नागरखण्डः - अध्याय १५४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
या नारी तत्र सत्कुण्डे स्नात्वा तां पार्वतीं पुनः ॥
दृष्ट्वा स्नाति ततस्तीर्थे तस्मिन्रूपमये शुभे ॥१॥
पुनश्च पार्वतीं पश्येच्छ्रद्धया परया युता ॥
सद्यः सा मुच्यते कृत्स्नैराजन्ममरणांतिकैः ॥२॥
तत्रैवास्ति जयानाम पार्वत्याः किंकरी द्विजाः ॥
तया तत्र कृतं कुण्डं गौरीकुण्डसमीपतः ॥३॥
या तत्र कुरुते स्नानं तृतीयादिवसेऽबला ॥
सुतसौभाग्यसंपन्ना सा भवेत्पतिवल्लभा ॥४॥
तथान्यदपि तत्रास्ति विजयाकुण्डमुत्तमम् ॥
तत्र स्नाताऽपि वंध्या स्त्री जायते पुत्रसंयुता ॥५॥
न च पश्यति पुत्राणां कदाचिद्व्यसनं द्विजाः ॥
न वियोगं न दुःखं च स्वप्नांते च कदाचन ॥६॥
काकवंध्याऽपि या नारी तत्र स्नानं समाचरेत् ॥
सा पुत्रान्विविधाँल्लब्ध्वा स्वर्गलोके महीयते ॥७॥
॥ ऋषय ऊचुः ॥
एतेषां सूत तीर्थानां तीर्थमस्ति सुसिद्धिदम् ॥
क्वचित्किंञ्चिद्भवेत्सिद्धिर्यत्र स्नानाच्छरीरजा ॥८॥
॥ सूत उवाच ॥
सप्तविंशतिलिंगानि यानि संति द्विजोत्तमाः ॥
तेषां मध्येऽभवत्सिद्धिरेकस्मिन्निखिला द्विजाः ॥९॥
एकस्य सत्त्वयुक्तस्य वीरव्रतयुतस्य च ॥
आश्विनस्य चतुर्दश्यां कृष्णायां द्विजसत्तमाः ॥१०॥
अर्धरात्रे विधानेन तेषां पूजां करोति यः ॥
प्रागुक्तं जपनं भक्त्या स क्रमात्साधकोत्तमः ॥११॥
अंगन्यासं विधायोच्चैः क्षुरिकासूक्तमुच्चरत् ॥
तेषामग्रे पुनः सम्यक्पूजयित्वा च शंकरम् ॥१२॥
पृथगेकैकशो भक्त्या पूजयेद्दिक्पतींश्च वै ॥१३॥
अथाऽऽगत्य गणेशो वै विकरालो भयानकः ॥
लंबोदरो वै नग्नश्च कृष्णदन्तसमुद्भवः ॥१४॥
खड्गहस्तोऽब्रवीद्युद्धं प्रकुरुष्व मया समम् ॥
मुक्त्वैतत्कपटं भूमौ यदि वीरोऽसि सात्त्विकः ॥१५॥
ततस्तत्कर्षणाच्चापि यस्तेनाशु प्रताड्यते ॥
स तेनैव शरीरेण नीयते तेन तत्पदम् ॥१६॥
यत्र स्थाने जरामृत्युर्न शोकश्च कदाचन ॥
तथा चित्रेश्वरीपीठे सिद्धिरेकस्य कीर्तिता ॥१७॥
माघकृष्णचतुर्दश्यां यः पीठं तत्र पूजयेत् ॥
आगमोक्तविधानेन सम्यक्छ्रद्धासमन्वितः ॥१९॥
पश्चात्कपालमादाय महामांसप्रपूरितम् ॥
अहमस्य करोम्यद्य महामांसस्य विक्रयम् ॥१९॥
सिद्धिमूल्ये न गृह्णातु कश्चिच्चेदस्ति सात्त्विकः ॥
ततश्च याचते यश्च प्रगृह्णाति च सद्द्विजाः ॥२०॥
स तमादाय निर्याति यत्र देवो महेश्वरः ॥
हाटकेश्वरजं लिंगं चित्रशर्मप्रतिष्ठितम् ॥२१॥
तस्य स्थानस्य मध्यस्थो यस्तं पूजयते नरः ॥
शिवरात्रौ निशीथे च पुष्पलक्षणभक्तितः ॥
सुसिद्धिमाप्नुयात्तूर्णं स शरीरेण तत्क्षणात् ॥२२॥
सिद्धिस्थानानि सर्वाणि तस्मिन्क्षेत्रे स्थितानि वै ॥
वीरव्रतप्रयुक्तानां मानवानां द्विजोत्तमाः ॥२३॥
॥ ऋषय ऊचुः ॥
तामसो यस्त्वया प्रोक्तः सिद्धिमार्गो महामते ॥
अनर्हो ब्राह्मणेन्द्राणां श्रोत्रियाणां विशेषतः ॥२४॥
शुद्धान्तः करणैः सूत भूतहिंसाविवर्जितैः ॥
यथा संप्राप्यते मोक्षो ब्राह्मणैः सुचिरादपि ॥२५॥
तत्त्वं ब्रूहि महाभाग मोक्षोपायं द्विजन्मनाम् ॥२६॥
॥ सूत उवाच ॥
रुद्रैर्दशभिः संयुक्तमानंदेश्वरकं तथा ॥
स्नात्वा तदग्रतः कुण्डे शास्त्रदृष्टेन कर्मणा ॥२७॥
संसिद्धिमाप्नुयान्मर्त्यो दुर्लभां त्रिदशैरपि ॥
माघमासे नरः स्नात्वा विश्वामित्रह्रदे नरः ॥२८॥
प्रत्यूषे तिलपात्रं च ब्राह्मणाय निवेदयेत् ॥
सर्वपापविनिर्मुक्तो ब्रह्म लोके महीयते ॥२९॥
यद्यपि स्याद्दुराचारः सर्वाशी सर्वविक्रयी ॥
सुपर्णाख्यस्य देवस्य पुरतः श्रद्धयाऽन्वितः ॥३०॥
प्रायोपवेशनं कृत्वा ह्युपवासपरो नरः ॥
यस्त्यजेन्मानवः प्राणान्न स भूयोऽभिजायते ॥३१॥
एवं सिद्धित्रयं प्रोक्तं ब्राह्मणानां हितावहम् ॥
सात्त्विकं ब्राह्मणश्रेष्ठाः शंसितं त्रिदशैरपि ॥३२॥
अन्यानि तत्र तीर्थानि देवतायतनानि च ॥
तानि स्वर्गप्रदान्याहुर्मुनयः शंसितव्रताः ॥३३॥
एतद्वः सर्वमाख्यातं क्षेत्रमाहात्म्यमुत्तमम् ॥
हाटकेश्वरदेवस्य सर्वपातकनाशनम् ॥३४॥
योऽत्र सर्वेषु तीर्थेषु स्नात्वा पश्यति भक्तितः ॥
सर्वाण्यायतनान्येव स पापोऽपि विमुच्यते ॥३५॥
एतत्खंडं पुराणस्य प्रथमं परिकीर्तितम् ॥
कार्तिकेयप्रणीतस्य सर्वपापहरं शुभम् ॥३६॥
यश्चैतत्कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥
इह भुक्त्वा सुविपुलान्भोगान्याति त्रिविष्टपम् ॥३७॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानैश्च यत्फलम् ॥
तत्फलं समवाप्नोति शृण्वञ्छ्रद्धासमन्वितः ॥३८॥
श्रुत्वा पुराणमेतद्धि जन्मकोटिसमुद्भवात् ॥
पातकाद्विप्रमुच्येत कुलानामुद्धरेच्छतम् ॥३९॥
ततो व्यासः पूजनीयो वस्त्रदानादिभूषणैः ॥
गोभूहिरण्यनिर्वापैर्दानैश्च विविधैरपि ॥४०॥
तेन संपूजितो व्यासः कृष्णद्वैपायनः मनुः ॥
साक्षात्सत्यवतीपुत्रो येन व्यासः सुपूजितः ॥४१॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥४२॥
एतत्पवित्रमायुष्यं धन्यं स्व स्त्ययनं महत् ॥
यच्छ्रुत्वा सर्वदुःखेभ्यो मुच्यते नात्र संशयः ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये चित्रेश्वरीपीठक्षेत्रमाहात्म्यवर्णनंनाम चतुःपंचाशदुत्तरशततमोऽध्यायः ॥१५४॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP