संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ५७

नागरखण्डः - अध्याय ५७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तस्मिन्क्षेत्रे तथादित्यः स्थापितो द्विजसत्तमाः ॥
भीष्मेण ब्राह्मणेंद्राणां संमतेन तथात्मना ॥१॥
शंतनोर्दयितः पुत्रो गांगेय इति विश्रुतः ॥
आसीत्पुरा वरो नृणामूर्ध्वरेताः सुविश्रुतः ॥२॥
तस्यासीत्तुमुलं युद्धं भार्गवेण समं महत् ॥
त्रयोविंशद्दिनान्येव देवासुररणोपमम् ॥
अंबाकृते शितैः शस्त्रैरस्त्रैश्च तदनंतरम् ॥३॥
ततो ब्रह्मादयो देवाः स्वयमेव व्यवस्थिताः ॥
ताभ्यां निवारणार्थाय शांत्यर्थं सर्वदेहिनान् ॥
गताश्च ते समुत्थाप्य पुनरेव त्रिविष्टपम् ॥४॥
अंबापि प्राप्य परमं गांगेयोत्थं पराभवम् ॥
प्रविष्टा कोपरक्ताक्षी सुसमिद्धे हुताशने ॥५॥
भर्त्सयित्वा नदीपुत्रं बाष्पव्याकुललोचना ॥
ततःप्रोवाच मध्यस्था वह्नेः कुरुपितामहम् ॥६॥
यस्माद्भीष्म त्वया त्यक्ता कामार्ताहं सुदुर्मते ॥
तस्मात्तव वधायाशु भविष्यामि पुनः क्षितौ ॥७॥
स्त्रीहत्यया समायुक्तस्त्वं च नूनं भविष्यसि ॥
प्रमाणं यदि धर्मोऽत्र स्मृतिशास्त्रसमुद्भवः ॥८॥
ततः स घृणयाऽऽविष्टो भीष्मः कुरुपितामहः ॥
मार्कंडेयं मुनिश्रेष्ठं पप्रच्छ विनयान्वितः ॥९॥
भगवन्काशिराजस्य सुतया मे प्रजल्पितम् ॥
मम मृत्युकरं पापं सकलं ते भविष्यति ॥१०॥
तत्किं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम ॥
अत्र मे संशयस्तत्त्वं यथावद्वक्तुमर्हसि ॥११॥
 ॥ श्रीमार्कंडेय उवाच ॥
आक्षिप्तस्ताडितो वापि यमुद्दिश्य त्यजेदसून् ॥
स्त्रीजनो वा द्विजो वापि तस्य पापं तु तद्भवेत् ॥१२॥
स्त्रियं वा ब्राह्मणं वापि तस्मान्नैव प्रकोपयेत् ॥
निघ्नंतं वा शपंतं वा यदीच्छेच्छुभमात्मनः ॥१३॥
त्वया पुनर्वराकी सा कामार्ता समुपेक्षिता ॥
जित्वा स्वयंवरे पूर्वं तत्कथं स्यान्न पापभाक् ॥१४॥
 ॥ भीष्म उवाच ॥
तदर्थं वद मे ब्रह्मन्प्रायश्चित्तं विशुद्धये ॥
तपो वा यदि वा दानं व्रतं नियममेव वा ॥१५॥
 ॥ मार्कंडेय उवाच ॥
दशानां ब्राह्मणेंद्राणां यद्वधे पातकं स्मृतम् ॥
तत्पापं स्त्रीवधे कृत्स्नं जायते भरतर्षभ ॥१६॥
तदत्र विषये दानं न तपो न व्रतादिकम् ॥
तीर्थसेवां परित्यज्य तस्मात्त्वं तां समाचर ॥१७॥
 ॥ सूत उवाच ॥
स तस्य वचनं श्रुत्वा भीष्मः कुरुपितामहः ॥
तीर्थयात्रापरो भूत्वा बभ्राम क्षितिमंडले ॥१८॥
ततः क्रमात्समायातो भ्रममाणो महीतले ॥
चमत्कारपुरे क्षेत्रे नानातीर्थसमाकुले ॥१९॥
अथापश्यन्महात्मा स सुपुण्यं तद्गयाशिरः ॥
स्नात्वा श्राद्धं च विधिवद्यावच्छ्रद्धासम न्वितः ॥२०॥
चक्रे तावन्नभोवाणी वाक्यमेतदुवाच ह ॥
भीष्मभीष्म महाबाहो नार्हस्त्वं श्राद्धजं विधिम् ॥२१॥
कर्तुं स्त्रीहत्ययायुक्तस्तस्माच्छृणु वचो मम ॥
शर्मिष्ठातीर्थमित्येव ख्यातं पातकनाशनम् ॥२२॥
अस्मात्स्थानात्समीपस्थं वारुण्यां दिशि पुण्यकृत् ॥
कृष्णांगारकषष्ठ्यां यो नरः स्नानं समाचरेत् ॥२३॥
स स्त्रीहत्याकृतात्पापान्मुच्यते नात्र संशयः ॥
तस्मादद्य दिने पुत्र भौमवारसमन्विता ॥२४॥
सैव षष्ठी तिथिः पुण्या तस्मात्तत्र द्रुतं व्रज ॥
अहं तव पिता पुत्र शंतनुः पृथिवीपतिः ॥२५॥
स्त्रीहत्ययान्वितं ज्ञात्वा ततस्तूर्णमिहागतः ॥
ततो भीष्मो द्रुतं गत्वा तत्र स्थाने समाहितः ॥२६॥
स्नानं कृत्वा ततः श्राद्धं चक्रे श्रद्धासमन्वितः ॥
ततो भूयः समागत्य स तं प्रोवाच शतनुः ॥२७॥
विपाप्मा त्वं कुरुश्रेष्ठ संजातोऽसि न संशयः ॥
तस्मान्निजं गृहं गच्छ राज्यचिंतां समाचर ॥२८॥
ततः स विस्मयाविष्टो ज्ञात्वा तीर्थमनुत्तमम् ॥
वासुदेवात्मिकामर्चां तथान्यां कुरुसत्तमः ॥२९॥
पारिजातमयीं मूर्तिं रवेर्लक्षणलक्षिताम् ॥
सुप्रमाणां सुरूपां च श्रद्धापूतेन चेतसा ॥३०॥
तथान्यत्स्थापयामास लिंगं देवस्य शूलिनः ॥
दुर्गां च भक्तिसंयुक्तो विधिदृष्टेन कर्मणा ॥३१॥
ततः सर्वान्समाहूय स विप्रान्पुरसंभवान् ॥
प्रोवाच कौरवो भीष्मो विनयावनतः स्थितः ॥३२॥
मया विनिर्मितं विप्रा देवागारचतुष्टयम् ॥
एतत्क्षेत्रे च युष्माकं दयां कृत्वा ममोपरि ॥३३॥
पालयध्वं प्रयास्यामि स्वगृहं प्रति सत्वरम् ॥
प्रेरितः पितृभिर्दिव्यैः स्वर्गमार्गसमाश्रितैः ॥३४॥
 ॥ ब्राह्मणा ऊचुः ॥
गच्छगच्छ कुरुश्रेष्ठ सुविश्रब्धः स्वमायया ॥
वयं सर्वे करिष्यामो युष्मच्छ्रेयोऽभिवर्धनम् ॥३५॥
देवश्रेणिरियं राजन्या त्वयात्र विनिर्मिता ॥
अस्याः पूजादिकं सर्वं करिष्यामः सदा वयम् ॥३६॥
तवापि विनयं दृष्ट्वा परितुष्टा वयं नृप ॥
सर्वान्प्रार्थय तस्मात्त्वं वरं स्वं मनसि स्थितम् ॥३७॥
 ॥ भीष्म उवाच ॥
एष एव वरोऽस्माकं यत्संतुष्टा द्विजोत्तमाः ॥
तथाप्याशु वचः कार्यं युष्मदीयं मयाधुना ॥३८॥
एतानि देवसद्मानि मदीयानि नरो भुवि ॥
यो यं काममभिध्याय पूजयेच्छ्रद्धयाऽन्वितः ॥
प्रसादादेव युष्माकं तस्य तत्स्यादसंशयम् ॥३९॥
 ॥ ब्राह्मणा ऊचुः ॥
आदित्यस्य करिष्यामो यात्रां भाद्रपदे वयम् ॥
सप्तम्यां सूर्यवारेण सर्वदैव समाहिताः ॥४०॥
तथा शिवस्य चाष्टम्यां चैत्रशुक्ले विशेषतः ॥
चतुर्दश्यां महाभाग तव स्नेहान्न संशयः ॥४१॥
शयने बोधने विष्णोः संप्राप्ते द्वादशीदिने ॥
विष्णोरपि च दुर्गायाः संप्राप्ते नवमीदिने ॥४२॥
आश्विने शुक्लपक्षे च गीतवादित्रनिस्वनैः ॥
महोत्सवं तथा चित्रैर्हास्यलास्यैः पृथग्विधैः ॥४३॥
यस्तत्र मानवो नित्यं श्रद्धया परया युतः ॥
करिष्यति च गीतादि स यास्यति परां गतिम् ॥४४॥
वयं तस्य भविष्यामः सदैव प्रीतमानसाः ॥
प्रदास्यामस्तथा कामान्मनसा वांछितान्नृप ॥४५॥
एवमुक्त्वाथ ते विप्राः स्वानि स्थानानि भेजिरे ॥
भीष्मोऽपि हर्षसंयुक्तः स्वगृहं प्रस्थितस्ततः ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये गांगेययात्राख्यानंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ छ ॥

N/A

References : N/A
Last Updated : December 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP