संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ३२

नागरखण्डः - अध्याय ३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥सूत उवाच ॥
तथान्योऽस्ति द्विजश्रेष्ठास्तस्मिन्क्षेत्रे शुभावहे ॥
सप्तर्षीणां सुविख्यात आश्रमः सर्वकामदः ॥१॥
तत्र श्रावणमासस्य पंचदश्यां समाहितः ॥
यः करोति नरः स्नानं स लभेद्वांछितं फलम् ॥२॥
कन्दमूलफलैः शाकैर्यस्तत्र श्राद्धमाचरेत् ॥
स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः ॥३॥
पंचम्यां शुक्लपक्षे तु मासि भाद्रपदे द्विजाः ॥
यस्तान्पूजयते भक्त्या पुष्पधूपानुलेपनैः ॥
विधिनानेन विप्रेन्द्राः सर्वानेव यथाक्रमम् ॥४॥
ॐ अत्रये नमः ॥
ॐ वसिष्ठाय नमः ॥
ॐ कश्यपाय नमः ॥
ॐ भरद्वाजाय नमः ॥
ॐ गौतमाय नमः ॥
ॐ कौशिकाय नमः ॥
ॐ जमदग्नये नमः ॥
ॐ अरुंधत्यै नमः ॥
 ॥पूजामंत्रः ॥
जह्नुकन्यापवित्रांगा गृहीतजपमालिकाः ॥
गृह्णंत्वर्घं मया दत्तमृषयः सर्वकामदाः ॥५॥
 ॥ऋषय ऊचुः ॥
तत्र सप्तर्षिभिस्तीर्थं कस्मिन्काले व्यवस्थितम् ॥
विस्तरात्सूतज ब्रूहि परं कौतूहलं हि नः ॥६॥
 ॥सूत उवाच ॥
अनावृष्टिः पुरा जाता लोके द्वादशवार्षिकी ॥
सर्वोषधिक्षयो जातस्ततो लोकाः क्षयार्दिताः ॥७॥
अस्थिशेषा निरुत्साहास्त्यक्तधर्मव्रतक्रियाः ॥
अभक्ष्यभक्षणपरास्तथैवापेयपायिनः ॥८॥
त्यजंति मातरः पुत्रान्कलत्राणि तथा नराः ॥
भृत्यान्स्वानपि वित्तेशाः का कथान्यसमुद्भवान् ॥९॥
संत्यक्तान्यग्निहोत्राणि ब्राह्मणैर्याजकैरपि ॥
व्रतानि व्रतिभिर्दांतैरपि वृद्धतमैर्द्विजाः ॥१०॥
दृश्यते चैव यत्रैव सस्यं वापि कथंचन ॥
ह्रियते लज्जया हीनैस्तत्र क्षुत्क्षामकैर्नरैः ॥११॥
एवमन्नक्षये जाते पीडिते धरणीतले ॥
सप्तर्षयः क्षुधाविष्टा बभ्रमुस्तत्रतत्र च ॥१२॥
अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः ॥
भरद्वाजस्तथा चान्यो गौतमः संशितव्रतः ॥
कौशिको जमदग्निश्च तथैवारुंधती सती ॥१३॥
अथ तेषां समस्तानां चंडाभूत्परिचारिका ॥
पशुवक्त्रस्तथा भृत्यो विनयेन समवितः ॥१४॥
ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः ॥
क्षुत्क्षामा मुनयोऽत्यर्थं देशे चानर्तसंज्ञके ॥१५॥
तत्र भिक्षाकृते भ्रांतास्ततश्चैव गृहाद्गृहम् ॥
न ग्रासमपि सस्यस्य प्राप्नुवंस्ते द्विजोत्तमाः ॥१६॥
ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः ॥
मंत्रयित्वा मिथः पश्चाद्गृहीतो भक्षणाय च ॥१७॥
अपचन्यावदग्नौ तं क्षुधया परिपीडिताः ॥
वृषादर्भिर्नृपः प्राप्तः श्रुत्वा तेषां विचेष्टितम् ॥१८॥
 ॥वृषादर्भिरुवाच ॥
किमिदं गर्हितं कर्म क्रियते मुनिसत्तमाः ॥
राक्षसानामयं धर्मो महामांसस्य भक्षणम् ॥१९॥
सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि ॥
मम वाक्यादसंदिग्धं त्यजर्ध्वं मृतबालकम् ॥२०॥
 ॥ऋषय ऊचुः ॥
प्रायश्चित्तं समादिष्टं महामांसस्य भक्षणात् ॥
प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप ॥२१॥
पश्चात्तपश्चरिष्यामो महामांससमुद्भवम् ॥
पातकं नाशयिष्यामो भक्षयामो वयं ततः ॥२२॥
 ॥वृषादर्भि रुवाच ॥
प्रतिग्रहो द्विजातीनां प्रोक्ता वृत्तिरनिंदिता ॥
ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा ॥२३॥
 ॥ऋषय ऊचुः ॥
राज प्रतिग्रहो घोरो मध्वास्वादो विषोपमः ॥
स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप ॥२४॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥
दश ध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥२५॥
दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः ॥
कस्तस्य प्रतिगृह्णाति लोभाढ्यो ब्राह्मणो यथा ॥२६॥
रौरवादिषु सर्वेषु नरकेषु स पच्यते ॥
तस्माद्गच्छ गृहे भूप स्वस्ति तेऽस्तु सदैव हि ॥२७॥
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम् ॥
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥२८॥
परित्यज्य कुमारं तं मृतं तमपि भूमिपम् ॥
चमत्कारपुरं क्षेत्रं समुद्दिश्य ततो ययुः ॥२९॥
सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ॥
जिज्ञासार्थं ततस्तेषां चक्रे कर्म द्विजोत्तमाः ॥३०॥
ततः सुवर्णपूर्णानि विधायोदुम्बराणि च ॥
तेषां मार्गाग्रतो भूमौ समंतादथ चाक्षिपत् ॥३१॥
 ॥सूत उवाच ॥
अथ ते मुनयो दृष्ट्वा पतितानि धरातले ॥
उदुम्बराणि संदृष्ट्वा जगृहुः क्षुधयार्दिताः ॥३२॥
अथ तानि समालक्ष्य गुरूणि मुनिसत्तमाः ॥
अत्रिरेकं परिस्फोट्य सुवर्णं वीक्ष्य चाब्रवीत् ॥३३॥
 ॥अत्रिरुवाच ॥
नास्माकं मुनयोऽज्ञानं नास्माकं गृहबुद्धयः ॥
हैमानिमान्विजानंतो ग्रहीष्याम उदुम्बरान् ॥३४॥
तस्मादेतानि संत्यज्य हेमगर्भाणि दूरतः ॥
उदुम्बराणि यास्यामः फलानि विगतस्पृहाः ॥३५॥
सार्वभौमो महीपाल एकोऽन्यश्च निरीहकः ॥
सुभगस्तु तयोर्नित्यं भूयाद्भूयो निरीहकः ॥३६॥
धर्मार्थमपि विप्राणां संचयोऽर्थस्य गर्हितः ॥
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ॥३७॥
त्यजतः संचयान्सर्वान्यांति हानिमुपद्रवाः ॥
न हि सर्वार्थवान्कश्चिद्दृश्यते निरुपद्रवः ॥३८॥
निर्धनत्वं तथा राज्यं तुलायां धारयेद्बुधः ॥
अकिंचनत्वमधिकं जायते संमतिर्मम ॥३९॥
 ॥कश्यप उवाच ॥
अनर्थोऽयं मुने प्राप्तो यदर्थस्य परिग्रहः ॥
अर्थैश्वर्यविमूढात्मा श्रेयसा मुच्यते हि सः ॥४०॥
अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थं प्रयत्नेन श्रेयोऽर्थी दूरतस्त्यजेत् ॥४१॥
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः ॥
यः पुनस्तपसा साध्यः स मोक्षायेति मे मतिः ॥४२॥
 ॥भरद्वाज उवाच ॥
जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः ॥
चक्षुः श्रोत्रे तथा पुंसस्तृष्णैका तरुणायते ॥४३॥
सूच्या सूत्रं यथा वस्त्रं संचारयति सूचिका ॥
तद्वत्संसारसूत्रं च वांछयात्मा नयत्यसौ ॥४४॥
यथा शृंगं हि कायेन वर्द्धमानेन वर्धते ॥
तद्वत्तृष्णापि वित्तेन वर्द्धमानेन वर्द्धते ॥४५॥
अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा ॥
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत् ॥४६॥
गौतम उवाच ॥
संतुष्टः केन चाल्योऽस्ति फलैरपि विवर्जितः ॥
सर्वोपीन्द्रियलौल्येन संकटे भ्रमति द्विजाः ॥४७॥
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ॥
उपानद्गूढपादस्य ननु चर्मास्तृतेव भूः ॥४८॥
संतोषामृततृप्तानां यत्सुखं शांतचेतसाम् ॥
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥४९॥
असंतोषः परं दुःखं संतोषः परमं सुखम् ॥
सुखार्थी पुरुषस्तस्मात्संतुष्टः सततं भवेत् ॥५०॥
 ॥विश्वामित्र उवाच ॥
कामं कामयमानस्य यदि कामः स सिध्यति ॥
तथान्यो जायते पुंसस्तत्क्षणादेव कल्पितः ॥५१॥
 न जातु कामी कामानां सहस्रैरपि तुष्यति ॥
हविषा कृष्णवर्त्मेव वांछा तस्य विवर्धते ॥५२॥
कामानभिलषन्मोहान्न नरः सुखमाप्नुयात् ॥
श्येनालयतरुच्छायां व्रजन्निव कपिञ्जलः ॥५३॥
नित्यं सागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम् ॥
तुल्याश्मकाश्चनश्चैव स कृतार्थो महीपतेः ॥५४॥
 ॥जमदग्निरुवाच ॥
योऽर्थं प्राप्याधमो विप्रः शोचितव्येपि हृष्यति ॥
न च पश्यति मन्दात्मा नरकं चा कुतोभयः ॥५५॥
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥
य एव ददतां लोकास्त एवाप्रतिगृह्णताम् ॥५६॥
अरुन्धत्युवाच ॥
बिसतंतुर्यथाऽनन्तो नालमासाद्य संस्थितः ॥
तृष्णा चैवमनाद्यन्ता स्थिता देहे शरीरिणाम् ॥५७॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥
याऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्  ॥५८॥
चण्डोवाच ॥
सर्पादिवद्धनाद्यस्माद्बिभ्यतीमे ममेश्वराः ॥
यतस्ततो विशेषेण कस्मात्तस्माद्भयं मम ॥५९॥
पशुमुख उवाच ॥
यदाचरन्ति विद्वांसः सदा धर्मपरायणाः ॥.
तदेव विदुषा कार्यमात्मनो हितमिच्छता ॥६०॥
सूत उवाच ॥
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च ॥
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥६१॥
चमत्कारपुरेक्षेत्रे विविशुस्ते ततः परम् ॥
ददृशुः सहसा प्राप्तं परिव्राजं शुनोमुखम् ॥६२॥
तेनैव सहितास्तत्र गत्वा किञ्चिद्वनान्तरम् ॥
दृष्टवन्तस्ततो हृद्यं सरः पंकजशोभितम् ॥६३॥
ततो बुभुक्षयाविष्टा बिसान्यादाय भूरिशः ॥
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जल क्रियाम् ॥६४॥
अथोत्तीर्यजलात्सर्वे ते समेत्य परस्परम् ॥
बिसानि तान्यपश्यन्त इदं वचनमब्रुवन् ॥६५॥
 ॥ऋषय ऊचुः ॥
केन क्षुधाभितप्तानामस्माकं निर्दयात्मना ॥
मृणालानि समस्तानि स्थानादस्माद्धृतानि च ॥६६॥
ते शंकमाना अन्योन्यमृषयः शंसितव्रताः ॥
प्रचक्रुः शपथान्रौद्रानात्मनः प्रविशुद्धये ॥६७॥
 ॥कश्यप उवाच ॥
सर्वभक्षः सदा सोऽस्तु न्यासलोभं करोतु वा ॥
कूटसाक्षित्वमभ्ये तु बिसस्तैन्यं करोति यः ॥६८॥
धर्मं करोतु दंभेन राजानं चोपसेवताम् ॥
मधुमांसं सदाश्नातु बिसस्तैन्यं करोति यः ॥६९॥
 ॥वसिष्ठ उवाच ॥
अनृतौ मैथुनं यातु दिवा वाप्यथ पर्वणि ॥
अतिथिः स्यात्ततोऽन्योन्यं बिसस्तैन्यं करोति यः ॥७०॥
 ॥भरद्वाज उवाच ॥
योधिगम्य गुरोः शास्त्रं निष्क्रयं न प्रयच्छति ॥
तस्यैनसा स युक्तोस्तु बिसस्तैन्यं करोति यः ॥७१॥
नृशंसोऽस्तु स सर्वत्र समृद्ध्या चाप्यहंकृतः ॥
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः ॥७२॥
 ॥विश्वामित्र उवाच ॥
एकाकी मृष्टम श्नातु प्रशंस्यादथ चात्मनः ॥
वेदविक्रयकर्तास्तु बिसस्तैन्यं करोति यः ॥७३॥
 ॥जमदग्निरुवाच ॥
कन्यां यच्छतु वृद्धाय स भूयाद्वृषली पतिः ॥
अस्तु वार्धुषिको नित्यं बिसस्तैन्यं करोति यः ॥७४॥
 ॥गौतम उवाच ॥
स गृह्णात्वविकादानं करोतु हयविक्रयम् ॥
प्रकरो तु गुरोर्निंदां बिसस्तैन्यं करोति यः ॥७५॥
 ॥अत्रिरुवाच ॥
मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् ॥
शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः ॥७६॥
प्रतिश्रुत्य न यो दद्याद्ब्राह्मणाय गवादिकम् ॥
तस्यैनसा स युज्येत बिसस्तैन्यं करोति यः ॥७७॥
 ॥अरुंधत्युवाच ॥
करोतु पत्युः पूर्वं सा भोजनं शयनं तथा ॥
नारी दुष्टसमाचारा बिसस्तैन्यं करोति या ॥७८॥
 ॥चण्डोवाच ॥
स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च ॥
साधुद्वेषपरा चैव बिसस्तैन्यं करोति या ॥७९॥
पशुमुख उवाच ॥
स्वामिद्रोहरतो नित्यं स भूयात्पापकृन्नरः ॥
साधु द्वेषपरश्चैव बिसस्तैन्यं करोति यः ॥८०॥
 ॥शुनोमुख उवाच ॥
वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः ॥
सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः ॥८१॥
 ॥ऋषय ऊचुः ॥
इष्ट एव द्विजातीनां यस्त्वया शपथः कृतः ॥
बिसस्तैन्यं हि चास्माकं तन्नूनं भवता कृतम् ॥८२॥
 ॥शुनोमुख उवाच ॥
मया हृतानि सर्वेषां बिसानीमानि वो द्विजाः ॥
धर्मान्वै श्रोतुकामेन मां जानीत पुरंदरम् ॥८३॥
युष्माकं परितुष्टोऽस्मि लोभाभावाद्द्विजोत्तमाः ॥
तस्मात्स्वर्गं मया सार्द्धं शीघ्रमागम्यतामिति  ॥८४॥
 ॥ऋषय ऊचुः ॥
मोक्षमार्गं समासक्ता न वयं स्वर्गलिप्सवः ॥
तस्मात्तपश्चरिष्यामः सरसीह विमुक्तये ॥८५॥
पूर्णा सागरपर्यंतां चरित्वा पृथिवी मिमाम् ॥
प्राणयात्रां प्रकुर्वाणा मृणालैर्मुनिसत्तमाः ॥
तस्माद्गच्छ तव श्रेयो भूयादस्मात्समागमात् ॥८६॥
 ॥शक्र उवाच ॥
न वृथा दर्शनं मे स्यात्कदाचिदपि सुव्रताः ॥
तस्माद्गृह्णीत यच्चित्ते सदाभीष्टं व्यवस्थितम् ॥८७॥
 ॥ऋषय ऊचुः ॥,
आश्रमोऽयं सुविख्यातो भूयाच्छक्र महीतले ॥
नाम्नास्माकं तथा नृणां सर्वपातकनाशनः ॥८८॥
वयं स्थास्यामहे नित्यमत्रैव सुरसत्तम ॥
तपोऽर्थं भावितात्मानो यावन्मोक्षगतिर्ध्रुवा ॥८९॥
 ॥इन्द्र उवाच ॥
त्रैलोक्येऽपि सुविख्यात आश्रमो वो भविष्यति ॥
तथा कामप्रदश्चैव लोकानां संभविष्यति ॥९०॥
यो यं काममभिध्याय श्राद्धमत्र करिष्यति ॥
श्रावणे पौर्णमास्यां च स तं सर्वमवा प्स्यति ॥९१॥
निष्कामो वा नरो यस्तु श्राद्धं दानमथापि वा ॥
प्रकरिष्यति मोक्षं स समवाप्स्यत्यसंशयम् ॥९२॥
ये चात्र देहं त्यक्ष्यंति युष्माकं चाश्रमे शुभे ॥
अपि पापसमायुक्तास्ते यास्यंति परां गतिम् ॥९३॥
इंगुदैर्बदरैर्वापि बिल्वैर्भल्लातकैरपि ॥
पितॄनुद्दिश्य यः श्राद्धं करिष्यति समाहितः ॥९४॥
स यास्यति परां सिद्धिं दुर्लभां त्रिदशैरपि ॥
सर्वपापविनिर्मुक्तः स्तूयमानश्च किंनरैः ॥९५॥
 ॥सूत उवाच ॥
एवमुक्त्वा सहस्राक्षस्तैः सर्वैरभिनंदितः ॥
जगामादर्शनं तेऽपि स्थितास्तत्र द्विजोत्तमाः ॥९६॥
ततः काले गते तेऽपि कृत्वा तीव्रं महत्तपः ॥
संप्राप्ताः परमं स्थानं जरामरणवर्जितम् ॥९७॥
तैस्तत्र स्थापितं लिङ्गं देवदेवस्य शूलिनः ॥
तस्य संदर्शनादेव नरः पापाद्विमुच्यते ॥९८॥
यस्तल्लिंगं पुनर्भक्त्या पुष्पधूपानुलेपनैः ॥
अर्चयेत्स ध्रुवं मुक्तिं प्राप्नोति द्विजसत्तमाः ॥९९॥
एतत्पवित्र मायुष्यं सर्वपातकनाशनम् ॥
सप्तर्षोणां समाख्यातमाश्रमस्यानुकीर्तनम् ॥१००॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तर्ष्याश्रममाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP