं जन्मनः फलम् ॥
मया रोगविनाशेन तस्माद्ब्रूत करोमि किम् ॥५॥
॥ ब्राह्मणा ऊचुः ॥
भार्यया तव राजेंद्र वयं सर्वत्र वासिनः ॥
नीताः कृतार्थतां दत्त्वा रत्नानि विविधानि च ॥६॥
तस्मात्पुरवरं कृत्वा क्षेत्रेऽत्रैव सुशोभने ॥
अस्माकं देहि गार्हस्थ्यं येन सम्यक्प्रजायते ॥७॥
यजामो विविधैर्यज्ञैः सदा संपूर्णदक्षिणैः ॥
इमं लोकं परं चैव साधयामः सदास्थिताः ॥८॥
तच्छ्रुत्वा पार्थिवो हृष्टस्तथेत्युक्त्वा ततः परम् ॥
अनुकूलदिने प्राप्ते शिल्पानाहूय भूरिशः ॥९॥
पुरं प्रकल्पयामास बहुप्राकारसंकुलम् ॥
प्राकारपरिखायुक्तं गोपुरैः समलंकृतम् ॥१०॥
अथाष्टषष्टिविप्राणां तत्र मध्ये नृपोत्तमः ॥
अष्टषष्टिगृहाण्येव चकार सुबृहंति च ॥११॥
मत्तवारणजुष्टानि दीर्घिकासहितानि च ॥
गृहोद्यानैः समेतानि यथा राजगृहाणि च ॥१२॥
तथा कृत्वाऽथ रत्नौघैः पूरयित्वा तथा परैः ॥
ददौ तेभ्यो अष्टषष्टिं च ग्रामाणां तदनंतरम् ॥१३॥
ततः सर्वान्समाहूय पुत्रपौत्रांस्तदग्रतः ॥
प्रोवाच तारनादेन श्रूयतां जल्पतो मम ॥१४॥
एतत्पुरं मया दत्तमेभिर्ग्रामैः समन्वितम् ॥
एतेभ्यो ब्राह्मणेंद्रेभ्यः श्रद्धापूतेन चेतसा ॥१५॥
तस्माद्रक्षा प्रकर्तव्या यथा न स्यात्क्षतिः क्वचित् ॥
कष्टं वा ब्राह्मणेंद्राणां तथा चैव पराभवम् ॥१६॥
अस्मद्वंशसमुद्भूतो यस्त्वेतांस्तोषयिष्यति ॥
अन्यो वा भूपतिर्वृद्धिमग्र्यां नूनं स यास्यति ॥१७॥
यश्चापराधसंयुक्तानेतान्खेदं नयिष्यति ॥
योजयिष्यति वा क्लेशैर्विविधैर्वा पराभवैः ॥
स शत्रुभिः पराभूतो वेष्टितो विविधैर्गदैः ॥१८॥
इह लोके वियोगादीन्प्राप्य क्लेशान्सुदारुणान् ॥
रौरवादिषु रौद्रेषु नरकेषु प्रयास्यति ॥१९॥
एवमुक्त्वा ततः सर्वं तेषां कृत्यं महीपतिः ॥
स्वयमेवाकरोन्नित्यं दिवारात्रमतंद्रितः ॥२०॥
अथ ता ब्राह्मणेंद्राणां भार्याः सर्वाः द्विजोत्तमाः ॥
दमयंत्याः समासाद्य प्रासादं स्नेहवत्सलाः ॥२१॥
कुंकुमागरुकर्पूरैः पुष्पैर्गंधैः पृथग्विधैः ॥
तदर्च्चा पूजयामासुः स च राजा दिनेदिने ॥२२॥
अथ ताः प्रोचुरन्योन्यं तापस्यस्तत्पुरः स्थिताः ॥
तस्यभूपस्य संतोषं जनयंत्यो द्विजोत्तमाः ॥२३॥
यदास्माकं गृहे वृद्धिः कदाचित्संभविष्यति ॥
तदग्रतश्च पश्चाच्च दमयंत्याः प्रपूजनम् ॥
करिष्यामो न संदेहः सर्वकृत्येषु सर्वदा ॥२४॥
एनां दृष्ट्वा कुमारी या वेदिमध्यं गमिष्यति ॥
सा भविष्यत्यसंदेहः पत्युः प्राणसमा सदा ॥२५॥
तस्मात्सर्वप्रयत्नेन कन्यायज्ञ उपस्थिते ॥
दमयंती प्रद्रष्टव्या पूजनीया प्रयत्नतः ॥२६॥
॥ सूत उवाच ॥
एवं तत्र पुरे तेन भूभुजा सुमहात्मना ॥
अष्टषष्टिं च संस्थाप्य गोत्राणां निर्वृतिः कृता ॥२७॥
तेषामपि च चत्वारि गोत्राण्युर गजाद्भयात् ॥
गतानि तत्र यत्र स्युस्तानि पूर्वोद्भवानि च ॥
चतुःषष्टिः स्थिता तत्र पुरे शेषा द्विजन्मनाम् ॥२८॥
॥ ऋषय ऊचुः ॥
कीदृङनागभयं तेषां येन ते विगता विभो ॥
परित्यज्य निजं स्थानमेतन्नो विस्तराद्वद ॥२९॥
॥ सूत उवाच ॥
आनर्त्ताधिपतिः पूर्वमासीन्नाम्ना प्रभंजनः ॥
धर्मज्ञः सुप्रतापी च परपक्षक्षयावहः ॥३०॥
ततस्तस्य सुतो जज्ञे प्राप्ते वयसि पश्चिमे ॥
अनिष्टस्थानसंस्थेषु ग्रहेषु द्विज सत्तमाः ॥३१॥
ततस्तेन समाहूय दैवज्ञाञ्छास्त्रपंडितान् ॥
तेषां निवेदितं सर्वं कालं तस्य समुद्भवम् ॥३२॥
दैवज्ञा ऊचुः ॥
एष ते पृथिवीपाल जातः पुत्रः सुगर्हित ॥
काले ऽनिष्टप्रदे रौद्रे गंडांत त्रितयोद्भवे. ॥३३॥
कथंचिदपि यद्येष जीवयिष्यति पार्थिव ॥
पितृमातृपुरार्थे च देशानुत्सादयिष्यति ॥३४॥
॥ राजोवाच ॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
येन संजायते क्षेमं पुत्रस्य विषयस्य च ॥३५॥
॥ ब्राह्मणा ऊचुः ॥
यथा समुत्थितं यंत्रं यंत्रेण प्रतिहन्यते ॥
यथा बाणप्रहाराणां कवचं वारणं भवेत ॥
तथा ग्रहविकाराणां शांतिर्भवति वारणम् ॥३६॥
तस्मान्नित्यमनुद्विग्नः शांतिकं कुरु भूपते ॥
येन सर्वे ग्रहाः सौम्या जायंते च शुभावहाः ॥३७॥
अनिष्टस्थानसंस्थेषु ग्रहेषु विषमेषु च ॥
ततः स सत्वं गत्वा चमत्कारपुरं नृपः ॥३८॥
तत्र विप्रान्समावेश्य सर्वान्प्रोवाच सादरम् ॥
वयं युष्मत्प्रसादेन राज्यं कुर्मः सदैव हि ॥३९॥
ये ऽतीता ये भविष्यंति वंशे ऽस्माकं नृपोत्तमाः ॥
भवंतो ऽत्र गतिस्तेषां सस्यानां नीरदो यथा ॥.४०॥
यदत्र मत्सुतो जातो दुष्टस्थानस्थितैर्ग्रहैः ॥
दैवज्ञैः शांतिकं प्रोक्तं तस्यानिष्टस्य शांतिदम् ॥४१॥
तस्मात्कुरुत विप्रेंद्रा यथोक्तं शांतिकं मम ॥
न पुत्रश्च राष्ट्रं च विभवश्च विवर्धते ॥४२॥
ततस्ते ब्राह्मणाः प्रोचुः संमंत्र्याऽथ परस्परम् ॥
क्षेमाय तव भूनाथ करिष्यामोऽत्र शांतिकम् ॥४३॥
सदेव नियताः संतः शांताः षोडश ते द्विजाः ॥
उपहाराः सदा प्रेष्यास्त्वया भक्त्या महीपते ॥
मासांते चाभिषेकश्च ग्राह्यो रुद्रघटोद्भवः ॥४४॥
एवं प्रकुर्वतस्तुभ्यं पुत्रो वृद्धिं प्रयास्यति ॥
तथा राष्ट्रं च कोशश्च यच्चान्यदपि किंचन ॥४५॥
ततः प्रणम्य तान्हृष्टो गत्वा निजनिवेशनम् ॥
उत्सवं पुत्रजन्मोत्थं चक्रे तैः प्रेरितः सदा ॥४६॥
संभारान्प्रेषयामास चमत्कारपुरे ततः ॥
मासांते चाभिषेकश्च ग्राह्यो वै विधिपूर्वकम् ॥४७॥
तेऽपि ब्राह्मणशार्दूलाश्चातुश्चरणसंभवाः ॥
क्रमेण शांतिकं चक्रुर्ब्रह्मचर्यपरायणाः ॥४८॥
मासं मासं प्रति सदा शांता दांता जितेंद्रियाः ॥
ततो मासा वसानेऽन्ये चक्रुस्तच्छांतिकं द्विजाः ॥४९॥
सोऽपि राजाऽथ मासांते समागत्य सुभक्तितः ॥
अभिषेकं समादाय पूजयित्वा द्विजोत्तमान् ॥५०॥
वासोभिर्मुकुटैश्चैव गोभूदानेन केवलम् ॥
संतर्प्यान्यांस्तथा विप्रान्स्वस्थानं याति भूमिपः ॥५१॥
एवं प्रवर्तमाने च शांतिके तत्र भूपतेः ॥
जगाम सुमहान्कालः क्षेमारोग्यधनागमैः ॥५२॥
कस्यचित्त्वथ कालस्य मासादावपि भूपतेः ॥
प्रारब्धे शांतिके तस्मिन्महाव्याधिरजायत ॥५३॥
तत्पुत्रस्य विशेषेण तथैवांतःपुरस्य च ॥
राष्ट्रस्य च समग्रस्य वाहनानां तथा क्षयः ॥५४॥
स ततः प्रेषयामास शांत्यर्थं तत्र सत्पुरे ॥
सुसंभारान्विशेषेण दक्षिणाश्च विशेषतः ॥५५॥
यथायथा द्विजास्तत्र होमं कुर्वंति पावके ॥
तथा सर्वे विशेषेण रोगा वर्धंति सर्वशः ॥५६॥
म्रियन्ते वाजिनस्तस्य बृहन्तो वारणास्तथा ॥
शत्रवः सर्वकाष्ठासु विग्रहार्थमुपस्थिताः ॥५७॥
ततः स व्याकुलीभूतो रोगग्रस्तो महीपतिः ॥
चमत्कारपुरं प्राप्य सर्वान्विप्रानुवाच ह ॥५८॥
युष्माभिः स्वामिभिः संस्थैरापदोऽभिभवंति माम् ॥
तत्किमेतन्महाभागाः क्षीयन्ते मम संपदः ॥
रोगाश्चैव विवर्धंते शत्रुसंघैः समन्विताः ॥५९॥
तस्माद्विशेषतो होमः कार्यो रोगप्रशांतये ॥.
दानानि च विशिष्टानि प्रदास्यामि द्विजन्मनाम् ॥६०॥
ततस्ते ब्राह्मणाः सर्वे प्रत्यक्षं तस्य भूपतेः ॥
चक्रुः समाहिता भूत्वा शांतिकं तद्धिताय च ॥६१॥
यथायथा प्रयुञ्जीरन्होमांते सुसमा हिताः ॥
तथातथास्य भूपस्य वृद्धिं रोगः प्रगच्छति ॥६२॥
एतस्मिन्नंतरे क्रुद्धास्ते सर्वे द्विजसत्तमाः ॥
ग्रहानुद्दिश्य सूर्यादीञ्छापाय कृतनिश्चयाः ॥६३॥
॥ ब्राह्मणा ऊचुः ॥
पूजिता अपि सद्भक्त्या विधानेन तथा ग्रहाः ॥
पीडयंति पुरं राज्ञः सपुत्रपशुबांधवम् ॥६४॥
एवं ते निश्चयं कृत्वा शुचीभूय समाहिताः ॥
यावद्यच्छंति तच्छापं ग्रहेभ्यः क्रोधमूर्छिताः ॥६५॥
तावद्वह्निरुवाचेदं मूर्तो भूत्वा द्विजोत्तमान् ॥
मा प्रयच्छत विप्रेंद्राः शापं कोपात्कथंचन ॥६६॥
ग्रहेभ्यो दोषमुक्तेभ्यः श्रूयतां वचनं मम ॥
मासिमासि प्रकुर्वंति होमं ते षोडश द्विजाः ॥६७॥
तेषां मध्यस्थितश्चैकस्त्रिजातो ब्राह्मणाधमः ॥
तेन तद्दूषितं द्रव्यं समग्रं होमसंभवम् ॥६८॥
मया दत्तं न गृह्णंति ते ग्रहा भास्करादयः ॥
तेन कुर्वंति भूपस्य पीडामप्यधिकामिमाम् ॥६९॥
तस्मादेनं परित्यज्य होमं कुरुत मा चिरम् ॥
येन प्रीतिं परां यांति ग्रहाः सर्वेऽर्कपूर्वकाः ॥७०॥
आरोग्यश्च भवेद्राजा गतशत्रुः सुतान्वितः ॥
सततं सुखमभ्येति मच्छांतिकप्रभावतः ॥७१॥
एवमुक्त्वा स भगवान्वह्निश्चादर्शनं गतः ॥
तेऽपि विप्रा विषण्णास्या लज्जया परया वृताः ॥७२॥
ततस्तं पावकं भूयः स्तुवंतस्तत्र च स्थिताः ॥
प्रोचुर्वैश्वानरं ब्रूहि त्रिजातो योऽत्र च द्विजः ॥७३॥
येन तं संपरित्यज्य कुर्मः कर्म प्रशांतये ॥
निःशेषमेव दोषाणां भूपस्यास्य महात्मनः ॥७४॥
॥ वह्निरुवाच ॥
नाहं दोषं द्विजेद्राणां जानन्नपि कथंचन ॥
ब्रवीमि ब्राह्मणा वन्द्या मम सर्वे धरातले ॥७५॥
॥ ब्राह्मणा ऊचुः ॥
यदि तं ब्राह्मणं वह्ने नास्माकं कीर्तयिष्यसि ॥
तत्ते शापं प्रदास्यामस्तस्माच्छीघ्रं वदस्व नः ॥७६॥
॥ सूत उवाच ॥
तेषां तद्वचनं श्रुत्वा वह्निर्भयसमन्वितः ॥
चिरं विचिंतयामास कुर्वेऽतः किं शुभावहम् ॥७७॥
ब्राह्मणं दूषयिष्यामि यदि तावच्च पातकम् ॥
भविष्यति न संदेहः शापश्चापि तदुद्भवः ॥७८॥
कीर्तयिष्यामि वा नैव विद्यमानं द्विजोत्तमम् ॥
शपिष्यति न संदेहः क्रुद्धा आशीविषोपमाः ॥७९॥
एवं चिंतयतस्तस्य गात्रे स्वेदोऽभवन्महान् ॥
येन तत्पूरितं कुण्डं होमार्थं यत्प्रकल्पितम् ॥८०॥
ततः प्रोवाच तान्विप्रान्कृतांजलिपुटः स्थितः ॥
वेपमानो भयत्रस्तःकुण्डान्निष्क्रम्य पावकः ॥८१॥
नाहं स्वजिह्वया दोषं ब्राह्मणस्य समुद्भवम् ॥
कथञ्चित्कीर्तयिष्यामि तस्माच्छृण्वन्तु भो द्विजाः ॥९२॥
अत्र स्वेद जले विप्रा ये स्थिताः षोडश द्विजाः ॥
ते स्नानमद्य कुर्वंतु प्रविशुद्ध्यर्थमात्मनः ॥८३॥
एतेषां मध्यगो यश्च त्रिजातः स भविष्यति ॥
तस्य विस्फोटकैर्युक्तं स्नातस्यांगं भविष्यति ॥८४॥
ततस्ते ब्राह्मणाः सर्वे क्रमात्तत्र निमज्जनम् ॥
चक्रुः शुद्धिं गताश्चापि मुक्त्वैकं ब्राह्मणं तदा ॥८५॥
हाहाकारस्ततो जज्ञे महांस्तत्र जनोद्भवः ॥
दृष्ट्वा विस्फोटकैर्युक्तमकस्मात्तं द्विजोत्तमम् ॥८६॥
सोऽपि लज्जान्वितो विप्रः कृत्वाऽधो वदनं ततः ॥
निष्क्रांतोऽथ सभामध्यात्स्थानाद्विप्रसमुद्भवात् ॥८७॥
॥ वह्निरुवाच ॥
एतद्वः साधितं कृत्यं मया पूर्वं द्विजोत्तमाः ॥
तस्माद्यास्ये निजं स्थानं भवद्भिः पारमापितः ॥८८॥
न वृथा दर्शनं मे स्यादपि स्वप्रे द्विजोत्तमाः ॥
तस्मात्सम्प्रार्थ्यतां किंचिदभीष्टं हृदि संस्थितम् ॥८९॥
॥ ब्राह्मणा ऊचुः ॥
एतत्तव जलं वह्ने स्वेदजं सर्वदैव तु ॥
स्थिरं भवतु चात्रैव विशुद्ध्यर्थं द्विजन्मनाम् ॥९०॥
अन्यजातो नरो योऽत्र प्रकरोति निमज्जनम् ॥
तस्य चिह्नं त्वया कार्यं विस्फोटकसमुद्भवम् ॥९१॥
बाढमित्येव स प्रोच्या गतोंऽतर्धानमेव हि ॥
पावकस्ते द्विजाः सर्वे मंत्रं चक्रुः परस्परम् ॥९२॥
अद्यप्रभृति सर्वेषां ब्राह्मणानां समुद्भवम् ॥
शुद्धिरत्र प्रकर्तव्या पितृमातृसमुद्द्भवा ॥९३॥'
चमत्कारपुरोत्थो यः कश्चिद्विप्रः प्रकीर्तितः ॥
सोऽत्र स्नातो विशुद्धश्च विज्ञेयः कुलपुत्रकः ॥९४॥
तस्मै कन्या प्रदातव्या स श्राद्धार्हो भविष्यति ॥
धर्मकृत्येषु सर्वेषु योजनीयः स एव हि ॥९५॥
अष्टषष्टिषु गोत्रेषु मिलितेषु यथाक्रमम् ॥
तत्प्रत्यक्षं विशुद्धो यः स शुद्धः पंक्तिपावनः ॥९६॥
अपवादाश्च ये केचिद्ब्रह्महत्यादिकाः स्थिताः ॥
अन्येऽपि दुर्जनैः प्रोक्ता धर्मसन्देहकारकाः ॥९७॥
ते सर्वेऽत्र विशुद्धाः स्युर्विज्ञेयाः कुलपुत्रकाः ॥
अपवादास्तथा चान्ये नाशं यास्यंति चाखिलाः ॥९८॥
यावन्नात्र कृतं स्नानं प्रत्यक्षं च द्विजन्मनाम् ॥
सर्वेषां तावदेवाऽत्र न स विप्रो भवेत्स्फुटम् ॥९९॥
॥ सूत उवाच ॥
एवं ते समयं कृत्वा चमत्कारपुरोद्भवाः ॥
ब्राह्मणाः शांतिकं चक्रुर्हितार्थं तस्य भूपतेः ॥१००॥
तस्मिन्कुण्डे ततः स्नानं कृतं सर्वैर्महात्मभिः ॥
भयत्रस्तैर्विशुद्ध्यर्थं शेषैरपि महात्मभिः ॥१०१॥
ततो नीरोगतां प्राप्तः स भूपस्तत्क्षणाद्विजाः ॥
यस्तत्र कुरुते स्नानमद्यापि द्विजसत्तमाः ॥१०२॥
कार्तिक्यां परदारोत्थैः स विमुच्येत पातकैः ॥
एषां युगत्रये शुद्धिरासीत्तत्र द्विजन्मनाम् ॥१०३॥
कुलशीलविहीनानामन्येषामपि पाप्मनाम् ॥
मत्वा कलियुगं घोरं परदारसुरंजितम् ॥
तत्र शुद्धिस्ततः सर्वैः कृता विप्रैश्च वाचिका ॥१०४॥
पुरतो देवदेवस्य ब्रह्मणो द्विजसत्तमाः ॥
पितृमातृजवंशस्य विशुद्ध्यर्थमतंद्रितैः ॥१०५॥
अद्यापि कुरुते तत्र यः स्नानं द्विजसत्तमाः ॥
त्रिजातो दह्यते तत्र वह्निना स न संशयः ॥१०६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेवरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने त्रिजातकविशुद्धयेऽग्निकुंडमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥११३॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP