नागरखण्डः - अध्याय ६७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
एतस्मिन्नंतरे प्राप्तो रामो भ्रातृभिरन्वितः ॥
फलानि कन्दमूलानि गृहीत्वाऽऽश्रमसम्मुखः ॥१॥
स दृष्ट्वा स्वाश्रमं ध्वस्तं पुलिन्दैर्बहुशो वृतम् ॥
लकुटाश्मप्रहारैस्तु तां धेनुं जर्जरीकृताम् ॥२॥
पप्रच्छ किमिदं सर्वं व्याकुलत्वमुपागतम् ॥
आश्रमास्पदमाभीरैः पुलिन्दैश्च समावृतम् ॥३॥
केनैषा मामिका धेनुः प्रहारैर्जर्जरीकृता ॥
तापस्यस्तापसाः सर्वे कस्मादेते रुदन्ति च ॥४॥
क्व स मेऽद्य पिता वृद्धो माता च सुतवत्सला ॥
न मामद्य यथापूर्वं स्नेहाच्चायाति सम्मुखी ॥५॥
अथ तस्य समाचख्युर्वृत्तांतं सर्वतापसाः ॥
यथादृष्टं सुदुःखार्ता सहस्रार्जुनचेष्टितम् ॥६॥
ततस्ते भ्रातरः सर्वे वज्रपातोपमं वचः ॥
श्रुत्वा दृष्ट्वा च तं शस्त्रैः खंडितं जनकं निजम् ॥७॥
मातरं क्षतसर्वाङ्गीं प्राणशेषां व्यथान्विताम् ॥
रुरुदुः शोकसन्तप्ता मुक्त्वा रामं महाबलम् ॥८॥
रुदित्वाथ चिरं कालं विप्रलप्य मुहुर्मुहुः ॥
अन्त्येष्टिं चक्रिरे तस्य वेदोक्तविधिना ततः ॥९॥
अथ दाहावसाने ते कृत्वा गर्तां यथोचिताम् ॥
मुक्त्वा रामं ददुस्तोयं पितुः पुत्रास्तिलान्वितम् ॥१०॥
अथान्यैस्तापसैः प्रोक्तो रामः शस्त्रभृतां वरः ॥
न प्रयच्छसि कस्मात्त्वं प्रेतपित्रे जलांजलिम् ॥११॥
अथासौ बहुधा प्रो क्तस्तापसैर्जमदग्निजः ॥
प्रहारान्गणयन्मातुः शितशस्त्रविनिर्मितान् ॥१२॥
ततस्तानब्रवीद्रामो विनिःश्वस्य मुनीश्वरान् ॥
निषेधस्तोयदानस्य श्रूयतां यन्मया कृतः ॥१३॥
अपराधं विना तातः क्षत्रियेण हतोमम ॥
एकविंशतिः प्रहाराणां मातुरंगे स्थिता मम ॥१४॥
तस्मान्निःक्षत्रियामुर्वीं यद्यहं न करोमि वै ॥
प्रहारसंख्यया विप्रास्तन्मे स्यात्सर्वपातकम् ॥१५॥
पितृमातृवधाज्जातं यत्कृतं तेन पाप्मना ॥
क्षत्रियापसदेनात्र तथान्यदपि कुत्सितम् ॥१६॥
ततस्तस्यैव चान्येषां क्षत्रियाणां दुरात्मनाम् ॥
रुधिरैः पूरयित्वेमां गर्तां पितृजलोचिताम् ॥
तर्पयिष्यामि रक्तेन पितरं नाहमंभसा ॥१७॥
॥ सूत उवाच ॥
श्रुत्वा ते दारुणां तस्य प्रतिज्ञां तापसोत्तमाः ॥
परं विस्मयमापन्ना नोचुः किंचित्ततः परम् ॥१९॥
अथाशौचांतमासाद्य रामः क्रोधसमन्वितः ॥
तीक्ष्णं परशुमादाय माहिष्मत्युन्मुखं ययौ ॥१९॥
सर्वैस्तैः शबरैः सार्धं पुलिन्दैर्मेदकैस्तथा ॥
बद्धगोधांगुलित्राणैर्वरबाणधनुर्धरैः ॥२०॥
तथाऽर्जुनोऽपि तं श्रुत्वा समायातं भृगूत्तमम् ॥
सैन्येन महता युक्तं प्रतिज्ञाधारिणं तथा ॥२१॥
ततस्तु सम्मुखो दृष्टो युद्धार्थं स विनिर्ययौ ॥
सार्धं नानाविधैर्योधैः सर्वैर्देवासुरोपमैः ॥२२॥
अथाभवन्महायुद्धं पुलिन्दानां द्विजोत्तमाः ॥
हैहयाधिपतेर्योधैः सार्धं देवासुरोपमैः ॥२३॥
ततस्ते हैहयाः सर्वे शरैराशीविषोपमैः ॥
वध्यन्ते शबरैः संख्ये गर्जमानैर्मुहुर्मुहुः ॥२४॥
ब्रह्महत्यासमुत्थेन पातकेन ततश्च ते ॥
जाता निस्तेजसः सर्वे प्रपतंति धरातले ॥२५॥
न कश्चित्पौरुषं तत्र संप्रदर्शयितुं क्षमः ॥
पलायनपरा सर्वे वध्यन्ते निशितैः शरैः ॥२६॥
अथ भग्नं बलं दृष्ट्वा हैहयाधिपतिः क्रुधा ॥
स्वचापं वाञ्छयामास सज्यं कर्तुं त्वरान्वितः ॥
शक्नोति नारोपयितुं सुयत्नमपि चाश्रितः ॥२७॥
ततश्चाकर्षयामास खङ्गं कोशात्सुनिर्मलम् ॥
आक्रष्टुं न च शक्रोति वैलक्ष्यं परमं गतः ॥२८॥
गदया निर्जितो रौद्रो रावणो लोकरावणः ॥
यया साप्यपतद्धस्तात्तत्क्षणात्पृथिवीतले ॥२९॥
नर्मदायाः प्रवाहो यैः सहस्राख्यैः करैः शुभैः ॥
विधृतस्तेन ते सर्वे बभूवुः कम्पविह्वलाः ॥३०॥
न शस्त्रं शेकुरुद्धर्तुं दैवयोगात्कथंचन ॥
दिव्यास्त्राणां तथा सर्वे मन्त्रा विस्मृतिमागताः ॥३१॥
एतस्मिन्नंतरे रामः संप्राप्तः क्रोधमूर्छितः ॥
तीक्ष्णं परशुमुद्यम्य ततस्तं प्राह निष्ठुरम् ॥३२॥
हैहयाधिपते पाप यैः करैर्जनको मम ॥
त्वया विनिहतस्तान्मे शीघ्रं दर्शय सांप्रतम् ॥३३॥
ब्रह्मतेजोहतः सोऽपि प्रोक्तस्तेन सुनिष्ठुरम् ॥
नोवाच चोत्तरं किंचिदालेख्ये लिखितो यथा ॥३४॥
ततो भुजवनं तस्य रामः शस्त्रभृतां वरः ॥
मुहुर्मुहुर्विनिर्भर्त्स्य प्रचकर्त शनैःशनैः ॥३५॥
ततश्छित्त्वा शिरस्तस्य कुठारेण भृगूद्वहः ॥
जग्राह रुधिरं यत्नात्प्रहारेभ्यः स्वयं द्विजाः ॥३६॥
पूरयित्वा महाकुम्भाञ्छबरेभ्यो ददौ ततः ॥
म्लेच्छेभ्यो लुब्धकेभ्यश्च ततः प्रोवाच सादरम् ॥३७॥
हाटकेश्वरजे क्षेत्रे गर्ता मे भ्रातृभिः कृता ॥
पितृसंतर्पणार्थाय सलिलेन परिप्लुता ॥३८॥
प्रक्षिपध्वं द्रुतं गत्वा तस्यां रक्तमिदं महत् ॥
पापस्यास्य सपत्नस्य ममादेशादसंशयम् ॥३९॥
येन तातं निजं भक्त्या तर्पयित्वा विधानतः ॥
ऋणस्य मुक्तिर्भवति येन मे पैतृकस्यच ॥४०॥
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सहस्रार्जुनवधवर्णनंनाम सप्तषष्टितमोऽ ध्यायः ॥६७॥ ध ॥
N/A
References : N/A
Last Updated : December 23, 2024
TOP